"वेदः" इत्यस्य संस्करणे भेदः

0
0
पङ्क्तिः १७:
 
==वेदानां रचना कालः==
 
अतिप्राचीनमिदं वैदिकवाड्मयं तथापि आधुनिका इतिहासविदः दैशिका वैदेशिकाश्च तेषां कालनिर्धारणे बद्धादराः । यथा-लोकमान्यतिलकमहोदयो यद्गणिताधारेण वेदानां ६००० ई० पू० निर्मितत्वम्, ततोऽपि वा पूर्वकालिकत्वं निर्धारितवाँस्तत्र नास्ति सन्देहस्यावकाशः। वेदानां रचनायां जातायां तद्व्याख्यानभूताः ब्राह्मणग्रन्थाः अरच्यन्त । ब्राह्मणग्रन्थेभ्यः पश्चात् आरण्यकानि, तदनन्तरमुपनिषदस्ततो [[रामायण]][[महाभारत|महाभारता]]<nowiki/>दिकं लौकिकसाहित्यानि चेति। अतिव्यापकं विस्तृतञ्चेति वैदिकवाङ्मयम् । वैदिकवाङ्मयेऽस्मिन् मानवजीवनोपयोगिनः सर्वेऽपि विषयाः साधु विवेचिता इति कथनं समुचितमेव । अत्र प्रेयःशास्त्रं श्रेयःशास्त्रश्चोभयं समभावेन समेधितम् । अत एवात्र भोगमोक्षयोरुभयोः सत्तायाः सकलसाहित्यापेक्षया विशिष्टता विद्यते ।
 
प्राचीना भारतीया विद्वांसो वेदानपौरुषेयान् मन्यन्ते, तेषां मते वेदरचनाकालविचारो निरर्थको दुरर्थकश्च । पाश्चात्त्या विद्वांसो यथाबुद्धिवैभवं वेदरचनाकालं निर्धारयन्ति, पाश्चात्त्यविचारसरणिविदो भारतीया अपि तेनैव मार्गेण वेदकालं निर्णेतुं यतन्ते । अत्र तद्विषयका कतिचन विचाराः प्रस्तूयन्ते ।
 
===मैक्समूलरमतम्===
मैक्समूलरमहोदयस्य मतेन ऋग्वेदस्य रचना ११५० ई.पू. समीपे जाता । बुद्धधर्मोदयात् प्रागेव च ब्राह्मणग्रन्था अपि व्यरच्यन्ते । बुद्धेन ब्राह्मणग्रन्थेषु विवेचितानामेव यागविधीनां कट्वी आलोचना क्रियते स्म, अपि चोपनिषत्समर्थितं कतिपयतत्त्वजातमात्मसात् क्रियते स्म’ अतो बुद्धात् पूर्वतना (५०० ई.पू.) एव ब्राह्मणोपनिषद्भागाः सम्भवन्ति । वैदिकसाहित्ये चत्वारि युगानि- छन्दोयुगम्, मन्त्रयुगम्, ब्राह्मणयुगम्, सूत्रयुगञ्च । प्रत्येकयुगविकासे तेन वर्षशतद्वयं कालः कल्पितः, तदनुसारेण बुद्धात् ६०० वर्षतः पूर्व छन्दोयुगस्यास्तित्वं समायाति । अतः ऋग्वेदस्य रचना ११५० ई.पू. समायात् पश्चात्कालिकी न सम्भवतीति सम्प्रति ऋग्वेदस्य जातस्य ३२०० वर्षाणि जातानीति कथयितुं शक्यमिति तदाशयः । मैक्समूलरमहोदयेनायं कालः सम्भाव्यरूपेणोक्तो न तु निश्चयरूपेण, परं तदनुसारिणः पाश्चात्त्यास्तदीयैरेव तर्कैः कालममुं निश्चयरूपेण कथयितुं प्रवृत्ताः ।
 
===डा अविनाशचन्द्रदासमतम्===
अयं महानुभावः वेदे निर्दिष्टानि अनेकानि भूगर्भशास्त्रीयतत्त्वानि विशेषतः आर्यावर्त्ततश्चतुर्दिक्षु चतुः समुद्रीस्थितिमाधारीकृत्य गणनाद्वारा वेदस्य समयं २५ सहस्रसंवत्सरपूर्वं मन्यते । इदमीयं मतम् ‘ऋग्वेदिक इण्डिया’ (RigVedic India) नामके पुस्तके व्यक्ततयाऽनेन प्रतिपादितम् ।
 
