"भारतीयर्शनेषु ख्यातिस्वरूपम्" इत्यस्य संस्करणे भेदः
Content deleted Content added
→उपसंहारः: संचित्रसारमञ्जूषे योजनीये using AWB |
No edit summary |
||
पङ्क्तिः ३:
'''भारतीयदर्शनेषु खातिस्वरुपविमर्शः''' इति विधित्सितः । यद्यपि '''ख्याति'''शब्दः दर्शनेषु ज्ञानवाचकः, तथापि अन्यथाख्यातिपरतयाऽपि ख्यातिशब्दप्रयोगः अभियुक्तैः कृतः प्रसिध्द एव । यथा हि अख्यातिरित्यत्र न ख्यात्यभावो बोध्यते अपि तु अन्यथाख्यात्यभावः । अत्र च ख्यातिशब्दः अन्यथाख्यातौ रुढः अभियुक्तप्रयोगविषयश्च । एवं च समग्रेऽस्मिन् प्रबन्धे ख्यातिशब्दस्य अन्यथाख्यातिरुपार्थं स्वीकृत्य विमर्शः विहितः । तत्र बौध्द- प्राभाकर-न्याय –अद्वैत-विशिष्टाद्वैत –द्वैतदर्शनेषु कृतः ख्यातिस्वरुपविमर्शः अबाधितानुवादपुरस्सरं इह विस्तरेण् निरुप्यते । नकेवलं ग्रन्थस्थाः विषया अनूद्यन्ते अपि तु प्राचीनख्यातिस्वरुपवादिनामुपरि अर्वाचीनैः कृता आक्षेपाः तत्तद्दार्शनिकैः कृताश्च परिहारोपायाः युक्ता अयुक्ता वेत्यपि विविच्यते । अभिनवान्यथाख्यातिवादिनां द्वैतसिध्दान्तिनां नूत्ना च विचारप्रणाली सामोदमिहोपस्थाप्यते ।
==पीठिका==
काण्वी ह्युपनिषत् अनुशास्ति-
पङ्क्तिः २१:
#'''अनिर्वचनीयख्यातिवादिनः''' – मायावादिनः (अद्वैतवादिनः)
#'''अभिनवान्यथाख्यातिवादिनः''' – द्वैतसिध्दान्तानुयायिनः
अत्र आत्मख्यातिवादिनां (विज्ञानवादिनाम् ) असत्ख्यातिवादिनां (शून्यवादिनाम्) च विचारप्रणाली प्रथमेऽध्याये चिन्त्यते । द्वितीयेऽध्याये अख्यातिवादिनः गुरुमतस्य विस्तरेण विमर्शः करिष्यते । तृतीयेऽध्याये अख्यातिवादिनां रामानुजीयानां नैयायिकैकदेशिनां च अभिप्रायविशेषः प्रस्तूयते । चतुर्थेऽध्याये तार्किकाभिमतान्यथाख्यातिस्वरुपश्च विमृश्यते । पञ्चमेऽध्याये अद्वैतवादिनां अनिर्वचनीयख्यातिस्वरुपविमर्शः क्रियते । षष्ठेऽध्याये अभिनवान्यथाख्यातिवादिनां द्वैतसिध्दान्तिनां विचारप्रणाली प्रतिपाद्यते । एवं षडध्यायात्मके अस्मिन् प्रबन्धे ख्यातिविषये दर्शनषट्कविचारः विदुषामेव तोषकः तन्यते ।
▲===आत्मख्यातिवादः===
