"मीमांसादर्शनम्" इत्यस्य संस्करणे भेदः

ऋत्विजः
पङ्क्तिः १७:
== मीमांसाशास्त्रपरिचयः ==
 
द्वादशाध्यायेषु प्रथमाध्यायस्य प्रथमे पादे प्रमाणविचारः कृतः । द्वितीये मन्त्राणामर्थवादविचारः प्रस्तुतः । तृतीये मन्वादिस्मृतीनामेवमाचारभूतविषयाणां प्रामाण्यविवेचन कृतम् । चतुर्थे उद्भिद- चित्रादि नामधेयानां प्रामाण्यविचारः सम्पादितः । द्वितीयाध्यायस्य प्रथमे पादे कर्मभेदचिन्तानामुपयुक्तः उपोद्घातः, द्वितीये धातुभेदाः एवं पुनरुक्त्यादिकर्मभेदानां वर्णनम् तृतीये कर्मभेदप्रामाण्याऽपवादानां प्रस्तुतीकरणम्, चतुर्थे नित्यकाम्यकर्मणां प्रयोगे भेदनिरूपणमिति द्वितीयाध्याये विचारिताः । तृतीयाध्याये अष्टौ पादाः सन्ति । प्रथमपादे अङ्गत्वबोधकेषु षट् प्रमाणेषु श्रुतेः विचारः कृतः । द्वियीये लिङ्गविचारः, तृतीये वाक्यप्रकरणस्थानसमाख्यानां विचारः, चतुर्थे निवीतोपवीतत्त्वादिषु अर्थवादत्वविधित्वादीनां निर्णयहेतुभूतानां श्रुत्यादीनां विरोधपरिहारात्मको विचारः , पञ्चमे प्रतिपत्तिकर्मविचारः प्रतिपत्त्यर्थः भवति-उपयुक्तद्रव्यस्य विनियोगः इति । षष्ठे –अनारभ्याधीतविचारः, सप्तमे- बहुप्रधानोपकारकप्रयाजादिकर्मणां विचारः, अष्टमे पादे यजमानेन क्रियमाणस्य कर्मणः विचारः इति एते अष्टौ विचाराः तृतीयाध्याये विचारिताः दृश्यन्ते । चतुर्थाध्यायस्य् प्रथमे पादे –प्रधानभूतस्य दध्यानयनस्य आमिक्षाप्रयोजनमित्यादि प्रधानस्य प्रयोक्तृत्वादिविचारः, द्वितीये –अप्रधानभूतानि यानि, यथा –वत्सापाकरणम् अनेन शाखाच्छेदे उपयोगः इत्यादि तेषां कर्मणां प्रयोक्तृत्वेन प्रदर्शनात्मकौ विचारः तृतीये –‘जुहू पर्णमयी ’ इत्यादि अपापश्लोकश्रवणादीनां कर्मणां भावाभावविचारः चतुर्थे राजसूययागगतत्वेन अक्षद्यूतादिगौणाङ्गानां विचारः प्रस्तुतः । पञ्चमाध्यायस्य प्रथमे पादे –[[वेदः|श्रुतेः]] क्रमः, श्रुत्यादिषु कर्मविचारस्यावश्यकत्वमपि संक्षेपेण प्रतिपादितम् । द्वितीये – क्रमविशेषाणाम् एवम् अनेकेषु पशुषु एकैकधर्मसमापनमित्यादिविचाराः प्रस्तुताः । तृतीये –वृध्यवृद्धिविचारः साधितः । चतुर्थे –श्रुत्यादि षट्प्रमाणानां पूर्वपूर्वप्राबल्यात्मको विचारः सम्पादितः । षष्ठाध्यायस्य अष्टौ पादाः विलसन्ति । तत्र प्रथमे पादे –कर्मणः अधिकारविषयिकी चर्चा प्रस्तुता । अर्थात् अन्धत्वादि इन्द्रियरहितानां पुरुषाणां यागादिषु नाधिकारः, किन्तु चक्षुष्मान् इत्यादि इन्द्रिययुक्तानां जनानामेव कर्मस्वधिकारः इति विस्तृतः विचारः कृतः । द्वितीये –अधिकारिणः कृते धर्मविचारः तृतीये –मुख्यस्य प्रतिनिधिभूतस्यान्यस्य ग्रहणं कदा कुत्र स्वीकर्तव्यमित्यादयः विषयाः, चतुर्थे –कर्मणः अनुष्ठानविषये कस्य लोपः भवितुं शक्यते ? इति विचारः, पञ्चमे षष्ठे च कालादिवैगुण्ये सति प्रायश्चित्तविचारः, सप्तमे-अदेयविषयस्य प्रस्तावः, अष्टमे लौकिकाग्नौ कदा इन्धनस्य सम्पादनं कर्तव्यम् ? इत्येते विषयाः उपन्यस्ताः । सप्तमाध्यायस्य प्रथमे –समानमित्यादि प्रत्यक्षवचनात् अतिदेशविचारः, द्वितीये –अतिदेशशेषवाक्यानां विवेचनम्, तृतीये अग्निहोत्रनाम्ना अतिदेशस्य निर्णयः , चतुर्थे –लिङ्गादीनामतिदेशविचारः इति