===वेदस्थितज्यौतिषतत्त्वाधारं मतम्===
भारते षड् ऋतवो भवन्ति । अमी ऋतवः सायन- निरयण सूर्यसंक्रमण निमित्तकाः । सायनचान्द्रमासद्वयात्मिका च |यथा- विष्णुपराणे २|८|८१ तपस्तपस्यौ मधुमाधवौ च शुक्रश्शुचिश्चायनमुत्तरं स्यात् |
Line ६६ ⟶ ७२:
:'''दुदोह यज्ञसिद्ध्यर्थमृग्यजुः सामलक्षणम् ॥''' मनु. १/१३
अतो वेदानां त्रित्वादेव तत्र त्रयीति व्यवहारो वास्तवो न प्रकारभेदकृतः’ इति तदयुक्तम्, ऋग्वेदेऽपि अथर्ववेदनामोल्लेखदर्शनात् । भगवता पतञ्जलिनाऽपि ‘चत्वारो वेदाः साङ्गाः सरहस्याः’ इति पस्पशाह्निके स्पष्टमुक्तम् । छान्दोग्यब्राह्मणे मनुस्मृतौ च यज्ञोपयोगिनो वेदा एव परामृष्टाः, नाभिचारिकः सामवेद इति त्रित्वमेवोक्तम्, एवं परत्रापि । जैमिनिस्तु मन्त्राणां विप्रकारकतामेव लक्षितवान्, न वेदसंख्यां व्यवस्थापितवान् । अतो वेदाश्चत्वार एव, त्रयीति व्यवहारस्तु प्रकारकृतः । अथर्ववेदीयमन्त्रा अपि
 
== वेदस्य स्वरूपम् ==
 
प्रधानरूपेण वेदो द्विविधः — मन्त्ररूपो ब्राह्मणरूपश्चेति। मन्त्रसमुदाय एव संहिताशब्देन व्यवहृतः । ब्राह्मणरूपो वेदभागस्तु संहिताभागस्य व्याख्यारूप एव । स चायं ब्राह्मणभागो यागस्वरूप बोधकतया प्रथितः । ब्राह्मणग्रन्थोऽपि त्रिधा विभक्तो भवति - ब्राह्मणम्, आरण्यकम्, उपनिषदश्च । यज्ञस्वरूपप्रतिपादको ब्राह्मणभागश्व। अरण्ये पठिताः यज्ञस्याध्यात्मिकं रूपं विवेचयन्तो वेदभागाः आरण्यकानि । उपनिषदो ब्रह्मबोधिकाः मोक्षसाधनानि, अयमेव भागो वेदस्यान्तरूपतया वेदान्त इत्युच्यते । ब्राह्मणभागो गृहस्थानामुपयोगी, आरण्यकभागो वानप्रस्थमाश्रितानाम् उपनिषद्भागश्च संन्यस्तानामुपयोगीत्यपि कथयितुं शक्यते।
 
== वेदाः ==
 
भारतीयानां समस्तं साहित्यं वेदैरेव परिबृंहितम् अस्ति। महर्षिः बादरायणिः अत एव वेदव्यासनाम्ना सम्मानभागभवत् । यत्तेन महात्मना वेदानामेव व्याख्यानम् अष्टादशपुराणानां रूपेण विहितम् । मीमांसाशास्त्रे पुराणानां महन्महत्त्वं वणितमस्ति । ‘भारतं पञ्चमो वेदः' इति आकारिकासूक्तिः तु प्रसिद्धा एव। यद्यपि भारतीया विद्वांसो वेदानाम् अपौरुषेयत्वं साटोपं (आत्मतृप्त्यै) स्वीकुर्वन्ति, तथापि वेदानां मन्त्राः, तेषामुपदेशाश्च अपौरुषेयत्वेऽपि ईश्वरोक्तत्वाद् आप्तप्रमाणत्वेन स्वीक्रियन्त एव। अन्यत्रापि ‘वेदो नित्यमधीयतां तदुदितं कर्मस्वनुष्ठीयताम्'<ref>https://sa.wikisource.org/wiki/साधकपञ्चकम्</ref> इत्यादीनि वचांसि वेदोक्तीनां प्रामाण्यमेव साधयन्ति।
 
अपरत्रापि दृगुन्मेषोविधीयतां यद्यपि वेदाश्वत्वार एव केचित् वेदत्रयीमपि स्वीकुर्वन्ति । इत्याकारकविवादस्य विचारो सुधिया ग्रन्थकर्त्रा विस्तृतरूपेण यथास्थानं समुपन्यस्तः । तथापि [[आयुर्वेदः]], [[धनुर्वेदः]], [[गान्धर्ववेदः]] इत्यादीनां वेदानां गणना केवलं तेषां तेषां विषयाणां प्रामाणिकतां स्वीकारणार्थ तत् तद् ग्रन्थकर्तृभिः महर्षिभिः कृतेति निश्चप्रचम् (निश्चितं प्रचितम्)।
 
विदन्त्येव सर्वे विद्वांसो यद्, वेदा एव भारतवर्षस्य [[भारतीयसंस्कृतिः|भारतीयसंस्कृते]]<nowiki/>श्व मुख्यमवलम्बनमिति। ते च भगवता कृष्णद्वैपायनेन शिष्याणां ग्रहणसौकर्य्याय ऋग्यजुःसामाथर्वभेदेन चतुर्धा विभज्य यथाक्रमं पैल-वैशम्पायन-जैमिनि-सुमन्तुभ्यः प्रदत्ताः । कालक्रमेण शिष्योपशिष्यैः गृहीतास्ते बहुशाखात्वम् आपन्नाः। तदुक्तं [[महाभाष्यम्|व्याकरणमहाभाष्ये]] पस्पशाह्निके भगवता [[पतञ्जलिः|पतञ्जलिना]]<nowiki/>-
 
'''<nowiki/>'एकशतमध्वर्युशाखाः, सहस्रधत्मा सामवेदः ॥'''
 
'''एकविशतिधाबह्वृचं, नवधा आथर्वणो वेदः ॥' इति ॥'''
 
