"रामेश्वरम्" इत्यस्य संस्करणे भेदः

सम्पादनसारांशरहितः
| coordinates_display=
| other_names =
| proper_name =रामनाथस्वामिरामनाथस्वामी तिरुकोयिल्कोयिल्
| devanagari =
| sanskrit_translit =
रामः रावणस्य संहारानन्तरं पुनः गन्धमादनक्षेत्रम् आगतः । तत्र सीता अग्निपरीक्षाद्वारा पावित्र्यं प्राकटयत् । तथापि रामस्य मुखे काचित् चिन्ता दृष्टा अगस्त्यादिमुनिभिः । यद्यपि रामः रावणेन सह जाते युद्धे जयं प्राप्तवान् तथापि रावणसंहारेण ब्रह्महत्यादोषपूर्णः जातः आसीत् । तदेव दुःखं रामं बाधते स्म । मुनयः रामस्य दुःखम् अवगतवन्तः । तदा ते रामं सागरतीरे शिवस्य ज्योतिर्लिङ्गं संस्थाप्य पूजयितुं सूचितवन्तः । रामः कैलासतः [[शिवः|शिवस्य]] दिव्यलिङ्गम् आनेतुं हनुमन्तम् असूचयत् । हनुमान् कैलासं प्राप्तवान् चेदपि तत्र शिवस्य दर्शनं न प्राप्तवान् । शिवस्य दर्शनं प्राप्य दिव्यलिङ्गस्य आनयनसमये कालः अतीतः । रामस्य सङ्कल्पपरिवर्तनं तु न भवेदेव । तदा सीता मनोबलेन एव रामस्य पुरतः सिकतानिर्मितं शिवलिङ्गम् अकरोत् । मुनीनाम् आदेशानुगुणं रामः सिकतालिङ्गम् एव प्रतिष्ठाप्य पूजितवान् । ज्येष्ठशुद्धदशम्यां बुधवासरे हस्तानक्षत्रे स्थिते चन्द्रे, वृषभराशौ स्थिते सूर्ये च शिवलिङ्गस्य प्रतिष्ठापनं कृतम् । तदेव रामेश्वरलिङ्गम् । स्वस्य प्रयत्नः विफलः जातः इति हनुमान् कुपितः । वृष्टि-वायुबाधां सोढुम् अशक्तेन तेन सिकतानिर्मितेन शिवलिङ्गेन किं प्रयोजनम् ? कैलासतः आनीतं स्फटिकलिङ्गं किं करणीयम् ? इति कोपेन रामम् अपृच्छत् हनुमान् । तदा रामः "तर्हि एतत् सिकतानिर्मितं शिवलिङ्गं ततः निष्कास्य स्फटिकलिङ्गं भवान् एव प्रतिष्ठापयतु" इति [[हनुमान्|हनुमन्तम्]] असूचयत् । महता प्रयत्नेन अपि सिकतानिर्मितं शिवलिङ्गं कम्पयितुम् अपि न शक्तः हनुमान् । तस्मात् दुःखितं हनुमन्तं समाश्वसन् रामः सिकतालिङ्गस्य पार्श्वे एव स्फटिकलिङ्गम् अपि प्रतिष्ठापितवान् । "हनुमदीश्वरः" इति प्रसिद्धस्य तस्य लिङ्गस्य दर्शनानन्तरम् एव रामेश्वरस्य दर्शनं करणीयम् । तदा एव यात्रा फलति इति हनुमते आश्वासनम् अपि दत्तवान् रामः । तदा एव तत्र प्रत्यक्षः सन् शिवः रामं "भवता स्थापितस्य रमेश्वरलिङ्गस्य दर्शनेन भक्ताः मुक्तिं प्राप्नुवन्ति" इति अवदत् ।
 
रामः रामेश्वरस्य पूजनेन रावणसंहारदोषात् मुक्तः जातः । ब्रह्मणः पञ्चमं शिरः कर्तितवान् शिवः अपि अत्रत्ये शिवतीर्थे स्नात्वा तपः आचर्य पापमुक्तः जातः । कंससंहारं कृतवान् कृष्णः अपि प्रायश्चित्तार्थम् अत्रत्ये कोटितीर्थे स्नानं कृतवान् । सूर्यः यदा मकराशौमकरराशौ भवति तदा, ग्रहणकाले च धनुष्कोटितीर्थे स्नानकरणेन पुण्यं प्राप्यते इति वदति रामेश्वरमाहात्म्यम् । नारिकेलवृक्षाणां पङ्क्तयः, जलात् उपरि आगताः महाशिलाः, फेनयुक्ताः पौनःपुन्येन आगच्छन्तः तरङ्गाः च अत्रत्यं सौन्दर्यं वर्धयन्ति । "आसेतुहिमाचल" इति शब्दः अपि अत्रत्यरामनिर्मितसेतुकारणतः एव प्रयोगपथम् आगतः ।
भारतस्य दक्षिणान्ते प्रदेशे स्थितम् एतत् दक्षिणकाशी इति च प्रसिद्धम् अस्ति । अत्र रामनाथस्वामी देवालयः अपूर्वः विशालः च अस्ति । सागरतीरे स्थितः प्राचीनदेवालयः एषः पुराणकालादपि प्रसिध्दः अस्ति । श्री[[रामः]] एव अत्र शिवलिङ्गं प्रतिष्ठापितवान् इति [[रामायणम्|रामायणे]] अस्ति । अतः एव रामेश्वरम् इति नाम आगतम् ।
अत्र सागरे समुद्रस्नानं पुण्यकरम् आनन्दाय च भवति । रामेश्वरं प्रकृतिसौन्दर्य युक्तं पवित्रक्षेत्रं च अस्ति ।
६११

सम्पादन

"https://sa.wikipedia.org/wiki/विशेषः:MobileDiff/403852" इत्यस्माद् प्रतिप्राप्तम्