"शाकल्यः" इत्यस्य संस्करणे भेदः

शाकल्यः
 
+ 6 categories using HotCat
पङ्क्तिः १०:
 
शाकल्यस्योल्लेखः [[निरुक्तम्|निरुक्ते]], ऋक्प्रातिशाख्येऽपि च अस्ति। अतोऽयम् उपनिषत्कालिकः ऋषिः वर्त्तते । [[यास्कः|यास्केन]] क्वचित् क्वचित् निजनिरुक्ते अस्य पदपाठः नाङ्गीकृतः । यथा निरुक्ते ५॥२१ ‘अरुणो मासकृत् वृकः’ ( १०॥५॥१८) यास्कस्त्वत्र ‘मासकृत्' इत्येकपदं मत्वा ‘मासानां कर्त्ता' इत्यर्थं कृतवान्। किञ्च शाकल्येनात्र 'मा + सकृत्' इति पदद्वयं स्वीकृतम्। निरुक्ते ( [[s:निरुक्तशास्त्रम्/पञ्चमोध्यायः|५॥२८]] ) वने ‘न वायो' ( ऋ० १०।२९।।१ ) इति यास्केनोद्धृतः । अत्र शाकल्येन ‘वा + यः = वायः' इति पदद्वयं मन्यते । किश्चास्य पदस्योल्लेखं कृत्वा यास्कस्तु पदद्वयं न स्वीकृतवान् 'वायः' इत्येकपदस्य यास्कसम्मतार्थोऽस्ति ‘पक्षीविशेष' इति । अनेन प्रकारेण निजनिरुक्ते यास्केन क्वचित्क्वचिच्छाकल्यस्य अनुमोदनं न कृतम् । एतदतिरिक्तः रावणकृतपदपाठस्य अप्यस्तित्वं यत्र कुत्राऽपि लभते। [[रावणः|रावण]]<nowiki/>स्तु ऋग्वेदस्य भाष्यमपि रचयामास तथा तस्य पदपाठोऽपि कृतवान् । अयं हि पदपाठः शाकल्यस्य नानुकरणमस्ति, प्रत्युत नानास्थलेषु निजबुद्ध्यानुसारेण असौ नवीनपदपाठस्यापि योजनां कृतवान्।
 
[[वर्गः:ऋषयः]]
[[वर्गः:पदकर्तारः ऋषयः]]
[[वर्गः:श्टब्स् संस्कृतसम्बद्धाः]]
[[वर्गः:सर्वे अपूर्णलेखाः]]
[[वर्गः:संसारमञ्जूषा योजनीया]]
[[वर्गः:चित्रं योजनीयम्]]
"https://sa.wikipedia.org/wiki/शाकल्यः" इत्यस्माद् प्रतिप्राप्तम्