आत्मख्यातिवादिनां विज्ञानवादिनाम् अयमाशयः –इदं रजतमित्यत्र प्रतीयमानं रजतं सत्यमेव किन्तु आन्तरमेव । तथा हि- अत्र प्रतीयमानं रजतं न तावदसदिति शक्यते वक्तुम् ।प्रतीत्यनुपपत्तेः । नाऽपि पुरत एव सत् भ्रान्त्यनुपपत्तेः बाधानुभवविरोधाच्च । नाऽपि देशान्तरे सत्त्वं अनुभवारुढम् । अतः परिशेषात् ज्ञानाकारमेव रजतमिति वक्तव्यम् । अत्र चानुमानं मानम् । ‘इदं ज्ञानरुपम् इन्दियसम्प्रयोगे असत्यपि अपरोक्षत्वात् ज्ञानवत्’ इति । न च प्रतीयमानस्य रजतस्य सत्यत्वे भ्रान्त्यनुपपत्तिः इति वाच्यम् । आन्तरस्यैव बाह्यतया अवभासस्य भ्रमत्वेन स्वीकृतत्वात् । नेदमिति बाधकज्ञानं तु त् तस्य बाह्यतानिषेधपरमिति नानुपपत्तिलेशः ।
पङ्क्तिः ३१:
अपि च ज्ञानस्यापि इन्द्रियसम्प्रयोगादेव अपरोक्षताङ्गीकारेण दृष्टान्तस्य साधनविकलता । किञ्च गुञ्जापुञ्जादौ दहनसमारोपे तस्य अन्तः सत्त्वे देहदाहप्रसङ्गः । अन्यथा अन्तरपि तस्य अविद्यमानत्वेन अत्यन्तासत्त्वं दुर्वारम् । तस्मात् नात्मख्यातिपक्षः श्रेयान् ।
शून्यवादिनः पुनः असत्ख्यातिमेवं समर्थयन्ति । इदं रजतमित्यत्र प्रतीयमानं रजतं न तावत् सदेव भवितुमर्हति । बाधानुभवविरोधात् । नाऽपि सदसत् । एकस्यैव एकत्रैव सदसत्त्वविरोधात् । न च असतोऽप्रतीतिः । अन्यथाख्यातिवादिभिः असत एव तादात्म्यस्य संसर्गस्य वा प्रतिभानाभ्युपगम इव अस्माभिरपि असत्याया एव बाह्यतायाः प्रतिभासाभ्युपगमात् । सत एव् प्रतीतिरिति पक्षे भ्रान्तिबाधयोरनुपपत्तिः स्फुटैव ।
पङ्क्तिः ३८:
अपि च असदेव रजतमवभासमानं किमसत्तया अवभासते । अथा सत्तया ? आद्ये रजतमविद्यमानमिति विजानतः प्रवृत्त्यनुपपत्तिः ।द्वितीये स्वीकृता अन्यथाख्यातिरिति शुक्तिरेव रजतात्मना अवगाहत इति कुतो नाङ्गीक्रियते । तस्मात् असत्ख्यातिपक्षोऽपि न विचारसहः । एवञ्च प्रथमे अध्याये आत्मख्यातिवादिनां असत्ख्यातिवादिनां च ख्यातिस्वरुपविमर्शः क्रियते ।
▲द्वितीयेऽस्मिन अध्याये प्राभाकरमतानुरोधेन ख्यातस्वरुपविमर्शः निरुप्यते । तत्र हि सर्वं ज्ञानं यथार्थमेवेति मन्यमानाः प्राभाकराः नान्यथाख्यातिं सहन्ते । हेतुपञ्चकात् अन्यथाख्यातिरपाकृता तैः । तदुक्तम् –
:::'''साकारवादात् असतो न भानात् संविद्विरोधात् अथ हेत्वभावात् ।
Line ५० ⟶ ४९:
ज्ञानमात्रस्य याथार्थ्यवादी प्राभाकरः विपर्ययाभावमेवं समर्थयति । केयमन्यथाख्यातिर्नामेति । अन्यथापरिणते वस्तुनि ख्यातिर्यद्यन्यथाख्यातिः तदा घटादिप्रत्ययाः सर्वेऽपि विभ्रमाः प्रसज्येरन् ।
किञ्च शुक्तिकायाः रजताकारपरिणामः किम् सकारणः उताकारणः
किञ्चोत्पन्नं चेद्रजतं विनष्टं, तदा तथैव प्रतीतिः स्यात् । न पुनर्नेदं रजतमिति बाधबुध्दिः । तदेवं भ्रान्तिबाधयोरनुपपत्तेर्न परिणामपक्षो युक्तः ।
===असतो न भानात्===