सप्तमाध्यायः प्रस्तुतः । अष्टमाध्यायस्य प्रथमे पादे प्रत्यक्षवचनानामभावेऽपि स्पष्टलिङ्गैः अतिदेशविचारः , तथा द्वितीये अस्पष्टलिङ्गैः अतिदेशस्य विचारः तृतीये –प्रबललिङ्गेभ्यः अतिदेशस्य विचारः एवं चतुर्थे अतिदेशवाक्यानामपवादस्य वर्णनं प्रस्तुतम् । नवमस्य प्रथमे ऊहस्य विचारः, मन्त्रस्थितानां देवतालिङ्गसंख्यादिवाचकशब्दानां मध्ये तत्तद्देवतालिङ्गादिपरिवर्तनसम्पादनात्मकः ऊहः उच्यते । द्वितीये साममन्त्रस्य ऊहविचारः, तृतीये –मन्त्रादीनामूहविचारः, चतुर्थे मन्त्राणामूहप्रसङ्गकाले आगतानामन्येषां विषयाणां विचारः प्रस्तुतः । दशमाध्यायस्य प्रथमे पादे- बाधस्य हेतुभूताः ये लोपाः तेषां विधानं विहितम् । द्वारलोपस्तु अयं भवति यत् यत्र वेदिनिष्पादनार्थं द्वारत्वेन विहितमुत्खननमित्यादि कर्मणः अभावः तत्र उत्खननात्मकं कर्म बाधितं भवति, एवमेव यत्र धान्यवितुषीकरणात्मकं कर्म न सम्पाद्यते तत्र अवधातः, एवमन्यत्रापि द्रष्टव्यः । द्वितीये पादे – तस्यैव द्वारलोपस्य विचारः अनेकैः उदाहरणैः विस्तारेण कृतः । तृतीये तु बाधस्य कार्यकारणत्वं प्रदर्शितम् । यथा प्रकृतिभूतयागे [[ऋत्विजः]] परिग्रहत्वेन गवाऽश्वादीनां दक्षिणा कार्यत्वेन विहिता, विकृतिभूतयागे तु यागस्य दक्षिणारूपेण केवलं धेनुर्विहिता । अस्मिन् यागे प्रकृतिवत् प्राप्तायाः अश्वादिदक्षिणायाः कार्यरूपायाः तस्याः बाधः विहितः इत्यादि । चतुर्थे यत्र बाधः कारणत्वेन न तिष्ठति तत्र समुच्चयानुष्ठानस्य विचारः, पञ्चमे –बाधस्य प्रसङ्गे ग्रहादीनां विचारः षष्ठे –बाधप्रसङ्गे सामविषयाणां विचारः, सप्तमे –बाधप्रसङ्गे इतरसामान्यविषयाणां विचारः, एवमष्टमे- बाधस्य उपयुक्तानां नञर्थानां विचारः इत्यष्टौ विचाराः अत्र सम्यक् प्रतिपादिताः । एकादशाध्याये तन्त्रात्मको विचारः प्रस्तुतः । एककालानुष्ठानेन यस्य सिद्धिः तत्तन्त्रमित्युच्यते, अथवा अनेकैः उद्देश्यैः सम्पत्स्यमानस्य एकस्य कर्मणः एकवारानुष्ठानात्मकतन्त्रमित्युच्यते । अध्यायस्यास्य प्रथमे पादे –तन्त्रस्योपोद्घातः द्वितीये –तन्त्रमित्युच्यते । अध्यायस्यास्य प्रथमे पादे –तन्त्रस्योपोद्घातः द्वितीये –तन्त्र-आवापयोः विचारः , तृतीये-तन्त्रस्य लक्षणात्मको विचारः चतुर्थे –विस्तृतः आवापविचारः इत्यध्यायः सम्पादितः । द्वादशाध्याये प्रसङ्ग-तन्त्री –निर्णय- समुच्चय –विकल्पानां विचारः प्रस्तुतः । प्रथमे पादे प्रसङ्गस्य विचारः द्वितीये –तन्त्रिनिर्णययोः विचारः । साधारणधर्माः तन्त्रत्वेन कथ्यन्ते, यस्मिन् एते धर्माः सः तन्त्री भवति । तृतीये समुच्चयविचारः, चतुर्थे-विकल्पस्य विचारः इति प्रस्तुतोऽयमध्यायः । द्वादशलक्षणात्मके अस्मिन् शास्त्रे तृतीय-षष्ठ-दशमाध्यायेषु (३-६-१०) अष्टौ पादाः सन्ति इत्ययं विशेषः दरीदृश्यते । एवं धर्मानुष्ठानविषये प्रमाणभूतस्य द्वादशलक्षणी इत्याख्यस्य मीमांसाशास्त्रस्य सामान्यः परिचयः । वेदोक्तधर्मानुष्ठानजिज्ञासवः मीमांसात्मकविषयविशेषान् अस्मात् ग्रन्थाद् धारयन्ति इति मे मतिः ।
 
== मीमांसाशास्त्रस्य प्रयोजनवत्त्वम् ==
"https://sa.wikipedia.org/wiki/मीमांसादर्शनम्" इत्यस्माद् प्रतिप्राप्तम्