"महात्मा गान्धी" इत्यस्य संस्करणे भेदः

(लघु) (GR) File renamed: File:Young Gandhi.jpgFile:Mahatma Gandhi, age 7.jpg this is not Indira Gandhi at any age
पङ्क्तिः १२९:
 
==बाल्ये सत्यप्रियतायाः पाठः==
[[चित्रम्:MahatmaMohandas K Gandhi, age 7.jpg|thumb|100px|right|बालकः गान्धी (क्रि.श.१८७६तमवर्षस्य चित्रम्)]]
 
बाल्ये एकदा मोहनदास गान्धी 'श्रवणपितृभक्तिः ‘[[सत्यहरिश्चन्द्रः]]’ च इति नाटाकद्वयं दृष्टवान् । तदा बालकस्य मनसि महान् परिणामः दृष्टः आसीत् । मोहनदासः “[[श्रवणकुमारः]] इव भक्तियुक्तः तथा हरिश्चन्द्रः इव सत्यप्रियः भवामि “ इति निश्चितवान् । आजीवनं सत्यप्रियतां त्यक्तुं न इष्टवान् । मोहनदास गान्धी बाल्ये मातुः सकाशात् पुराणकथाः श्रुतवान् । सदा निष्कपटः सन् स्वकृतं दोषमपि मात्रे कथयति स्म । ग्रामजीवनं तस्य इष्टम् आसीत् । अतः एव स्वदेशीवस्तुषु मोहनदासगान्धिमहोदयस्य अतीव प्रीतिः आसीत् । त्रयोदशे वयसि मोहनदास गान्धी कस्तूरबा इति कन्यया सह विवाहं कृतवान् । त्रयाणां भ्रातॄणां विवाहः एकदा एव कृतः आसीत् । बाल्ये मोहनदासः कदापि असत्यं न वदति स्म । एकदा प्राथमिकविद्यालये निरीक्षकाः आगच्छन् । ते शब्दान् लेखितुम् अवदन् । बालकः मोहनदासः एकं शब्दं दोषपूर्णं लिखितवान् । अध्यापकः समीकर्तुं संज्ञया सूचितवान् तथापि मोहनदासः स्वापराधम् अङ्गीकृतवान् आसीत् । भारतदेशात् आङ्गलान् उच्चाटयितुं प्रबलानां सैनिकानां यूनाम् आवश्यकता अस्ति । अतः शरीरं बलिष्ठं कर्तुं मांसाहारः उत्तमः इति मित्रवचनात् अनिच्छन्नपि मांसाहारं स्वीकृतवान् । भ्रातुः ऋणविमोचनार्थं गृहे सुवर्णं चोरितवान् । किन्तु एतत् सर्वं दुष्टं कार्यम् इति मत्वा पित्रे पत्रमेकं लिखितवान् । अग्रे दुष्टं कार्यं न करोमि इति प्रतिज्ञां कृतवान् तथैव अग्रे अनुसरन् आसीत् ।
"https://sa.wikipedia.org/wiki/महात्मा_गान्धी" इत्यस्माद् प्रतिप्राप्तम्