वस्तुनो वस्त्वन्तरात्मता सती उताऽसती । वस्तुनो वस्त्वन्तरात्मतायाः सत्त्वे, न भ्रान्तिर्नाऽपि बाधः । सर्वस्य सर्वात्मतायाः सत्त्वेन, सर्वेषां सर्वं सर्वात्मना प्रतीयेत् । न तत्र दोषः करणसंस्कारः । किञ्चैवं सति रजतसंवित् समीचीना शुक्तिरेवेयमिति चासमीचीनाऽपद्येत ।
पङ्क्तिः ८५:
अत्रोच्यते । अन्यदन्यात्मना विषयीकुर्वत् ज्ञानमन्यथाख्यातिरित्यङ्गीक्रियते । तथा हि- इन्द्रियदोषेण शुक्तिरेवात्यन्तासद्रजतात्मना अवगाहते । न च करणदोषस्य कारणत्वे करणसम्बन्धिनस्तस्य कथं शुक्तिकापरिणामहेतुत्वमिति वाच्यम् । परिणामपक्षानङ्गीकारादित्युक्तम् । शुक्तौ रजते च् चाकचक्यतारुपसमानधर्मसद्भावात् शुक्तिं दृष्टवतः इन्द्रियदोषेण तत्र सादृश्याद् भवति रजतप्रतीतिः । असादृश्यादेव न च भवति रज्जुप्रतीतिः । असतो न प्रतीतिरिति चेत् कथं तर्हि असद्वैलक्षण्यं परः प्रतीयात् । वैलक्षण्यज्ञानं प्रति प्रतियोगिभूतासतः विज्ञानस्यावर्जनीयत्वात् । तस्मादसदपि प्रतीयत इति वाच्यमेव । तथा च शुक्तिरेवात्यन्तासद्रजतात्मनाऽवगाहत इत्युक्तं युक्तमेव ।
ननु
किञ्च विषयत्वं रजतस्यापि नास्माकं भ्रमस्थलेऽसम्प्रतिपन्नम् । तथा हि –तत्र यत्सन्निकृष्टकरणेन इत्याद्युक्तविषयत्वाभावेऽपि व्यावर्तकत्वरुपविषयत्वस्य विद्यमानत्वात् । रजतं तत्र तिष्ठतु मा वा रजतज्ञानं रजतेतराद् व्यावृत्तिर्धी जनयतीति सर्वसम्प्रतिपन्नम् । तथा च रजतस्य यत्सन्निकृष्टेत्याद्युक्तविषयत्वाभावेऽपि व्यावर्तकत्वरुपरुपविषयत्वसद्भावात् रजतज्ञानस्य रजतविषयकत्वमप्युपपद्यत एव ।
पङ्क्तिः ९३:
एतेनैव धियामनाश्वासभयोऽपि दूरोत्सारितो वेदितव्यः । नियतयथार्थः खलु साक्षी चैतन्यरुपः ज्ञानं तद्याथार्थ्यं च स्वयमेव गृह्णतीति अस्माकं सिध्दान्तः । उत्तरत्र महाप्रबन्धे विशदीक्रियते चायमर्थः । एवं च अनाश्वासनिरसनोपायसद्भावात् मानसेऽर्थे संशयविपर्ययजननेऽपि साक्षिगृहीतेऽर्थे सुखादिषु संशयाद्यननुभवाच्च युक्त एव उक्तोऽर्थः । तस्मात् अन्यथास्वरुपमवश्यमभ्युपेयम् इति स्थितम् ।एवं द्वितीयेऽध्याये प्राभाकरमतानुरोधेन ख्यातिस्वरुपमनूद्यनिराकृत्य च अन्यथाख्यातिरभ्युपेयेति समर्थनं कृतम् ।
==सत्ख्यति-असत्ख्यतिरूपविमर्शः==
रामानुजीया अपि ‘तासां त्रिवृत्तं त्रिवृत्तमेकैकाम् करवाणीति’ ‘त्र्यात्मकत्वात्’ ‘इत्यादिसूत्रबलाच्च सर्वत्र सर्वसद्भावं मन्यन्ते । अत एव वेदोक्तं सोमाभावे पूतिकग्रहणं व्रीह्यभावे नीवारग्रहणं च समञ्जसमित्युपपादयन्ति । एवं च शुक्तिकाया रजतांशसद्भावात् यथार्थ एवायं प्रत्ययः । दोषवशादिन्द्रियं शुक्तौ विद्यमानं शुक्तयंशं भूयांसं यदा न गृह्णाति तदा जातं रजतज्ञानं भ्रमात्मकमुच्यते । इन्द्रियदोषापगमे इयं शुक्तिः इति तन्निष्ठभूयस एवांशस्योपलम्भे रजतज्ञानमल्पविषयकं निवर्तते इति व्याचक्षते ।