तत्रायं [[वेदः]] भारतीयसंस्कृत्याः मूलस्रोतमस्ति। विश्वस्यागमेषु वेदाः प्राचीनतमाः,<ref>p. 126, ''History of British Folklore'', Richard Mercer Dorson, 1999, ISBN 9780415204774</ref> अत एव नृशास्त्रज्ञानां, मानवप्रकृतेः अध्येतॄणां जगतो विभिन्नेषु धर्मेषु सश्रद्धं प्रवर्त्तमानानाच्च जनानां सानुरागविषया इमे वेदाः। ये जना वेदानाम् अभ्यन्तरे सांसारिकसमस्तैश्वर्याणाम् अन्वेषणम् अक्लान्तपरिश्रमेण कुर्वन्ति, ते न जानन्ति वेद-ज्ञानयोर्मध्येऽन्तरमस्ति इति। विद्-धातौ तथा ज्ञा-धातौ सामान्यतः एकत्वे सत्यपि मूलतः पार्थक्यम् अस्ति। भौतिकविद्यायाम् अभिज्ञतायाः नाम अस्ति ज्ञानं, तथा च अध्यात्मशास्त्रस्य तथ्यानाम् अवगत्याः नाम अस्ति वेद इति । एकस्य लक्ष्यं बाह्यविषयाणाम्, अपरस्य च अभ्यन्तर-विषयाणां विश्लेषणमस्ति । वेदज्ञानशब्दयोः पार्थक्यं संस्कृतेन सम्बद्धानाम् अनेकयूरोपीयभाषागतशब्दानाम् अनुशीलनेनापि ज्ञायते। [[जर्मनभाषा]]<nowiki/>यां द्वौ सम्बद्धौ धातू स्तः - केन्नेन (Kennon) तथा वाइसेन ( Weisen) इति। [[आङ्ग्लभाषा]]<nowiki/>यामपि द्वौ सम्बद्धौ शब्दौ स्तः - नालेज ( Knowledge ) तथा विजडम (Wisdom) इति। अनयोः 'केन्नेन' तथा 'नालेज' इत्यनयोः शब्दयोः साक्षात्सम्बन्धमस्ति संस्कृतस्य ‘ज्ञा'-धातुना सह तथा ‘वाइसेज' एवं 'विजडम' इत्यनयोः शब्दयोः सम्बन्धमस्ति ‘विद्'धातुना सह। अतः ‘वेद' इत्यस्य शब्दस्य मौलिकतात्पर्यमस्ति अध्यात्मविषयाणामन्वेषणम् इति।
 
[[सायणाचार्यः|सायणाचार्या]]<nowiki/>नुसारेण वेदस्य वेदत्वं प्रत्यक्षेणानुमानेन च अगम्योपायस्य बोधने एवाऽस्ति।
 
'''<nowiki/>'प्रत्यक्षेणानुमित्या वा यस्तूपायो न बुद्ध्यते ।'''
 
'''एनं विदन्ति वेदेन तस्माद् वेदस्य वेदता ॥''''
 
रॉय-मैक्समूलर-वेवर-आउफ्रक्ट-गेल्डनर-स्टीवेन्सन-श्रोदर-वेनफी-ह्विटनी-ब्लूमफील्ड-गार्वे-लिण्डनर-वर्नेल-एर्टल-कैलेण्ड-गास्ट्रा-हिलेब्राण्ट-क्नाउएरो-विल्सन-ओल्डनवर्ग-कीथ-लेनमेन-ग्रिफिथ-एगलिग-मैकडोनलप्रभृतयः अनेके पाश्चात्यविपश्चितः अप्येतेषां सम्यगध्ययनाय समाकृष्टा इव प्रवृत्ताः। पाश्चात्याः इमे विद्वांसः अधीत्येमं वेदराशिं बहुकिमपि गभीरमुल्लिखितवन्तः। वैदिकधर्मस्य धर्मान्तरेण तुलनां विधाय ते तुलनाप्रधानवैदिकधर्मविषयकान् ग्रन्थान् बहून् लिखितवन्तः । अस्मिन् क्षेत्रे मैक्समूलर-मैक्डोनल-हिलेब्राण्टमहाभागानां नामानि सन्त्युल्लेखनीयानि । हिलेब्राण्ट इत्यस्य 'वेदिशे मायोलोजी' मैक्डोनलस्य च 'वैदिकमाथोलोजी' व्यापकत्वात् प्रामाणिकत्वाच्चोपादेये स्तः । फ्रेञ्चविदुषाश्च श्रौतसम्बन्धिनोऽनेके ग्रन्था दृश्यन्ते ।
 
चत्वारोऽपि वेदाः साधारण्येन मन्त्रब्राह्मणयोर्द्वयोर्भागयोविभक्ताः । वेदपदवाच्याः संहितारूपा एव वेदा इत्यपि नास्ति भारतीयपरम्परानुरूपी न्याय्यश्च विचारः । तत्र [[ऋग्वेद]]<nowiki/>स्य, [[सामवेद]]<nowiki/>स्य, [[शुक्लयजुर्वेद]]<nowiki/>स्य, [[अथर्ववेदः|अथर्वण]]<nowiki/>श्च मन्त्रभागाः संहितापदवाच्याः, किन्तु [[कृष्णयजुर्वेदः|कृष्णे यजुर्वेदे]] संहितायामथवा ब्राह्मणे मन्त्राः ब्राह्मणानि इत्येतौ उवुभावपि सम्मिलितौ वर्तते ।
 
