"सामवेदः" इत्यस्य संस्करणे भेदः

0
1
पङ्क्तिः ५:
सामवेदस्य गानप्रचुरता प्रथिता, ऋच एव गीयन्ते, सामवेदे १५४९ मन्त्रा सन्ति, तेषु ७५ मन्त्रा ईदृशा ये ‘ऋग्वेदे’ न प्राप्यन्ते, शेषाः सर्वेऽप्युभयवेदसाधारणाः । सामवेदगतमन्त्राणां सप्त स्वराः, यतस्ते गीयन्ते, ऋग्वेदे पुनस्तेषामेव मन्त्राणां त्रय एव स्वराः एतावानेव उभयवेदसाधारणानां साममन्त्राणामृग्वेदमन्त्रेभ्यो भेदः ।
== सामवेदस्य व्याख्या ==
सामवेदो द्विधा विभज्यते –पूर्वर्चिकम्, उत्तरार्चिकं च । पूर्वार्चिकमेव छन्दः, छ्न्दसी, छन्दसिका चेति त्रिभिरपि नामभिरभिधीयते । विषयानुसारं पूर्वर्चिकं चतुर्षु भागेषु विभज्यते – आग्नेयपर्व (अग्निसम्बधिनीभिः ऋग्भिरुपेतम्), ऎन्द्रपर्व ( इन्द्रसम्बन्धिनीभिः ऋग्भिर्युतम् ), पवमानपर्व (सोमविषयकम्), आरण्यकपर्व च ।
उत्तरार्चिकन्तु अनुष्ठाननिर्देशकम् । तस्य बहवो विभागाः- दशरात्रम्, संवत्सरम्, ऎकाहम्, अहीनम्, सत्रम्, प्रायश्चित्तम्, क्षुद्रञ्चेति प्रमुखास्तत्र भेदाः ।
 
साम-सान्त्वेन इति धातोः निष्पन्नं सामपदम् । सा इति ऋक्सूचकतया अम इति गानम् । स्वरादिव्यञ्जकतया च व्याख्यां केचिद् वदन्ति । सामवेदस्य एकसहस्रं शाखा: आसन् । प्रपञ्चहृदयकारस्य काले द्वादशशाखाः विहाय अन्याः नष्टाः इदानीन्तु केवलं तिस्रः शाखाः समुपलभ्यन्ते । सङ्गीतस्य उद्भवः सामगानात् इति विचक्षणा आचक्षते । सामगानेऽपि सप्तस्वराः एव भवन्ति । ते आधुनिकशास्त्रीयसङ्गीतसंविधानात् आरोहावरोहणक्रमे किञ्चिदिव व्यत्यस्ताः दृश्यन्ते । खरहरप्रियारागतुल्याः सामगानस्वराः कुष्ठं (प्रथमं), द्वितीयं, तृतीयं (मध्यमम्), चतुर्थं, मन्द्रं (पञ्चमम्), अतिस्वायं (षष्ठम्), अतिस्वरम् (अन्यं) एते सप्तस्वराः । सामगानालापने गायकैः हस्ताङ्गुलीभिः मुद्राः अभिनीयन्ते एताभ्यः मुद्राभ्यः स्वरस्थानानि मात्राश्च प्रतीयन्ते ।
Line १५ ⟶ १४:
 
==सामवेदस्य विभागः==
 
सामवेदो द्विधा विभज्यते –पूर्वर्चिकम्, उत्तरार्चिकं च । पूर्वार्चिकमेव छन्दः, छ्न्दसी, छन्दसिका चेति त्रिभिरपि नामभिरभिधीयते । विषयानुसारं पूर्वर्चिकं चतुर्षु भागेषु विभज्यते – आग्नेयपर्व (अग्निसम्बधिनीभिः ऋग्भिरुपेतम्), ऎन्द्रपर्व ( इन्द्रसम्बन्धिनीभिः ऋग्भिर्युतम् ), पवमानपर्व (सोमविषयकम्), आरण्यकपर्व च ।
 
उत्तरार्चिकन्तु अनुष्ठाननिर्देशकम् । तस्य बहवो विभागाः- दशरात्रम्, संवत्सरम्, ऎकाहम्, अहीनम्, सत्रम्, प्रायश्चित्तम्, क्षुद्रञ्चेति प्रमुखास्तत्र भेदाः ।
 
सामवेदस्य आर्चिकद्वयं वर्तते,पूर्वार्चिकमुत्तरार्चिकं च । पूर्वार्चिके षट्प्रपाठकाः सन्ति प्रत्येकेस्मिन् प्रपाठके द्वौ खण्डौ स्तः । प्रत्येकखण्डे एका दशतिः प्रतिदशतौ च दशसंख्यकात् न्यूनानि ऊर्ध्वाणि वा मन्त्राणि सन्ति । प्रथमप्रपाठक आग्नेयकाण्डः, द्वितीयाध्यायतः चतुर्थाध्यायं यावत् ऎन्द्रपर्व, पञ्चमोऽध्यायः पवमानपर्व, षष्ठप्रपाठक आरण्यकपर्व इत्युच्यते । प्रथमाध्यायतः पञ्चमाध्यायं यावत् ऋचः ग्रामगान इत्युच्यन्ते । पूर्वार्चिकेऽस्मिन् ६५० मन्त्राः विद्यन्ते । उत्तरार्चिके नवप्रपाठकाः सन्ति । प्रथमपञ्चप्रपाठकानां द्वौ द्वौ भागौ स्तः । अवशिष्टचतुर्णां प्रपाठकानां त्रयः त्रयः भागाः सन्ति । उत्तरार्चिके मन्त्राणां संख्या १२२५ । ऋग्वेदस्य १५०४ मन्त्राः सामवेदे उद्धृता सन्ति ।
 
"https://sa.wikipedia.org/wiki/सामवेदः" इत्यस्माद् प्रतिप्राप्तम्