Content deleted Content added
|
|
==वेदानां रचना कालः==
वेदानां वेदाविर्भावकालमधिकृत्य वैदिकविद्वत्सु गम्भीरो मतभेदो दृश्यते। भारतीयसभ्यतायाः प्राचीनतमं रूपं विज्ञातुं वैदिकग्रन्थानामुपयोगिता नितान्तं माननीयाऽस्ति, सिद्धान्तस्यास्य स्वीकरणे केषाचिदपि विदुषां केनाऽपि प्रकारेणापत्तिर्नास्ति । किश्चास्याः वैदिकसभ्यतायाः ज्योतिः कदाऽस्यार्यावर्त्तस्य पवित्रभूमिमालोकितामकरोत् ? कस्मिन् काले पावनचरितानाम् ऋषीणां चित्ते आध्यात्मिकज्ञानस्य दिव्यसन्देशं दातुमियं कामना जागृताऽभवत् ? कदा तैरलोकसामान्यगूढार्थविजृम्भितमन्त्राः अरच्यन्त ? एतेषां प्रश्नानां समुचितोत्तरमधुना न कोऽपि दातुं समर्थः, न चाऽपि भविष्यतिकाले कोऽपि दातुं समर्थो भविष्यति।
अतिप्राचीनमिदं वैदिकवाड्मयं तथापि आधुनिका इतिहासविदः दैशिका वैदेशिकाश्च तेषां कालनिर्धारणे बद्धादराः । यथा-लोकमान्यतिलकमहोदयो यद्गणिताधारेण वेदानां ६००० ई० पू० निर्मितत्वम्, ततोऽपि वा पूर्वकालिकत्वं निर्धारितवाँस्तत्र नास्ति सन्देहस्यावकाशः। वेदानां रचनायां जातायां तद्व्याख्यानभूताः ब्राह्मणग्रन्थाः अरच्यन्त । ब्राह्मणग्रन्थेभ्यः पश्चात् आरण्यकानि, तदनन्तरमुपनिषदस्ततो [[रामायण]][[महाभारत|महाभारता]]<nowiki/>दिकं लौकिकसाहित्यानि चेति। अतिव्यापकं विस्तृतञ्चेति वैदिकवाङ्मयम् । वैदिकवाङ्मयेऽस्मिन् मानवजीवनोपयोगिनः सर्वेऽपि विषयाः साधु विवेचिता इति कथनं समुचितमेव । अत्र प्रेयःशास्त्रं श्रेयःशास्त्रश्चोभयं समभावेन समेधितम् । अत एवात्र भोगमोक्षयोरुभयोः सत्तायाः सकलसाहित्यापेक्षया विशिष्टता विद्यते ।
प्राचीनाभारतीयदृष्टयां भारतीयाये विद्वांसोविद्वांसः वेदानपौरुषेयान्श्रद्धां निदधति, तेषां समक्षे तु वेदकालनिर्णयस्य प्रश्न एव नोत्तिष्ठति । तेषां दृष्टया तु वेदाः सन्ति अनादयः । सन्ति ते नित्याः कालापरिच्छिन्नाः । परं पाश्चात्यानां वेदज्ञानां पण्डितानां किञ्च तदनुयायिनां केषाञ्चन भारतीयानां सम्मत्यां तदाविर्भावकालसम्बन्धी प्रश्नो विद्यत एव समाधेयः । प्राचीनभारतीयाः विद्वासो वेदान् अपौरुषेयान् मन्यन्ते, तेषां मते तु वेदरचनाकालविचारो निरर्थको दुरर्थकश्च । पाश्चात्त्यापाश्चात्याः विद्वांसोविद्वासो यथाबुद्धिवैभवं वेदरचनाकालं निर्धारयन्ति, पाश्चात्त्यविचारसरणिविदो। भारतीयापाश्चात्यविचारसरणिविदो अपिभारतीयाः अनुसन्धित्सवोऽपि तेनैव मार्गेण वेदकालं निर्णेतुं यतन्ते । अत्र तद्विषयका कतिचन विचाराः प्रस्तूयन्ते ।
