"विदुरः" इत्यस्य संस्करणे भेदः

→‎top: संचित्रसारमञ्जूषे योजनीये using AWB
(लघु) नितिज्ञः न नीतिज्ञः भवेत्
पङ्क्तिः १:
 
 
महात्मा विदुर: तु साक्षात् धर्मस्य अवतार: आसीत् । [[माण्डव्यः|माण्डव्यऋषे:]] शापेन एष: शूद्र: भूत्वा जन्म प्राप्तवान् । एष: महाराजस्य [[विचित्रवीर्यः|विचित्रवीर्यस्य]] दास्या: पुत्र: । एकरीत्या एष: [[धृतराष्ट्रः|धृतराष्ट्रस्य]], [[पाण्डुः|पाण्डो:]] च भ्राता एव । एष: बहुबुद्धिमान्, नितिज्ञनीतिज्ञ:, धर्मज्ञ:, विद्वान्, सदाचारी, भगवद्भक्त: च आसीत् । एतस्य गुणानां कारणेन जना: एतं बहुगौरवेण पश्यन्ति स्म । निर्भीत: सत्यवादी च एष: धृतराष्ट्रस्य मन्त्री भूत्वा तस्मै सर्वदा श्रेष्ठां सूचनां ददाति स्म ।
 
[[दुर्योधन:]] जन्मन: अनुक्षणमेव शृगाल: इव चीत्कारं कर्तुम् आरब्धवान् आसीत् । तस्य जननसमये अनेका: अमङ्गलसूचना: अपि अभवन् । एतद् सर्वं दृष्ट्वा विदुर: ब्राह्मणै: सह मिलित्वा राजानं धृतराष्ट्रं वदति यत् ‘भवत: एष: पुत्र: निश्चयेन कुलनाशक: भविष्यति । अत: एतस्य त्यागः वरम् । एष: जीवति चेत् भवद्भि: दु:खम् अनुभोक्तव्यं भवति । कुलस्य निमित्तम् एकां व्यक्तिं, ग्रामस्य निमित्तम् एकं कुलं, देशस्य निमित्तम् एकं ग्रामम्, आत्मन: निमित्तं सम्पूर्णपृथिव्या: परित्यागः करणीयः चेत् दोषः नास्ति इति शास्त्रेषु उक्तम् अस्ति’ इति । किन्तु मोहवशात् [[धृतराष्ट्र:]] विदुरस्य वचनं न अङ्गीकरोति । तेन जीवनपूर्णं दु:खम् अनुभूतवान् । स्वस्य जीवनकाले एव कुलस्य नाशमपि द्रष्टव्यम् अभवत् । महात्मनः हितवचने ध्यानम् अदत्त्वा दु:खम् आहूतवान् ।
"https://sa.wikipedia.org/wiki/विदुरः" इत्यस्माद् प्रतिप्राप्तम्