===ऋग्वेदः===
Line ८६ ⟶ ११८:
===अथर्ववेदः===
{{Main|अथर्ववेदः}}
ब्रह्मपुत्रेण अथर्वेण समाहृतम् इति अथर्ववेदः । अथर्वाङ्गिराः, ब्रह्मवेदः इत्येते नामान्तरे । आथर्वसंहितायाः द्वे शाखे स्तः । शौनकीयशाखा, पैप्पलादशाखा चेति । भूर्जपत्रेषु शारदालिप्यां लिखितस्य अथर्ववेदस्य पुरातनं पुस्तकं काश्मीरेभ्यः सम्पादितम्। तद् अधुना ट्यूबि़ञ्जन् सर्वकलाशालायाः ग्रन्थशेखरे अस्ति
 
== वेदरक्षा ==
वेदास्त्वाचूलमूलं धर्म्यप्रवृत्तिकम्। अतो वेदानां परमोपादेयत्वाद्, अतिशयतममहत्त्वशालित्वाच्च महर्षयस्तान् रक्षितुमपि पूर्णमुपायञ्चक्रुः । वेदा एतावद्दीर्घकालानन्तरमपि लोके समवाप्ताः सन्तीत्यत्र कारणमेव महषिकृतः प्रयत्नः। महर्षयो हि वेदरक्षार्थम् अष्टविकृतीनां व्यवस्थां विदधुः। ताः विकृतयः अधःस्थितेन शलोकेनाभिव्यक्तीक्रियन्ते -
 
'''<nowiki/>'जटा माला शिखा रेखा ध्वजो दण्डो रयो घनः ।'''
 
'''अष्टौ विकृतयः प्रोक्ताः क्रमपूर्वा महर्षिभिः ॥''''
 
मन्त्राणां प्रकृतोपलब्धः पाठः 'संहितापाठ’-पदेन व्यवह्रियते । अत्र कतिपया एव विकृतयो हि वर्ण्यन्ते । पदच्छेदपूर्वकपाठः 'पदपाठ' इत्युच्यते । क्रमपाठः स भवति यत्र पदपाठगतं प्रतिपदं पूर्वोत्तरपदाभ्यां सङ्गमय्य द्विरुच्चार्यते। जटापाठः स भवति यत्र क्रमपाठम् आलम्ब्य प्रतिपदयुगलं त्रिरुच्चार्यते। एतावान् भेदो यच्छिखायाम् अन्यच्चैकं पदमग्ने संश्लिष्टतां याति। उक्तञ्च -
 
'''<nowiki/>'पदोत्तरं जटामेव शिखामार्याः प्रचक्षते।''''
 
घनपाठो नितरां विलक्षणः क्लिष्टश्च । तत्र पदानाम् आवृत्तिः अनुलोमविलोमक्रमेण आसकृज्जायते । घनस्तु चतुर्विधः भवति। तत्र प्रथमप्रकारको वदति -
 
'''‘शिखामुक्त्वा विपर्यस्य तत्पदानि पुनः पठेत् । अयं घन इति प्रोक्तः।''''
 
प्रक्षेप-च्युत-व्यवसादादि-विकारेभ्यः परित्रातुं श्रुतिं पद-क्रम-घनजटादिपाठाः अाविष्कृताः । एषां सद्भावेन न श्रुतिषु अद्यपर्यन्तम् अणुमात्रमपि दोषलेशः प्रविष्टो भवितुम् अशकत्। प्रातिशाख्यग्रन्था अपि वेदपाठस्य रक्षणार्थं विरचिता अभूवन्।
 
=== '''संहितापाठः''' ===
'''ओषधयः संवदन्ते सोमेन सह राज्ञा ॥ ऋ० १०॥९७॥२२ ॥'''
 
'''पदपाठः'''
 
'''ओषधयः सं । वदन्ते । सोमेन । सह राज्ञा'''
 
'''क्रमपाठः'''
 
ओषधयः सं । सं वदन्ते । वदन्ते सोमेन । सोमेन सह । सह राज्ञा । राज्ञेति राज्ञा।
 
'''जटापाठः'''
 
'''अोषधयः सं, समोषधयः, ओषधयस्, सम् ।'''
 
'''सं वदन्ते, वदन्ते, सं, सं, वदन्ते ।'''
 
'''शिखापाठः'''
 
अोषधयः सं, समोषधय, ओषधयेः सं — वदन्ते।
 
'''संवदन्ते, वदन्ते सं, संवदन्ते-सोमेन ।'''
 
'''धनपाठः'''
 
'''ओषधयः सं, समोषधय ओषधयः संवदन्ते,'''
 
'''वदन्ते समोषधय अोषधयः संवदन्ते ॥'''
 
'''संवदन्ते वदन्ते सं संवदन्ते सोमेन,'''
 
'''सोमेन वदन्ते सं, संवदन्ते सोमेन ॥'''
 