=== डॉ० मैक्समूलरस्य मतम् ===
===मैक्समूलरमतम्===
मैक्समूलरमहोदयस्यडॉ० मैक्समूलरमहोदयः १८५९ ख्रीष्टाब्दे स्वकीये प्राचीनसंस्कृतसाहित्याभिधाने ग्रन्थे वेदानां कालं निर्णेतुं प्रयासं विहितवान् । तस्य सम्मतौ वेदेषु प्राचीनतमस्य ऋग्वेदस्य रचना १२०० वि० पू० काले सम्पन्नाऽभवत् । अनेन तस्य मतेन ऋग्वेदस्य रचना ११५० ई.पू.ई० पू० समीपे जाता इति। मानवकल्याणार्थम् अस्मिन्देशे अभिनवबौद्धधर्मस्योदयः समस्तवैदिकवाङमयस्यास्तित्वमङ्गीकरोति । बुद्धधर्मोदयात्किञ्चास्य बौद्धधर्मस्योदयात् प्रागेव च ब्राह्मणग्रन्था अपि व्यरच्यन्तेव्यरच्यन्त । बुद्धेन ब्राह्मणग्रन्थेषु विवेचितानामेव यागविधीनां कट्वीकष्ट्वी आलोचनाअलोचना क्रियते स्म, अपि चोपनिषत्समर्थितंच कतिपयतत्त्वजातमात्मसात्उपनिषत्समर्थितं कतिपयतत्त्वजातम् आत्मसात् क्रियते स्म’स्म । अतो बुद्धात् पूर्वतना (५०० ई.पू.ई० पू०) एव ब्राह्मणोपनिषद्भागाः सम्भवन्ति । वैदिकसाहित्ये चत्वारि युगानि सन्ति - छन्दोयुगम्, मन्त्रयुगम्, ब्राह्मणयुगम्, सूत्रयुगञ्चसूत्रयुगञ्चेति । प्रत्येकयुगविकासेप्रत्येकं युगस्य विकासे तेन वर्षशतद्वयंवर्षशतद्वयात्मकः कालः कल्पितः, तदनुसारेण बुद्धात् ६०० वर्षतः पूर्वपूर्वं छन्दोयुगस्यास्तित्वं समायाति । अतः ऋग्वेदस्य रचना ११५० ई.पू.ई० समायात्पू० समयात् पश्चात्कालिकी न सम्भवतीतिसम्भवतीति। सम्प्रति ऋग्वेदस्य जातस्य ऋग्वेदस्य ३२०० वर्षाणि जातानीतिजातानि इति कथयितुं शक्यमिति तदाशयः । मैक्समूलरमहोदयेनायं कालः सम्भाव्यरूपेणोक्तो न तु निश्चयरूपेण, परं तदनुसारिणः पाश्चात्त्यास्तदीयैरेव तर्कैः कालममुं निश्चयरूपेण कथयितुं प्रवृत्ताः ।
डा० मैक्समूलरमहोदयः ऋग्वेदस्योदयविषये कांश्चन बिन्दून् आधृत्यैवोक्तां सम्भावनाञ्चकार । न स स्वाङ्गीकृते वेदाविर्भावविषये वस्तुतो निश्चयं गत आसीत् । यतो हि स एकस्मिन् समये भाषमाणः स्वयमेव अभिदधौ यत्, नात्र भूतले काऽपि शक्तिरीदृशी या वैदिकमन्त्ररचनायाः कालं वक्तुं शक्नुयात् निश्चप्रचतया । स इमं विचारं १८८९ शततमे ईशवीयेऽब्दे भौतिकधर्माख्यायां जिफोर्ड-व्याख्यानमालायां प्रकटीचकार । किञ्च तदनुसारिणः पाश्चात्यास्तदीयैरेव तर्कैः कालममुं निश्चयरूपेण कथयितुं प्रवृत्ताः ।
===डा अविनाशचन्द्रदासमतम्===
|