"मनुस्मृतिः" इत्यस्य संस्करणे भेदः

आज्ञासिद्धानि चत्वारि न हन्तव्यानि हेतुभिः
0
पङ्क्तिः १:
{{Underlinked|date=जनुवरि २०१४}}
{{हिन्दूधर्मः}}
स्मृतिग्रन्थेषु '''मनुस्मृतिः''' प्राचीनतमा भवति । महर्षिमनुद्वारामहर्षि[[मनुः|मनु]]<nowiki/>द्वारा रचितः एषः ग्रन्थः मानवधर्मं विवृणोति । एतस्मात् एतस्याः अन्यतमानि नामानि 'मनुसंहिता’ 'मानवधर्मशास्त्रम्’ आदयः अपि सन्ति । श्रुतिग्रन्थाः वेदाः । तान् आश्रित्य रचिताः ग्रन्थाः स्मृतयः । तेषां विषयवस्तु वैयक्तिकी सामाजिकी च व्यवस्था, कर्तव्याः व्यवहारनियमाः, निषेद्धव्यानि च अस्ति । एष एव धर्मोऽस्ति खलु । मनुः स्वयं वदति – "धर्मशास्त्रं तु वै स्मृतिः (२।१०)” । अन्यत्र सः वदति - "वेदोऽखिलो धर्ममूलम् (२।६)”, "धर्मज्ञिज्ञासमानां प्रमाणं परमं श्रुतिः (२।१३)” । अतो मनुस्मृतिः पूर्णतया वेदाधारितो विधिविधानात्मको ग्रन्थोऽस्ति । मानवसमाजस्य व्यवस्थिता परिकल्पना विश्वग्रन्थेषु अत्र प्रथमतया दृश्यते । तस्माद् मनुमहर्षिः मानवसभ्यतायाः प्रतिष्ठाता इति मान्यता अस्ति । मनुः स्वयं वदति यत् प्रथमतया संस्कृतिः भारतात् बहिः प्रसारिता –
:'''एतद्देशप्रसूतस्य सकाशादग्रजन्मनः ।'''
:'''स्वं स्वं चरित्रं शिक्षेरन् पृथिव्यां सर्वमानवाः ॥ 2|20 ||'''
"https://sa.wikipedia.org/wiki/मनुस्मृतिः" इत्यस्माद् प्रतिप्राप्तम्