"वेङ्कटमाधवः" इत्यस्य संस्करणे भेदः

→‎कालः: संचित्रसारमञ्जूषे योजनीये using AWB
विस्तारः
पङ्क्तिः १:
 
'''वेङ्कटमाधवः''' सम्पूर्णऋक्संहितायामुपरि स्वभाष्यं प्रणीतवान् । कतिपयैः आलोचकैः अनुमीयन्ते यदयं विद्वानृक्संहितायामुपरि भाष्यद्वयं लिलेख इति।
 
== परिचयः ==
माधवोऽयं सम्पूर्णऋक् संहितायाः भाष्यं कृतवान् । अस्य पितुर्नाम वेंकटाचार्यः , मातामहस्य नाम भवगोलः, मातुश्च नाम सुन्दरी आसीत् । अस्य मातृगोत्रः वसिष्ठः ,पितृगोत्रः कौशिकश्चासीत् । अस्यानुजस्य नाम संकर्षणः । अस्य द्वौ पुत्रौ आस्ताम् , वेंकटः गोविन्दश्च । अयं चोलदेशावास्तव्य इति ज्ञायते ।
अनेन स्वरचितस्य प्रथमभाष्यस्य अन्तिमे भागे यः स्ववंशपरिचयः प्रदत्तः तदनुसारेणायं कौशिकगोत्रे जन्म गृहीतवान् । अस्य विदुषः पूर्वजाः [[आन्ध्रप्रदेश|अान्ध्रप्रदेश]]<nowiki/>स्थितस्य दक्षिणापथीयचोलदेशे न्यवसन् । अस्य पिता वेङ्कटाचार्यः माता च सुन्दरीदेवी आसीत्। अस्य च मातृगोत्रो वसिष्ठ आसीत् । अस्यैकः सङ्कर्षणाख्यः अनुजोऽप्यासीत् । वेङ्कटगोविन्दाख्यौ द्वौ पुत्रौ आस्ताम् ।
==कालः==
:*) सायणाचार्यः ऋग्वेदस्य १०/८६/१ तमे भाष्ये माधवभट्टस्य सम्मतेरुल्लेखं कृतवान् । अयमुल्लेखो वेंकटमाधवस्य भाष्येन सह समानः भवति । अतः माधवः सायणस्य पूर्ववर्ती इति वक्तुं शक्यते ।
:*) निर्घण्टोरुपरि भाष्यकर्त्ता देवराजयज्वा (सं. १३७०) भाष्योपद्धाते वेंकटाचार्यतनयमाधवस्योल्लेखं कृतवान् । यथा-“ श्री वेंकटाचार्यतनयस्य माधवस्य भाष्यकृतौ नामानुक्रमण्याः पर्यालोचनात् ……. क्रियते” इति । तस्मात् देवराजस्य पूर्ववर्ती वेंकटमाधव इति वक्तुं शक्यते ।
:*) कोशाकाराः केशवस्वामी (१३०० वि.सं.पूर्वकालिनः) स्वकीये नानार्थार्णवसंक्षेपे माधवाचार्य सूरीति नाम्नः प्रतिपादनं कृतवान् । यथा –“ द्वयोस्त्वश्चे तथा ह्याह स्कन्दस्वाम्यृक्षु भूर्शिः । माधवाचार्यसूरिश्च को अघेत्यृचि भाषते” ॥ इति ।
एतैः प्रमाणैः स्पष्टं प्रतीयते यत् माधवस्य समयः १३०० सं. तः पूर्वमेवासीत् । अस्य भाष्यम् :- माधवस्य भाष्यं संक्षिप्तं वर्तते । तेनैवोक्तं –“ वर्जयन् शब्दविस्तारं शब्दैः कतिपयैरिति” । अस्य भाष्ये मन्त्रगतपदानां व्याख्या एव कृता ।
 
== कालः ==
अस्य कालनिर्णयार्थम् अनेकान्युपकरणानि सन्ति, यत्साहाय्येन अस्य समयः विशेषरूपेण निर्णेतुं शक्यते ।
 
( १ ) सायणाचार्यः [[ऋग्वेद]]<nowiki/>स्य ( १०।।८६।९ ) एकस्मिन् मन्त्रभाष्ये [[माधवभट्ट]]<nowiki/>स्य सम्मत्याः उल्लेखं कृतवान् । अनेन माधवस्यास्य सायणात् पूर्ववर्त्तित्वं
 
सिद्ध्यति ।
 
( २ ) सप्तत्यधिकत्रयोदशविक्रमाब्दस्य पार्श्ववर्त्ती [[देवराजयज्वा]] स्वकीये भाष्यस्योपोद्घाते वेङ्कटाचार्यतनयमाधवस्य उल्लेखं निम्नरूपेण कृतवान् - '''<nowiki/>'श्रीवेङ्कटाचार्यतनयस्य माधवस्य भाष्यकृतौ नामानुक्रमण्याः पर्यालोचनात्...... क्रियते ॥'''' अनेनोद्धरणेन वेङ्कटपुत्रमाधवस्य देवराजयज्वनः पूर्ववर्त्तित्वं स्वयं सिद्धं भवति ।
 