अस्य घनपाठस्य परीक्षणेन ज्ञातो भवति यत्, प्रथमपदन्तु पञ्चवारं, द्वितीयपदन्तु दशवारं, तृतीयपदं त्रयोदशवारं, चतुर्थपदमपि त्रयोदशवारं समायाति इति। इयं हि मेधाशक्तेः पराकाष्ठा वर्त्तते । मेधाविनो मुनेः ज्ञानस्योत्कर्ष एवाऽस्ति ।
 
सामवेदस्य मन्त्रस्थस्वराणां गणनासङ्केतस्तु अतीव प्रमाणिकतयैव त्रिविष्टो भवति । अस्मिन् स्वरे स्तोकमपि स्खलनस्य सम्भावना न वर्त्तते । इयं स्वरगणना समीचीनाऽस्ति। निम्नलिखितोदाहरणेनेयं वैज्ञानिकपरिगणना स्पष्टतया परिलक्षिता भवति -
 
रेवतीर्न सं ध मा द इन्द्र सन्तु तु विवाजाः
 
क्षुमन्तो याभिमदेम
 
अा द्य त्वावान त्मना युक्तः स्तोतृभ्यो घृष्णवियानः
 
ऋणोरक्षं नु चक्र्यौः ॥
 
अा यद् दुर्वेः शतक्रतवा कामं जरि नृणाम्
 
ऋणो रक्षं न शचीभिः'।। ३।१४ ठी ( धा० १८उ० २। स्व० ४ )
 
अस्ति सामवेदस्य उत्तराचिकस्येयं ऋच् । एतस्याः ऋचामुपर्युदात्तादि त्रयाणां स्वराणां विशिष्टचिह्नानि भवन्ति। ऋग्वेदे तूदातस्वराः तथा प्रचयस्वराः चिह्नरहिता एव भवन्ति । अनुदात्तस्याधोभागे लम्बरेखा (—) तथा स्वरितस्योपरिभागे ऊर्ध्वगा रेखा (।) भवति। तद्यथा -
 
अग्नि मी ले पु रो हि तम् अ उ स्व प्र अ उ व प्र
 
किश्च सामवेदस्य स्वराङ्कनप्रकारः भिन्नरूपेण भवति । अत्रोदात्तस्योपरि —
 
१, स्वरितोपरि —
 
२, तथाऽनुदात्तोपरि - ३, अङ्कानां सङ्केतो भवति ।
 
कदाचिदेतद्भिन्नोऽपि चिह्नो भवति-
 
१. अन्तिमोदात्तस्योपरि - २ चिह्रो भवति । यथा – गि रा (साम. ८) ।
 
२. २र, विशिष्टोऽयं चिह्नः ।
 
(क) यदा एककालावच्छेदेन उदात्तद्वयस्य प्रयोगो भवति, तदा प्रथमोदात्तोपरि - १, तथा द्वितीयोदात्तस्तु चिह्नविरहितो भवति । एवं तत्परे स्वरितोपरि २र चिह्रो भवति । यथा —
 
‘उत द्विषो मर्त्यस्य' ( साम. ६ ) ।
 
अस्मिन् मन्त्रे 'षो' एवं ‘म' उदात्तद्वयमस्ति । अत्र प्रथमोदात्ततोपरि - १ चिह्रस्तथा द्वितीयोदात्तः 'म'त्वचिह्नितमेव । तत्परे 'र्य' स्वरितोपरि '२ र' चिह्रो भवति ।
 
(ख) अनुदात्तात्परे स्वरितोपरि '२ र' चिह्रो भवति तथा पूर्वोऽनुदात्तोपरि '३ क' चिह्नितो भवति । यथा -
 
त न्वा (साम. ५२) च म्बोः । अर्थात् जात्यस्वरितोपरि “२ र' चिह्नो भवति।
 
३ - ‘२ उ, यदोदात्तद्वयस्य युगपदेव प्रयोगो भवति तथा तत्पश्वादनुदात्तः समायाति तदा प्रथमोदात्तोपरि ‘२ उ' चिह्नितो भवति, द्वितीयस्त्वर २ऊउ विहित एव भवति । यथा - '''ऊ त्या व सो''' (साम. ४१) अत्र 'त्या' एवं 'व' इति उदात्तद्वयस्य पश्चात् ‘सो' इत्यनुदात्तः अस्ति । फलतः प्रथमोदात्तः 'त्या' इत्युपरि '२ ऊ' इति सङ्केतः अस्ति ।
 
सामवेदे एतस्याः विशेषगणनायाः व्यवस्था विशेषरूपेण भवति । उपरिनिर्दिष्ट ऋचि अष्टादशाक्षराणि अचिह्नितानि सन्ति । प्रथम ऋचि अचिह्नितान्यक्षराणि चत्वारि सन्ति। द्वितीयेऽपि ऋच्यचिह्नितानि चत्वारि एवाक्षराणि सन्ति । तृतीये ऋचि दशाक्षराण्यचिह्नितानि सन्ति । एतेषां सङ्कलनमष्टादशाक्षराणि भवन्ति । यत् धा. '१८' धारी इति पदेन सूचितो भवति। '२ उ' इति संकेतेन चिह्नितमक्षरद्वयमस्ति । (= उ. २ ) । ‘रकारचिह्नितस्वरितः (२ र) संख्यायां चत्वारः सन्ति । (=स्व. ४ ) । एतेषां त्रयाणां सूचना 'ठी' सङ्केतेन प्राप्यते। ठी = ठ् + ई । 'ई' चतुर्थस्वरो भवति । तेनायं चतुर्णां सूचको भवति । ठकारस्तु टवर्गस्य द्वितीयवर्णोऽस्ति । अतोऽयं ( उ २ ) पदस्य संकेतं करोति । इयं व्यवस्था मात्रोत्तरार्चिकमन्त्राणां कृते एवाऽस्ति । पूर्वार्चिके तु स्वरितः, उदात्तस्तथा धारीपदानाञ्च क्रमः पूर्वक्रमात् विपरीतो भवतीति ।
 
