"ऋग्वेदः" इत्यस्य संस्करणे भेदः

1
→‎ऋग्वेदस्य शाखाः: ऋचां पदकाराः
पङ्क्तिः ४७:
:'''चरणशाब्दः शाखाविशेषाध्ययन परैकतापन्नजनसंघवाची ॥'''
तत्र महाभाष्यकारानुसारं ऋग्वेदस्य एकविंशति शाखाः सन्ति । तासु पञ्चशाखाः प्रधानाः भवन्ति । यथा -१. शाकलः , २. वाष्कलः, ३. आश्वलायनः , ४. शांखायनः, ५. माण्डुकायनश्च । एताः शाखाः इदानीं महाराष्ट्रदेशे एव उपलभ्यन्ते ।
 
== ऋचां पदकाराः ==
पदकाराः ऋषयः इत्युक्ते मन्त्राणां पदकाराः ऋषयः, ये वेदार्थावबोद्धुं प्रतिमन्त्रस्य अवान्तर्भूतपदानां पृथक्करणं कृत्वा तत्तत् संहितानां पदपाठं निर्मितवन्तः । अनेन पदपाठेन मन्त्राणाम् अर्थस्य सुलभतया अवबोधो भवति । एतेषां पदपाठानां कर्तारः बहवः ऋषयः अभूवन्।
 
=== शाकल्यः ===
{{Main}}
 
शाकल्यः हि [[ऋग्वेद]]<nowiki/>स्य पदपाठं प्रस्तुतवान् । [[बृहदारण्यकोपनिषत्|बृहदारण्यकोपनिषदि]] [[जनकः|जनक]]<nowiki/>स्य सभायां [[याज्ञवल्क्यः|याज्ञवल्क्येन]] सह शाकल्यस्य शास्त्रार्थस्य वर्णनं प्राप्यते ([[s:बृहदारण्यक_उपनिषद्_4|अ० ४]]) । पौराणिकगाथानुसारेण अयं [[शाकल्यः]] ऋग्वेदपदपाठस्य रचयिताऽप्यस्ति । यथा
 
‘शाकल्यः प्रथमस्तेषां तस्मादन्योरथीतरः ॥
 
वाष्कलिश्च भारद्वाज इति शाखाप्रवर्तकाः ॥ ३२ ॥
 
देवमित्रश्च शाकल्यो ज्ञानाऽहङ्कारगर्वितः ॥
 
जनकस्य स यज्ञे वै विनाशमगमद् द्विजः' ॥ ३३ ॥ - [[s:ब्रह्माण्डपुराणम्/अध्यायः_३४|ब्रह्माण्डपुराणः, पूर्वभागस्य द्वितीयपादः, अ० ३४]] ॥
 
शाकल्यस्योल्लेखः [[निरुक्तम्|निरुक्ते]], ऋक्प्रातिशाख्येऽपि च अस्ति। अतोऽयम् उपनिषत्कालिकः ऋषिः वर्त्तते । [[यास्कः|यास्केन]] क्वचित् क्वचित् निजनिरुक्ते अस्य पदपाठः नाङ्गीकृतः । यथा निरुक्ते ५॥२१ ‘अरुणो मासकृत् वृकः’ ( १०॥५॥१८) यास्कस्त्वत्र ‘मासकृत्' इत्येकपदं मत्वा ‘मासानां कर्त्ता' इत्यर्थं कृतवान्। किञ्च शाकल्येनात्र 'मा + सकृत्' इति पदद्वयं स्वीकृतम्। निरुक्ते ( [[s:निरुक्तशास्त्रम्/पञ्चमोध्यायः|५॥२८]] ) वने ‘न वायो' ( ऋ० १०।२९।।१ ) इति यास्केनोद्धृतः । अत्र शाकल्येन ‘वा + यः = वायः' इति पदद्वयं मन्यते । किश्चास्य पदस्योल्लेखं कृत्वा यास्कस्तु पदद्वयं न स्वीकृतवान् 'वायः' इत्येकपदस्य यास्कसम्मतार्थोऽस्ति ‘पक्षीविशेष' इति । अनेन प्रकारेण निजनिरुक्ते यास्केन क्वचित्क्वचिच्छाकल्यस्य अनुमोदनं न कृतम् । एतदतिरिक्तः रावणकृतपदपाठस्य अप्यस्तित्वं यत्र कुत्राऽपि लभते। [[रावणः|रावण]]<nowiki/>स्तु ऋग्वेदस्य भाष्यमपि रचयामास तथा तस्य पदपाठोऽपि कृतवान् । अयं हि पदपाठः शाकल्यस्य नानुकरणमस्ति, प्रत्युत नानास्थलेषु निजबुद्ध्यानुसारेण असौ नवीनपदपाठस्यापि योजनां कृतवान्।
 
[[चित्रं:ऋग्वेदः-१.१.१.png|thumb|right|550px|ऋग्वेदस्य प्रथमं सूक्तम्]]
"https://sa.wikipedia.org/wiki/ऋग्वेदः" इत्यस्माद् प्रतिप्राप्तम्