"याज्ञवल्‍क्‍यस्मृतिः" इत्यस्य संस्करणे भेदः

→‎बाह्यसम्पर्कतन्तुः: सर्वे अपूर्णलेखाः using AWB
परिसन्धिः
पङ्क्तिः १:
{{हिन्दूधर्मः}}
याज्ञवल्क्यमहर्षिणा[[याज्ञवल्क्यः|याज्ञवल्क्य]]<nowiki/>महर्षिणा लिखिता स्मृतिः याज्ञवल्क्यस्मृतिनाम्ना चिरं प्रख्याताऽस्ति । मानवसामाजे व्यावहारिकदृष्ट्या तत्प्रणीतायाः स्मृतेः सुमहद गौरवं वरीवर्ति । याज्ञवल्क्यस्मृतिः सनकादिनामृषीणां सोमश्रवादिमुनीनाञ्च धर्मजिज्ञासायां प्रश्नोत्तरच्छलरुपा स्मृतिरिति कथ्यते । मनुस्मृतिवत् संहितायाम् अस्यामपि यथाक्रमम् आचार व्यवहार-प्रायश्चित्तभेदेन त्रयोऽध्याया वर्त्तन्ते ।
 
तत्र प्रथमाध्याये (आचाराध्याये) उपोद्घात-प्रकरणं, ब्रह्मचारिप्रकरणं, विवाह-प्रकरणं, वर्णजातिविवेक-प्रकरणं, गृहस्थ-प्रकरणम्, स्नातवह-प्रकरणम्, भक्ष्याभक्ष्य-प्रकरणम्, द्रव्यशुद्धि प्रकरणम्, दान-प्रकरणम्, श्राद्ध्-प्रकरणम्, गणपति कल्पप्रकरणम्, ग्रहशान्ति-प्रकरणम्, राजधर्म-प्रकरणम्, चेति त्रयोदशप्रकरणानि सन्ति । ततो व्यवहाराध्याये साधारणव्यवहारणानि सन्ति । ततो व्यवहाराध्याये साधाराव्यवहारमातृका, ऋणादानो-पनिधि-साक्षी-लेख्य-दिव्य-दायविभाग-सीमाविवाद-स्वामिपालविवाद-अस्वामिविक्रय-दत्ताप्रदानिक क्रीतानुशया-अभ्युपेत्याशुश्रूषा-संविदव्यतिक्रम्-वेतनादानद्यूत समाह्वय -वाक् पारुष्य-दण्डपारुष्य-साहसविक्रीयासम्प्रदानसम्भूय समुत्थान-स्तेय-स्त्रीसङ्ग्रहण-प्रकरणञ्चेति पंचविंशतिप्रकरणानि सन्ति । ततश्च प्रायश्चित्ताध्यायेऽशौचप्रकरणम्, आपद्धर्मप्रकरणम्, वानप्रस्थप्रकरणम्, यति-धर्मप्रकरणम्, प्रायश्चित्त-प्रकरणम्, प्रकीर्ण-प्रयश्चित्तानि चेति षट् प्रकरणानि समुपस्थापितानि । मनुस्मृतेरपेक्षया याज्ञवल्क्यस्मृतिरधिकव्यवस्थिता शृङ्खलिता च ।
"https://sa.wikipedia.org/wiki/याज्ञवल्‍क्‍यस्मृतिः" इत्यस्माद् प्रतिप्राप्तम्