"क्रोधाद्भवति सम्मोहः..." इत्यस्य संस्करणे भेदः

वास्तव्येन
परिष्कारः
 
पङ्क्तिः १४:
 
}}
'''क्रोधाद्भवति सम्मोहः''' ({{IPA audio link|क्रोधाद्भवति सम्मोहः.wav}}) इत्यनेन श्लोकेन भगवान् श्री[[कृष्णः]] अधःपतनस्य कारणानि निरूपयति । पूर्वस्मिन् श्लोके विषयचिन्तनात् रागः, रागात् आसक्तिः, आसक्त्याः कामना, कामनायाः क्रोधश्च समुद्भवति इति उक्तम् । इतोऽपि अधिकानि पतनकारणानि अत्र वदति । चतुःपञ्चाशे श्लोके अर्जुनस्य तृतीयः प्रश्नः "स्थितधीः (स्थितप्रज्ञः) किमासीत" इति आसीत् । तस्य प्रश्नस्योत्तरं भगवान् अष्टपञ्चाशात् श्लोकात् एनं श्लोकं पर्यन्तम्यावद् अर्थात् त्रिषष्टं श्लोकं पर्यन्तंयावत् कथयति ।
 
== श्लोकः ==
पङ्क्तिः ९४:
क्रोधे सति सम्मोहः (मूढता) भवति । सम्मोहात् स्मृतिभ्रष्टता जायते । स्मृतिभ्रष्टतायां सत्यां बुद्धिनाशः सञ्जायते । बुद्धिनाशात् मनुष्यस्य पतनं भवति । 'क्रोधाद्भवति सम्मोहः' – क्रोधात् सम्मोहः (मूढता) सञ्जायते, परन्तु वस्तुतः कामात्, क्रोधात्, लोभात्, ममतायाः च सम्मोहः समुद्भवति । यथा – कामनायाः यः सम्मोहः जायते, सः विवेकशक्तिं नाशयति । क्रोधात् यः सम्मोहः समुद्भवति सः वर्तनव्यवहारं नाशयति । लोभात् समुद्भूतः सम्मोहः सत्यासत्ययोः, धर्माधर्मयोः विचारं नाशयति । ममतायाः समुद्भूतात् सम्मोहात् पक्षपातः जायते ।
 
यदि काम-क्रोध-लोभ-ममताभ्यः सम्मोहः जायते, तर्हि भगवता किमर्थं केवलं क्रोधस्य एव उल्लेखः सम्मोहोद्भवस्य कारणत्वेन कृतः । यदि सर्वेषां कामादीनाम् अध्ययनं क्रियते, तर्हि ज्ञायते यत्, सर्वेषु स्वसुखोपभोस्यस्वसुखोपभोगस्य, स्वार्थवृत्तिःस्वार्थवृत्तेः च प्रबलता भवति । अतः क्रोधात् यः सम्मोहः सञ्जायते सः काम-लोभ-ममतादिभ्यः समुद्भूतात् सम्मोहात् भयङ्करः भवति । अतः अत्र भगवता केवलं क्रोधस्यैव सम्मोहोद्भवकारणत्वेन उल्लेखः कृतः ।
 
'सम्मोहात्स्मृतिविभ्रमः' – मूढतायाः कारणेन स्मृतिनाशः भवति । अर्थात् शास्त्रेषूक्ताः आदेशाः, सद्विचारैः उद्भूताः सङ्कल्पाः च स्मृतिविभ्रमत्वात् विस्मृताः भवन्ति । यथा – शास्त्रेषूक्तम् अस्ति यत्, भोजनान्ते विषं वारि इति । सद्विचारैः ज्ञातं यत्, नित्यं प्रातःकाले व्यायामः कर्तव्यः इति । परन्तु स्मृतिविभ्रमात् एतादृशानि सद्कार्याणिसत्कार्याणि विस्मृतानि भवन्ति ।
 
'स्मृतिभ्रंशाद्बुद्धिनाशो' – स्मृतिनष्टे सति बुद्धौ स्थितः विवेकः अपि लुप्तः भवति अर्थात् मनुष्ये नवीनानां विचाराणां चिन्तनाय शक्तिरेव न भवति ।
 
