"वेदः" इत्यस्य संस्करणे भेदः

पाठ्यव्यवस्था
→‎ब्राह्मणम्: आरण्यकानां विभाजनम्
पङ्क्तिः ८०:
वेदशेषभूताः ब्राह्मणग्रन्थाः यज्ञानुष्ठानस्य विस्तृतं वर्णनं कुर्वन्ति। काश्चन कथा अपि ब्राह्मग्रन्थेषु प्राप्यन्ते। प्रत्येकवेदशाखानुसारेण ब्राह्मणाः, आरण्यकग्रन्थाश्च भिन्नाः सन्ति। ब्रह्म वेदः, तदाख्या ब्राह्मण इति केचित्। ब्राह्मणग्रन्थोऽपि त्रिधा विभक्तो भवति - [[ब्राह्मणक्षत्रियविशां...|ब्राह्मणम्]], [[आरण्यकम्]], [[उपनिषद्|उपनिषदश्च]] । यज्ञस्वरूपप्रतिपादको ब्राह्मणभागश्च। अरण्ये पठिताः यज्ञस्याध्यात्मिकं रूपं विवेचयन्तो वेदभागाः आरण्यकानि । उपनिषदो ब्रह्मबोधिकाः मोक्षसाधनानि, अयमेव भागो वेदस्यान्तरूपतया वेदान्त इत्युच्यते । ब्राह्मणभागो गृहस्थानामुपयोगी, आरण्यकभागो वानप्रस्थमाश्रितानाम् उपनिषद्भागश्च संन्यस्तानामुपयोगीत्यपि कथयितुं शक्यते।
 
==== बाह्मणस्यबाह्मणानां विभाजनम् ====
* '''ऋग्वेद'''स्य ऐतरेयब्राह्मण-कौषीतकिब्राह्मणञ्चेति ब्राह्मणद्वयम्। अनयोरैतरेये ब्राह्मणमिति प्रथिते। अत्र अष्टौ पञ्चिकाः, प्रतिपञ्चिकं पश्चाध्याया इति आहत्य चत्वारिंशदध्यायाः सन्ति। कौषीतकिब्राह्मणे केवलं त्रिशदध्यायाः।
* '''सामवेद'''स्य बहवो ब्राह्मणभागाः सन्ति, येषु ताण्ड्यब्राह्मणं प्रसिद्धतरम्। अयं ग्रन्थः पञ्चविंशदध्यायशाली, अत एव पञ्चविंशब्राह्मणसंज्ञयाऽपि प्रसिद्ध्यति।
पङ्क्तिः ८६:
* '''शुक्लयजुर्वेद'''स्य शतपथब्राह्मणं नितान्तं प्रसिद्धम्, अत्र शतमध्यायाः विद्यन्ते।
* '''अथर्ववेद'''स्य गोपथब्राह्मणम्। अत्र खण्डद्वयमेव, प्रथमखण्डे पञ्चाध्यायाः, द्वितीये च षट्। ब्राह्मणग्रन्थेषु सर्वतो नवोऽयं ग्रन्थः कथ्यते।
 
==== आरण्यकानां विभाजनम् ====
* '''ऋग्वेदस्या'''ऽऽरण्यकद्वयम् - ऐतरेयारण्यकम्, शाङ्खायनारण्यकञ्च ।
* '''कृष्णयजुर्वेद'''स्य तैत्तिरीयमारण्यकम् ।
* '''सामवेद'''स्य जैमिनीयशाखायाः जैमिनीयोपनिषद्ब्राह्मणमेव तवलकाराण्यकमिति नाम्ना प्रसिद्धम्। अस्मिन् साममन्त्राणा शोभना व्याख्या १ता । इयं सामवेदारण्यसंहिता सत्यव्रतसामश्रमिष्णा १८७८ ई० वर्षे मुद्रापयित्या प्रकाशिता ।
 
== वेदाः ==
"https://sa.wikipedia.org/wiki/वेदः" इत्यस्माद् प्रतिप्राप्तम्