"अधिगमः" इत्यस्य संस्करणे भेदः

सम्बद्धाः लेखाः
पङ्क्तिः १:
 
'''अधिगमः''' व्यापकं जीवनपर्यन्तं सततप्रचाल्यमाना काचित् गतिशीला प्रक्रिया वर्तते । अधिगमं जर्मनभाषायां Lernen इति कथ्यते तथा आङ्ग्लभाषायां Learning इति कथ्यते । मनुष्यः जन्मतः मृत्युं यावत् यत्किमपि शिक्षत्येव । [[मनुष्यः]] स्वीयजीवने तत्कालीनवातावरणेन सह शनैः-शनैः समायोजनाय प्रयतते । समायोजनद्वारा प्राप्तानुभवमाध्यमेन सः अधिकाधिकं लाभान्वितं भवति । इमां प्रक्रियां मनोविज्ञाने अधिगमः इति कथ्यते । मनुष्यः यावत् शिक्षति तावत् तस्य जीवनस्य विकासः भवति । शिक्षणप्रक्रियायां मनुष्यः अनेकाः क्रियाः उपक्रियाः करोति ।उदाहरणार्थ - शिशुं सम्मुखे यदा ज्वलन्तं दीपकं नीयते तदा सः तस्य ज्वालां प्राप्तुं प्रयासं करोति । अस्मिन् प्रयासे तस्य हस्तः ज्वलति तथा सः स्वहस्तं बहिरानयति । पुनः यदा तस्य सम्मुखे प्रज्वलितं दीपं नीयते तदा सः स्वीयानुभवानुसारेण दीपकं न स्पृशति अपितु तस्मात् दूरं गच्छति । इमं विचारमेव स्थितिं प्रति प्रतिक्रियाकरणम् इत्युच्यते । अन्यशब्देषु कथितुं शक्यते यत् अनुभवाधारेण बालकस्य स्वाभाविकव्यवहारे परिवर्तनमायाति ।
 
==अधिगमस्य परिभाषाः==
पङ्क्तिः ७८:
अस्य नियमस्यानुसारं व्यक्तिः प्राप्तज्ञानस्य उपयोगः अन्येषु परिस्थितिषु अथवा सहचारी उद्दीपकं प्रत्यपि करोति। यथा – भोजनं दृष्ट्वा कुक्कुरस्य मुखात् स्वतः एव लारस्रावः निपतति। परन्तु कालानन्तरं भोजनद्रोणीं दृष्ट्वा एव लारस्रावः तस्य मुखात् निर्गच्छति ।
 
== सम्बद्धाः लेखाः ==
* [[वाल्मीकीयरामायणे शिवः|वाल्मिकीयरामायणे शिवः]]
* [[संस्कृतम्]]
* [[गिजुभाई बधेका]]
[[वर्गः:संस्कृतलेखाः]]
[[वर्गः:शिक्षणम्]]
"https://sa.wikipedia.org/wiki/अधिगमः" इत्यस्माद् प्रतिप्राप्तम्