'बुद्धिनाशात्प्रणश्यति' – विवेकलुप्ते सति मनुष्यः पतितः भवति । तस्मात् पतनात् रक्षणाय सर्वैः साधकैः भगवत्पराणयैःभगवत्पराणैः अनिवार्येणअनिवार्यतया भवितव्यम् ।
 
== मर्मः ==
पङ्क्तिः ११४:
=== भाष्यार्थः ===
 
क्रोधात् सम्मोहः अर्थात् कर्तव्याकर्तव्यविषकस्यकर्तव्याकर्तव्यविषयकस्य अविवेकस्य उद्भवः । यतः क्रोधी मनुष्यः मोहितः सन् गुरुं (ज्येष्ठानां) प्रति अपि अपशब्दानाम् उपयोगं करोति । मोहात् स्मृतेः विभ्रमो जायते अर्थात् शास्त्रैः, आचार्यैः च येभ्यः उपदिष्टेभ्यः संस्कारेभ्यः स्मृतिः उद्भवति स्म, तेषां संस्काराणाम् अनुगुणं कार्यं कर्तुम् अवरसेअवसरे प्राप्ते सत्यपि उपदेशानुगणंउपदेशानुगुणं कार्यं न भवति ।
 
एवं स्मृतिविभ्रमे सति बुद्धिनाशो जायते । अन्तःकरणे कार्याकार्ययोः विवेचनयोग्यतायाः नाशनाशः एव बुद्धिनाशः उच्यते । बुद्धिनाशत्वात् मनुष्यः नष्टो भवति । यतो हि सः तावत्पर्यन्तं मनुष्यः अस्ति, यावत्पर्यन्तं तस्य अन्तःकरणं कार्याकार्ययोः विवेचने समर्थम् अस्ति । कार्याकार्ययोः विवेचनायाम् असमर्थः मनुष्यः नष्टप्रायः भवति । अर्थात् तस्मिन् मनुष्यतायाः हीनता भवति इति । एवं मनुष्यस्य अन्तःकरणस्य विवेकशक्तिरूपिण्याः बुद्धेः नाशे पुरुषः नष्टो भवति । अर्थात् सः पुरुषार्थेभ्यः अयोग्यः सिद्ध्यति ।
 
== रामानुजभाष्यम् <ref> [https://archive.org/stream/HindiBookSrimadBhagavadGitaWithRamanujaBhasyaHindiGitaPress/Hindi%20Book-Srimad-Bhagavad-Gita-With-Ramanuja-Bhasya-Hindi-Gita-Press#page/n23/mode/2up रामानुजभाष्यम्] </ref> ==
पङ्क्तिः १२२:
 
=== भाष्यार्थः ===
क्रोधाद्क्रोधात् सम्मोहः भवति । कर्तव्याकर्तव्ययोः अविवेकः सम्मोहः इति । तेन सम्मोहेन विशीभूतःवशीभूतः मनुष्यः सर्वं करोति । तेन इन्द्रियजयादिभ्यः प्रारब्धस्य प्रयत्नस्य स्मृतिः नश्यति । स्मृतिनाशे सति बुद्धिः नश्यति । अर्थाद् आत्मज्ञानस्य प्राप्त्यै यः निश्चयः कृतः आसीत्, तस्य नाशः भवति इति । एवं बुद्धिनाशे सति सः पुनः संसारसागरे निमग्नो भूत्वा नश्यति । {{गीताश्लोकक्रमः|शीर्षकम्= [[भगवद्गीता|श्रीमद्भगवद्गीतायाः श्लोकाः]]|पूर्वश्लोकः = [[ध्यायतो विषयान्पुंसः...]] |अग्रिमश्लोकः =[[रागद्वेषवियुक्तैस्तु...]]}}
 
{{साङ्ख्ययोगः}}
"https://sa.wikipedia.org/wiki/क्रोधाद्भवति_सम्मोहः..." इत्यस्माद् प्रतिप्राप्तम्