"कुरुक्षेत्रम्" इत्यस्य संस्करणे भेदः

→‎बाह्यसमपर्कतन्तुः: संचित्रसारमञ्जूषे योजनीये using AWB
No edit summary
पङ्क्तिः १:
पौराणिककथानुसारं कुरुक्षेत्रं पौराणिकस्थलेषु अन्यतमम् अस्ति । अस्यां भूमौ पाण्डवकौरवाणां महाभारत-युद्धम् अभवत् । नगरमिदं हरियाणा-राज्यस्य मण्डलं विद्यते । कुरुक्षेत्र-मण्डलस्य मुख्यालयः कुरुक्षेत्रे एव अस्ति । नगरमिदं हरियाणा-राज्यस्य प्रसिद्धं स्थलं वर्तते । इदं नगरं हरियाणा-राज्यस्य उत्तरदिशि स्थितम् अस्ति । इदं नगरं परितः [[अम्बाला]]<nowiki/>-नगरं, यमुनानगरं, [[करनाल]]<nowiki/>-नगरं, [[कैथल]]<nowiki/>-नगरं च स्थितम् अस्ति । इदं नगरं [[देहली]]<nowiki/>-नगरेण, [[अमृतसर]]<nowiki/>-नगरेण च सह सम्बद्धम् अस्ति । नगरमिदं राष्ट्रियराजमार्गे, रेलमार्गे च स्थितम् अस्ति । इदमेकम् ऐतिहासिकं हिन्दुतीर्थस्थलम अस्ति ।
 
समयान्तरे अस्य नगरस्य इतिहासस्य प्रभुत्वं वर्धमानम् अस्ति । भगवान् बुद्ध, नैकाः सिक्खधर्मगुरवः च अपि तत्र गतवन्तः आसन् । तत्र गत्वा तैः बहूनि सामाजिककार्याणि कृतानि सन्ति । अस्मिन् नगरे बहूनि धार्मिकस्थलानि सन्ति । यथा – मन्दिराणि, सिक्खोपासनागृहाणि च । एतैः स्थलैः कुरुक्षेत्रस्य आकर्षणे वृद्धिर्भवति । तत्र “ब्रह्मा सरोवर टैङ्क्” अस्ति । सूर्यग्रहणसमये श्रद्धालूनां सम्मर्दः भवति । समीपे सरोवरः अपि अस्ति । तस्मिन् सरोवरे श्रद्धालवः स्नानं कुर्वन्ति । जनाः तेषां मृतपितॄणां मोक्षार्थं पिण्डदानं कुर्वन्ति । इदं स्थलं विश्वस्य पुण्यतीर्थस्थलेषु अन्यतमम् अस्ति । यतः अस्य नगरस्य ज्योतिसार-क्षेत्रे भगवता [[कृष्णः|कृष्णे]]<nowiki/>न [[अर्जुनः|अर्जुना]]<nowiki/>य [[भगवद्गीता|गीतो]]<nowiki/>पदेशः प्रदत्तः आसीत् ।
 
ई. स. १९८७ तमे वर्षे “कुरुक्षेत्र विकास बोर्ड्” इत्याख्येन कृष्णा सङ्ग्रहालयः स्थापितः आसीत् । अस्मिन् सङ्ग्रहालये भगवतः श्रीकृष्णस्य प्रसङ्गात्मकानि चित्राणि, कलाकृतयः, मूर्तयः, स्मृतिचिह्नानि च सन्ति । तैः कृष्णस्य कुशलराजनीतिः, दार्शनिकता, आध्यात्मिकता, प्रेम च ज्ञायते । तत्र कृष्णसम्बद्धाः पाण्डुलिपयः अपि सन्ति । “[[कल्पना चावला]]<nowiki/>” इत्याख्यायाः स्मृतौ “कल्पना चावला प्लानेटेरियम्” इत्याख्यं संस्थापितम् आसीत् । अनेन कृत्रिमग्रहमण्डलमाध्यमेन “कल्पना चावला” इत्याख्यायै श्रद्धाञ्जलिः प्रदीयते । अस्य नगरस्य एकस्मिन् क्षेत्रे “शेख चेहली” इत्याख्यस्य समाधिः अपि अस्ति । तत्र स्थानेश्वरमहादेवमन्दिरं विद्यते । तस्मिन् मन्दिरे शिवलिङ्गं स्थितम् अस्ति । इदं मन्दिरं कुरुक्षेत्रस्य थानेसर-क्षेत्रे स्थितम् अस्ति । तत्र नाभिकमलमन्दिरम् अपि विद्यते । तस्मिन् मन्दिरे द्वयोः भगवतोः प्रतिमे स्थिते स्तः । कुरुक्षेत्रे श्वेतशैलैः निर्मितं बिरला-मन्दिरम् अपि अस्ति । तत्र भीष्मकुण्डः अस्ति । अयं कुण्डः महाभारतकालीनः अस्ति । अयं कुण्डः ऐतिहासिकः अस्ति । अपि च कुरुक्षेत्रमण्डलस्य नारकतारी-ग्रामः विद्यते । तस्मिन् एव ग्रामे महाभारतयुद्धे भीष्मपितामहः शरशय्यायाम् आसीत् । तत् स्थानम् अपि पवित्रतमम् अस्ति । वायुमार्गेण, धूमशकटमार्गेण, भूमार्गेण च कुरुक्षेत्र-नगरं प्राप्यते । अस्य नगरस्य समीपस्थं विमानस्थानकं चण्डीगढ-नगरे स्थितम् अस्ति ।
 
[[चित्रम्:India-locator-map-blank.svg|thumb|left|200px|भारते कुरुक्षेत्रम्]]
[[चित्रम्:Mahabharata BharatVarsh.jpg|thumb|left|200px|प्राचीनभारतम्]]
"https://sa.wikipedia.org/wiki/कुरुक्षेत्रम्" इत्यस्माद् प्रतिप्राप्तम्