"प्रश्नोपनिषत्" इत्यस्य संस्करणे भेदः

→‎प्रश्नोपनिषदः वैशिष्ट्यम्: सारमञ्जूषा योजनीया‎ using AWB
पङ्क्तिः १७:
द्वितीयेन प्रश्नेन तावत् भार्गवः पिप्पलादं पृच्छति, कति देवाः प्रजानां स्थूलशरीरं धारयन्ति, तेषु वरिष्ठः देवः कः इति । 'पञ्चभूतानि इन्द्रियाणि च शरीरस्य निजः आधारः न, प्रमुखः आधारः भवति प्राणः । [[प्राणः]] एव वायु-अग्नि-आदिदेवेषु वरिष्ठः । यावत्कालं प्राणः देहे आस्ते तावदेव अन्ये देवाः (इन्द्रियाणि)तमधिकृत्य क्रियाशीलाः भवन्ति । तस्य शरीरान्निस्सरणानन्तरम् अन्ये निष्क्रियाः भवन्ति । अतः प्राणः एव विश्वपतिः । सः सर्वस्य आधारभूतः । सः एव सर्वस्य प्रेरकः' इति उत्तरति मुनिः ।
==तृतीयप्रश्नः==
तृतीयेन प्रश्नेन आश्वलायनः पृच्छति, प्राणः कुतः आयाति, देहप्रवेशः कथम्, पञ्चधा कथं विभक्तः भवति, देहादूर्घ्वोत्क्रमणं कथम् इति । तदा पिप्पलादः ब्रूते-आत्मनः एव प्राणः जायते । मनोकृतेन सङ्कल्पेन एषः प्राणः जीवमनुप्रविशति । विविधकर्माणि कर्तुं जीवं धारयितुं च एषः स्वयं पञ्चधा विभक्तः सन् पञ्चसु स्थानेषु तिष्ठति हृदि प्राणो गुदेऽपानः समानो नाभिसंस्थितः । उदानः कण्ठदेशस्थो व्यानः सर्वशरीरगः इत्यमरः । प्राणः सम्राडिव सर्वान् प्रणान् तत्तत्कार्ये विधत्ते अपानः पुरुषं दृढं धारयति यथा न पतेत् भूमौ तथा । हुतमन्नं जीर्णीकरोति समानः । सर्वासु नाडीषु सञ्चरति व्यानः । उदानः यथासङ्कल्पम् ऊर्ध्वं पुण्यं लोकं नयति मरणानन्तरम् । [[आदित्यः]], [[पृथिवी]], [[आकाशः]], [[वायुः]], [[तेजः]] च क्रमेण प्राण-अपान-समान-व्यान-उदानरूपेण बाह्यपदार्थानाम् आधाररूपाः भवन्ति । देहान्तर्गततत्त्वानां प्राणः आधारभूतः भवति ।
==चतुर्थप्रश्नः==
चतुर्थे प्रश्ने सौर्यायणी गार्ग्यः पुरुषे सुप्ते कानि स्वपन्ति कानि च जागृतानि भवन्ति, कः देवः स्वप्नान् पश्यति, कः सुखमनुभवति, कस्मिन् सर्वाः शक्तयः सम्प्रतिष्ठिता भवन्ति इति पृच्छति । तदा उत्तरं ब्रवीति गुरुः- सर्वाः शक्तयः मनसि सम्मिल्य स्वपन्ति । प्राणाग्नयः जागरिताः सन्तः सततं कार्यरताः भवन्ति । स्वप्नान् पश्यति देवः [[मनः]] एव । विविधानि शक्याशक्यानि दृष्टादृष्टानि वस्तूनि मनसि गोचराः भवन्ति । पूर्णज्ञानस्य प्राप्त्या आत्मा सुखी भवति, मनः अपि सुखमनुभवति । सुषुप्तस्थितौ सर्वाणि भूतानि, तेषां तन्मात्राणि, सर्वाणि इन्द्रियाणि, इन्द्रियविषयाश्च आत्मनि लीनाः भवन्ति । आत्मा एव द्रष्टा, श्रोता, वक्ता च । सः परमश्रेष्ठे अक्षरब्रह्मणि प्रतिष्ठितः । परब्रह्म एव सर्वेषां प्रतिष्ठारूपम् ।
"https://sa.wikipedia.org/wiki/प्रश्नोपनिषत्" इत्यस्माद् प्रतिप्राप्तम्