पङ्क्तिः १०४:
तदसत् । भेदाग्रहः किं सर्वत्र प्रवृत्तिहेतुरुतात्रैवेति प्राभाक्रपक्षोक्तदोषाणामत्रापि विद्यमानत्वात् । एवं रामानुजीयाणां तार्किकैकदेशिनां च अख्यातिवादिनामाशयविशेषः तृतीयेऽस्मिन्नध्याये विमृश्यते ।
==तार्किकाभिमतख्यातिस्वरुपविमर्शः==
न च नेदं रजतम् इति बाधज्ञानमेव रजतस्य असत्त्वमावेदयतीति वाच्यम् । तस्य रजतविषयकत्वकल्पनायां कल्पनागौरवात् । तदुक्तं विद्यावृध्देः –
पङ्क्तिः १२१:
किञ्च असतः प्रतीत्यसम्भवे तादात्म्यस्य कथमवभासः । तस्मात् तादात्म्यस्य संसर्गमात्रस्य वा असत्वाभ्युपगमः, अत्र प्रतीतस्य रजतस्य अन्यत्र सत्वाभ्युपगमश्च न विवेकिनां तोषाय भवतीति तार्किकमतं न युक्तिसहमिति मन्यामहे । एवञ्च तुरीयेऽस्मिन्नध्याये तार्किकाभिमतख्यातिस्वरुपविमर्शः कृतः ।
==अनिर्वचनीयख्यतिरूपविनर्ञ्चशः==
अथ असत्त्वाभावमात्रं साध्यं, तथापि असदेव रजतं प्रत्यभादित्यनुभवविरोधः । विवादपदम् अनिर्वचनीयम् भ्रमविषयत्वात्, यन्नेवं, तन्नेवं, यथा आत्मा इति अनुमानं मानमस्तु इति चेत्, न । अत्रापि सिध्दसाधनत्वाद्यपरिहारात् । अप्रसिध्दविशेषणश्च पक्षः ।शुक्त्यादौ आत्मनि च भ्रमविषयत्वस्य वर्तमानतया विरुध्दश्च हेतुः । यत्र यत्र भ्रमविषयत्वं तत्र तत्र अनिर्वचनीयत्वाभावः इत्यपि वक्तुं शक्यत्वेन हेतुः विरुध्दः । आत्मनः अपि मायिमते अधिष्ठानत्वेन भ्रमविषयत्वात् । सिध्दान्ते च निर्गुणत्वादिभ्रमविषयत्वोपगमात् ।
पङ्क्तिः १२९:
अतः अनुमानात् शुक्तिरजतादेः अनिर्वाच्यतासिध्दिः न भवति । ख्यातिबाधान्यथाऽनुपपत्तिश्च अनेनैव निराकृता वेदितव्या । एवञ्च पञ्चमेऽस्मिन्नध्याये अनिर्वचनीयस्वरुपनिराकरणपुरस्सरं शुक्तिरजतस्य अनिर्वचनीयत्वमपाक्रियते
==अभिनवान्यथाख्यातिरूपविमर्शः ==
एवञ्च दोषसन्निकृष्टेन चक्षुषा जायमानं रजतज्ञानं विशेष्यांशे यथार्थमपि प्रकारांशे अयथार्थं प्रतिभासते । अत्र च प्रतीयमानं रजतं अन्यत्र सदित्यत्र मानाभावात् अत्यन्तासदेव रजतं शुक्तौ सादृश्यवशात् भासत इति अभ्युपगमे न कोऽपि दोष इति विस्तरेणेह अध्याये प्रपञ्च्यते । एवं षटसु अध्यायेषु ख्यातिस्वरुपविमर्शः विदुषां मनस्तोषाय भवतीति मन्यामहे ।
|