वेददुर्गस्य रक्षार्थमियं दुर्भेद्या पंक्तिरस्ति । तेन हि अद्याऽपि वेदानां विशुद्धता प्रामाणिकता चाक्षुण्णा एवाऽस्ति ।
 
== वेदानां वैशिष्टयम् ==
 
वेदेषु ज्ञान-[[विज्ञानम्|विज्ञान]]<nowiki/>-[[धर्मः|धर्म]]<nowiki/>-[[दर्शनम्|दर्शन]]<nowiki/>-सदाचार-संस्कृति-नैतिक-सामाजिक-राजनैतिकप्रभृतीनां जीवनोपयोगिविषयाणां सन्निवेशोऽस्ति । यत्र प्रत्यक्षस्य न चानुमानस्य प्रवेशस्तत्रापि ते प्रविशन्ति। स्मृतिपुराणादीनां मान्यत्वं तदनुगामित्वम् एवावतिष्ठते । प्राचीनानि धर्म-समाज-व्यवहारप्रभृतीनि वस्तुजातानि बोधयितुं श्रुतय एव क्षमन्ते । वेदास्तु धर्ममूलतयैव सर्वथा समादृताः सन्ति । मनुना प्रोक्तश्च - ‘वेदोऽखिलो धर्ममूलम्' तथा ‘वेदाद्धर्मो हि निर्बभौ' इति। एवञ्च महाभाष्यकृता पतञ्जलिना ब्राह्मणेन षडङ्गवेदाध्ययनस्यानिवार्यत्वमुच्यते स्म । तथाहि-
 
‘ब्राह्मणेन निष्कारणो धर्मः षडङ्गो वेदोऽध्येयो ज्ञेयश्च॥'<ref>https://sa.wikisource.org/wiki/महाभाष्यम्/पस्पशाह्निकम्</ref>
 
वेदेषु अध्यात्मदर्शनस्य उत्कृष्टभाण्डागारं निक्षिप्तमस्ति । किञ्च तेषां प्रतिपादनरीतिः अर्वाचीनप्रतिपादनशैलीतः सर्वथा भिन्ना एव ।
 
वेदे सर्वाङ्गपूर्णतया मानवजीवनोद्देश्यभूताः धर्मार्थकाममोक्षाख्याश्चत्वारोऽपि पुरुषार्थाः विवेचिताः, अतः वैदिकवाङ्मये मानवजीवनोपयोगिनः सर्वेऽपि विषयाः साधु विवेचिताः। अत एव देवेभ्यः अपि तत् आदृतं भवति । सर्वेऽपि वेदाः मन्त्ररूपाः एव । यज्ञादिषु अवसरेषु ब्राह्मणप्रयुक्तैः तैः मन्त्रैः आवाहनादिविधिना अावाहिताः देवाः तत्र तत्र अायान्त्यैव इत्यत्र श्रुतिरेव प्रमाणम्।<ref>‘देवाधीनं जगत्सर्वं मन्त्राधीनाश्च देवताः'</ref> वेदोक्तमन्त्राणाम् आश्चर्यकरः प्रभावो। यतो हि एतेषां विलक्षणप्रभावान् दृष्ट्वा, विचार्य, संश्रुत्य च भारतीयैः किं वा वैदेशिकैश्च विद्वद्भिः एतेषां संरक्षणाय, सम्यग्ज्ञानाय च समये-समये बहुकिमपि कृतम् अस्ति। वैदिकवाङ्मयस्य संरक्षणे, समुपबृंहणे च पाश्चात्यविपश्चितां यावान् श्रमो दृष्टिपथम् आयाति, न तावान् भारतीयानाम् । प्राचीनासु भारतीयभाषासु यथा [[संस्कृतम्|संस्कृतं]] सर्वातिशायि अस्ति, तथैव सर्वेषु वाङ्मयेषु वैदिकवाङ्मयं प्रामाणिकरूपेण स्वीक्रियते। सर्वत्र ‘वेदाः प्रमाणम्' इति मतं समानतयाङ्गीक्रियते। सर्वेऽपि मतावलम्बिनः स्वं मतं वेदोक्तैः प्रमाणैः परिपुष्टतां गमयित्वा स्वां कृतिं धन्यां, स्वं च घन्यं कलयन्ति। विषयेऽस्मिन् न केवलं भारतीया एव श्रद्धालवः, अपि तु पाश्चात्या अपि विद्वांसः श्रद्धावद्धावधाना दृश्यन्ते । अत्र प्रेयःशास्त्रं श्रेयःशास्त्रश्चोभयं समभावेन समेधितम् । अतः एवात्र भोगमोक्षयोः उभयोः सत्तायाः सकलवाङ्मयापेक्षया विशिष्टता विद्यते। तस्याऽध्ययनमिहापरिहार्यत्वेन अनिवार्यत्वेन चाभ्युपगतम् । योहि द्विजो वेदमनधीत्यान्यत्र श्रमं विदधाति स इह शूद्रो मतः ।<ref>योऽनधीत्य द्विजो वेदमन्यत्र कुरुते श्रमम् ।
 