( ३) विक्रमस्य त्रयोदशशतकात् पूर्ववर्ती कोशकारः [[केशवस्वामी]] स्वकीये प्रसिद्धकोषे [[नानार्थार्णवसङ्क्षेपः|नानार्थार्णवसङ्क्षेपा]]<nowiki/>ख्ये माधवाचार्यसूरिनाम्ना माधवस्यैव उल्लेखं कृतवान् -
 
'द्वयोस्त्वश्वे तथा ह्याह स्कन्दसाम्यृक्षु भूरिशः ।
 
माधवाचार्यसूरिश्च को अद्यतृचि भाषते।'
 
अयमाशयोऽत्र यदुभयलिङ्गे ‘गो'-शब्दस्यार्थः अश्वो भवति । [[स्कन्दस्वामी]] अपि ऋचां व्याख्यायाम् अयमेवार्थं स्वीकृतवान् । यथा माधवाचार्यसूरिः ‘को अद्य' ( ऋ० १।८॥४॥१६ ) इत्यस्याः ऋचः व्याख्यायां ‘गो'-शब्दस्यार्थम् ‘अश्वः' एव कृतवान् । वेङ्कटमाधवस्योक्तऋचः भाष्ये अयमेवार्थः प्राप्यते । अतोऽनेन निर्देशेन माधवस्य समयः विक्रमाब्दस्य त्रयोदशशतकात्पूर्वमेव सिद्धो भवति ।
 
माधवस्य समयः विक्रमाब्दस्य त्रयोदशशतकात्पूर्वकालिकोऽस्ति इति अनुमीयते। तथाऽस्य प्रामाणिकताऽपि स्कन्दस्वामिन इवाऽस्ति । अतोऽस्य समयो विक्रमीयद्वादश शतकस्य पार्श्ववर्त्ती इति निश्चीयते । पण्डितसाम्बशिवशास्त्रीमहोदयेन [[ऋग्वेद]]<nowiki/>स्य स्कन्दस्वामिकृतभाष्यभूमिकायाम् अस्य समयः ख्रीष्टस्य १०५०-११५० ई. उक्तः अतः अस्य समयः एकादशशतकस्यादिभागः इति निश्चीयते ।
 
== भाष्यम् ==
माधवस्य भाष्यम् अत्यन्तसंक्षिप्तमस्ति । '''‘वर्जयन् शब्दविस्तारं शब्दैः कतिपयैरिति ॥'''' इति लिखित्वा तथ्यमिदमयं स्वयं स्वीचकार । भाष्येऽस्मिन् केवलमन्त्रपदानामेव व्याख्याऽस्ति । संक्षिप्तीकरणस्य भावनया प्रेरितो भूत्वा भाष्यकारेण अत्र मूलपदानामपि समावेशः स्वभाष्ये अत्यल्पमेव कृतः । मात्रपर्यायवाचिपदानां सन्निवेशेनैव मन्त्राणाम् अर्थान् स्पष्टयितुं माधवः प्रयत्नं कृतवान् । भाष्यस्यास्य अध्ययनेन मन्त्राणामर्थः सुगमतयैव ज्ञातो भवितुमर्हति । [[स्कन्दस्वामि|स्कन्दस्वामिनः]] भाष्यापेक्षयाऽपि भाष्यम् अयमतिसंक्षिप्तम् अस्ति । व्याकरणजन्यतथ्यानां निर्देशस्तु अस्मिन् भाष्ये नास्त्येवेति । प्रायः सर्वत्र [[ब्राह्मणम्|ब्राह्मणग्रन्था]]<nowiki/>नां प्रामाण्यं सुष्ठुतया सन्निविष्टोऽस्ति, येन माधवस्य ब्राह्मणग्रन्थेषु विशेषव्युत्पत्तिः प्रतीतो भवति । वेदानां गूढार्थावबोधने ब्राह्मणग्रन्थाः नितान्तोपयोगिनः इति माधवेनोक्तम् । तस्य कथनमस्ति—
 
‘संहितायास्तुरीयांशं विजानन्त्यधुनातनाः ।
 
निरुक्तव्याकरणयोरासीत् येषां परिश्रमः ॥
 
अथ ये ब्राह्मणार्थानां विवेक्तारः कृतश्रमाः ॥
 
शब्द रीतिं विजानन्ति ते सर्वं कथयन्त्यपि ।'
 
इयम् आस्था ब्राह्मणग्रन्थान् प्रति माधवाचार्यस्य । अनेन प्रकारेण ब्राह्मणानाम् अनुकूलो वेदार्थप्रतिपादनस्य भाष्यम् अयम् उदाहरणमस्ति । [[देहली|दिल्ली]]<nowiki/>नगरीतो [[मोतीलालबनारसीदासप्रकाशनम्|मोतीलालबनारसीदासे]]<nowiki/>न प्रकाशितमिदं भाष्यम् अस्य सम्पादक: डा. लक्ष्मणस्वरूपोऽस्ति ।
[[वर्गः:भाष्यकाराः]]
[[वर्गः:संस्कृतलेखकसम्बद्धाः स्टब्स्]]
"https://sa.wikipedia.org/wiki/वेङ्कटमाधवः" इत्यस्माद् प्रतिप्राप्तम्