स जीवन्नेव शूद्रत्वमाशु गच्छति सान्वयः ॥' -मनु०
</ref> <ref>https://sa.wikisource.org/wiki/महाभाष्यम्/पस्पशाह्निकम्</ref> भारतीयविचारधाराया द्रढीयानयं विश्वासो यद्वेदतत्त्वज्ञ एव जनो ब्रह्म ज्ञातुमर्हति ।<ref>'वेदशास्त्रार्थतत्त्वजो यत्र कुत्राश्रमे वसन् ।
 
इहैव लोके तिष्ठन् स ब्रह्मभूयाय कल्पते ॥'
</ref> अस्मदीयाः पूर्वजाः केन प्रकारेण जीवनं यापयामासुः ? काभिः क्रीडाभिस्ते स्वकीयं मनो मोदयामासुः ? का देवतास्ते पूजयामासुः ? विवाहसम्बन्धस्योद्देश्यं किन्ते निर्धारयामासुः ? केन च विधिना ते प्रभाते अग्नावाहुतिं समर्पयामासुः ? एव लब्धुं शक्यमस्ति । अध्यात्मदर्शनस्य भारतीयदर्शनानाश्च रहस्यं तेषां विकासस्य वैशिष्टयञ्च मूलतः वेदसाहाय्येनैव ज्ञेयं भवति । वेदानां वैविध्यश्चापि अस्यैव साहाय्येनैव ज्ञेयं भवितुमर्हति । वेदोत्तरकालिकसाहित्ये - ब्राह्मणग्रन्थोऽयमेवं वदति, दर्शनशास्त्रमिदं ब्रवीति, वेदाङ्गभूतमिदं शंसति, अमुकः स्मृतिरिदं कथयति इत्येवंविधायां स्थित्यां किं कार्यं, किं न कार्यम् इत्यस्य कृते वेदं शरणं यान्तु । तत्तच्छास्त्रादीनां तत्तत्कथनस्य रहस्यं वेदे एव उन्मीलयिष्यति । तदेव तद्विधां शङ्कामपनोदयति । भाषादृष्ट्या अपि वेदानां महत्त्वं वर्तते। वैदिकभाषेवेयं वर्तते या साम्प्रतिक-भाषाविज्ञानं द्रढीयसीं भूमिमध्यासयति स्म, इयं वैदिकभाषेवाऽस्ति या भाषाविदां मध्ये प्रसृतं प्राचीनभाषाविषयकमतभेदं निराकृतवती । ज्ञास्यन्तीदंश्च भौतिकेऽर्थेषु प्रयुज्यमानानि पदानि युगान्तरेण कस्मादाध्यात्मिकेऽर्थ प्रयुक्तानि भवितुमारभन्ते। भूयिष्ठप्रयोजनेन साधकत्वात् वस्तुतो वेदाः सन्ति परममहत्त्वभाजो ग्रन्थाः।
 
== अपौरुषेयाः वेदाः ==
 
प्रतीच्याः (पाश्चात्याः) विपश्चितो वेदान् ऋषिप्रणीतान् मन्यन्ते । तेषां हि आधिभौतिकीदृष्टिस्तान् शब्दराशिमेव सामान्यग्रन्थमेवावगच्छति। फलतः यः ऋषि येन मन्त्रविशेषेण सम्बद्धोऽस्ति स तस्य कर्ता । ऋग्वेदेऽपि कर्तृत्वपदस्य स्पष्टत उल्लेखो प्राप्यते - ‘इदं ब्रह्मक्रियमाणं नवीयः’ ([[s:ऋग्वेद:_सूक्तं_७.३५|ऋ० ७॥३५॥ १४]]), ‘ब्रह्म कृण्वन्तो हरिवो वसिष्ठाः' [[s:ऋग्वेद:_सूक्तं_७.३७|(ऋ० ७॥३७॥४)]], ‘ब्रह्मेन्द्राय वत्रिणे अकारि’ ([[s:ऋग्वेद:_सूक्तं_७.९७|ऋ० ७॥९७॥९]] ) प्रभृतिमन्त्रेषु ‘ऋषिप्रणीता एव वेदमन्त्राः सन्ति' अस्य कथनस्योल्लेखः स्पष्टतया प्रतिभाति ।
 
परन्तु भारतीयानां मते ऋषयो वैदिकमन्त्राणां द्रष्टारः सन्ति न तु कर्तारः । 'ऋषि' इत्येतस्य पदस्य व्युपत्तिलभ्यः ‘ऋषति पश्यति इति ऋषिः' इत्यर्थ एव 'मन्त्रद्रष्टा' इत्यस्ति एव ऋषिः शब्दः इगुपधात् किदित्यनेनौणादिकेन सूत्रेण इनि कृते निष्पद्यते । निरुक्ते च विद्युमानाः – ‘तद्येनास्तपस्यमानन् ब्रह्मस्वयम्भ्वभ्यानर्षत्॥' इत्यादिकाः पङ्क्तयः ऋषेर्मन्त्रद्रष्टृत्वमुपपादयन्ति। असङ्खयेयवैदिकमन्त्राणामनुशीलनेन प्रतीतो भवति यद्, अलौकिकसामर्थ्यशालिनः ऋषयो दिव्यया प्रतिभया मन्त्राणां दर्शनं लब्धवन्तः (द्रष्टव्यः - ऋ० ७॥३३, ७॥१३ मन्त्राः) इति। कतिपयेषु मन्त्रेषु मुनिवसिष्ठम् अलौकिकदृष्ट्या प्रदत्तज्ञानस्य उल्लेखः दृश्यते (ऋ. [[s:ऋग्वेद:_सूक्तं_७.८७|७/८७/४]] - [[s:ऋग्वेद:_सूक्तं_७.८८|७/८८/४]])। ऋग्वेदेऽनेकत्र वाचः भव्यास्तुतिः दृग्गोचरी भवति। मन्त्राणां प्रकाशस्तद्धियि अवततार । तद्यथा -
 
‘यज्ञेन वाचः पदवीयमायन्, तामन्वविन्दन् ऋषिषु प्रवीष्टान्' - [[s:ऋग्वेद:_सूक्तं_१०.७१|ऋ० १०॥७१॥३]]
 
ऋषिदृष्टप्रार्थनायाः अलौकिकफलस्य निर्देशोऽपि वेदे एव लभ्यते ( ऋ० ३॥५३॥१२, ॥७॥३३॥३ ) मन्त्रेष्वेव वैदिकवाण्याः नित्यतायाः प्रमाणम् अस्ति। तेषु प्रमाणेषु ‘वाचा विरूपनित्यया' ( ऋ० ८॥७५॥६) मुख्योऽस्ति ‘ऋषि' इत्येतस्य पदस्य व्युत्पत्तिलभ्यः ( ऋषति पश्यति इति ऋषिः ) अर्थ एव मन्त्रद्रष्टा इत्यस्ति।
 
एष 'ऋषि'-शब्द इगुपधात् कित् इत्यनेनौणादिकेन सूत्रेण इनि कृते निष्पद्यते । [[निरुक्तम्|निरुक्ते]] च विद्यमानात् ‘तद्येनास्तपस्यमानान् ब्रह्म स्वयम्भ्वभ्यानर्षत्...॥ इत्यादिकाः पङ्क्तयः ऋषेर्मन्त्रद्रष्टृत्वमुपपादयन्ति । अत ऋषयः मन्त्राणां द्रष्टारः सन्ति न च कत्तारः ।
 
'''“ऋषिर्मन्त्रद्रष्टा ॥ गत्यर्थत्वात् ऋषेर्ज्ञानार्थत्वात् मन्त्रं दृष्टवन्तः ऋषयः ॥' ( श्वेतवनवासिरचितवृत्तौ उणादिसूत्रं ४॥१२९ द्रष्टव्यम् ) एवञ्च निरुक्तेऽपि ‘तद्यदेनांस्तपस्यमानां ब्राह्मस्वयम्भ्वभ्यानर्षत् त ऋषयोऽभवंस्तदृषीणामृषित्वमिति विज्ञायते ऋषिदर्शनात् ॥ मन्त्रान् ददर्श इत्यौपमन्यवः ॥''''
 
न्यायवैशेषिकयोर्मतेन वेदाः पौरुषेयाः नित्याश्च सन्ति । परं सांख्य-वेदान्तमीमांसानाश्च मतेन ते अपौरुषेयाः सन्ति । नित्यत्वञ्च तेषां दर्शनानीमानि स्वीकुर्वन्ति स्मृतिपुराणेषु च वेदसम्बन्धिनी भावना तादृश्येव प्रायेण, यादृशी मीमांसायां विभावितास्ति। मनुर्वेदान् नित्यान् अपौरुषेयांश्व मन्यते । <ref>[[s:मनुस्मृतिः/द्वादशोध्यायः|‘पितृदेवमनुष्याणां वेदश्चक्षुः सनातनम् ॥]]
 
[[s:मनुस्मृतिः/द्वादशोध्यायः|अशक्यं चाप्रमेयं च वेदशास्त्रमिति स्थितिः ॥']]
</ref> उद्धवोऽपि वेदान् नित्यान् अपौरुषेयांश्व मन्यते। <ref>[[s:उद्धवगीता_४|उद्धवगीता_४/विंशः अध्यायः/श्लो. ४]]</ref>
 
भूर्जपत्रेषु शारदालिप्यां लिखितस्य अथर्ववेदस्य पुरातनं पुस्तकं काश्मीरेभ्यः सम्पादितम्। तद् अधुना ट्यूबि़ञ्जन् सर्वकलाशालायाः ग्रन्थशेखरे अस्ति ल ।
==अधिकारः==
शास्त्रम् तु '''अष्टमे ब्राह्मणम् उपनयीत''' इति उक्त्वा आनन्तरं सः वेदाध्ययनार्थम् अधिकारत्वं प्राप्नोति इति वदति ।
"https://sa.wikipedia.org/wiki/वेदः" इत्यस्माद् प्रतिप्राप्तम्