"वेदः" इत्यस्य संस्करणे भेदः

मतानि
पङ्क्तिः ३६:
युगस्यपञ्चवर्षस्य कालज्ञानं प्रचक्षते ||
सायनसौर उत्तरायणारम्भदिन सन्निकटशुक्ल प्रतिपद्यां अमान्तचान्द्र माघमास आरम्भ भवति|स एव वेदोक्त तपोमासः | ततः पञ्चवर्षात्मकयुगस्य नववर्षारम्भ भवतिव| वर्षान्तं च पौषकृष्णअमावास्यां भवतीति शेषः | इति लगधप्रोक्त वेदांगज्योतिष विषयः | लोके इदमपि प्रसिद्धं यत् प्राचीनकालादधुनापर्यन्तममी ऋतवः पश्चात्सर्पन्ति, अर्थात् पूर्व यत्र नक्षत्रे यस्यर्त्तोरुदयो जायते स्म सम्प्रति स एवर्त्तुस्ततः पूर्ववर्तिनि नक्षत्रान्तरे उदितो भवति । पुराकाले वसन्तो वर्षादिरभवत्, अत एव तस्य प्रशस्ततया भगवद्विभूतिभाव उक्तो गीतायां- ‘ऋतूनां कुसुमाकरः’ इति । सम्प्रति वसन्तसम्पातः मीनसङ्क्रान्तिकालादारभते, मीनसङ्क्रान्तिश्च पूर्वभाद्रपदनक्षत्रस्य चतुर्थचरणे भवति । सेयं स्थितिर्नक्षत्राणां क्रमशः पश्चात्सर्पणेनोत्पन्ना । पूर्वं कदाचिद् वसन्तसम्पातः उत्तरभाद्रपदरेवती-अश्विनी- भरणी –कृत्तिका- मृगशिरः प्रभृतिषु नक्षत्रेष्वासीत्, ततः पश्चात्सर्पन्नयं वसन्तसम्पातः साम्प्रतिकीं स्थितिमनुप्रपन्नः ।
 
=== डॉ० अविनाशचन्द्रदासस्य मतम् ===
अयं हि महानुभावः वेदे निर्दिष्टानि अनेकानि भूगर्भशास्त्रीयतत्त्वानि विशेषतः आर्यावर्त्ततश्चतुर्दिक्षु चतुःसमुद्रीयां स्थितिमाधारीकृत्य गणनाद्वारा वेदस्य समयं २७ सहस्रसंवत्सरपूर्वं मन्यते। स्वकीये 'ऋग्वेदिक इण्डिया' (Rigvedic India) नामके पुस्तके अयम् अलिखत् यत्, भौगोलिकीः किञ्च भूगर्भसम्बन्धिन्यो घटनाः अवलम्ब्य ऋग्वेदीयाः रचनायाः अथ च तत्कालवर्त्तिन्याः सभ्यतायाः प्रादुर्भूतायाः प्रायेण सप्तविंश तिसहस्राब्दा अतिक्रान्ताः इति।<ref>https://archive.org/stream/in.ernet.dli.2015.70129/2015.70129.Rigvedic-India#page/n23/mode/1up/search/india</ref>
 
ज्योतिविदः सूर्यस्य सङ्क्रमणवृत्तं २७ नक्षत्रेषु विभजन्ति, पूर्णसङ्क्रमणवृत्तम् ३६० अंशानामस्ति । तत् प्रत्येकं नक्षत्रम् ३६०<math>\div</math>२७ = १३३<math>\frac{\text{१}}{\text{२}}</math> अंशानां चापं निर्माति । सङ्क्रमणबिन्दुश्च ७२ वर्षेषु एकमंशं विहायापरमंशं प्रसर्पति । एवम् एकस्मान्नक्षत्रात् सङ्क्रमणबिन्दुः परं नक्षत्रं याति, तत्र ७२ x १३३<math>\frac{\text{१}}{\text{२}}</math> = ९७२ वर्षात्मकः कालो भवति। सम्प्रति वसन्तसम्पातः पूर्वभाद्रपदनक्षत्रस्य चतुर्थचरणे भवति, यदा चायं कृत्तिकानक्षत्रे भवति स्म, ततो वर्त्तमानस्थितेः प्राप्तये ४ नक्षत्राणि लङ्घितानि, यदि एकत्र नक्षत्रे लङ्घनीय ९७२ वर्षात्मककालापेक्षा तदा ४<math>\frac{\text{१}}{\text{२}}</math> नक्षत्रातिक्रमे ९७२×४<math>\frac{\text{१}}{\text{२}}</math>=४३७४ वर्षात्मिकः कालोऽवश्यमपेक्षितः स्यात् । तदेवं वेदोक्तज्यौतिषतत्त्वानुसारेण वेदानां २५०० ईo पूर्व-पूर्वकालिकता प्रतीता भवति ।
 
=== शङ्करबालकृष्णदीक्षितस्य मतम् ===
महाराष्ट्रस्य पण्डितः ज्योतिर्विच्छ्रीशङ्करबालकृष्णदीक्षितमहोदयः शतपथब्राह्मणात् महत्त्वपूर्णवर्णनमेकमन्वेषितवान् । तेन तस्य ग्रन्थस्य रचनाकालविषये प्रयासप्रकाशो प्राप्यते। वैदिकीय संहितासु नक्षत्रनिर्देशकानि बहूनि वर्णनानि प्राप्यन्ते । [[शतपथब्राह्मण]]<nowiki/>स्य अस्मिन् सन्दर्भे कथनमिदं द्रष्टव्यम्-
 
'एकं द्वे त्रीणि चत्वारि वा अन्यानि नक्षत्राणि, अथैता एव भूयिष्ठा यत् कृत्तिकास्तद् भूमानमेव एतदुपैति, तस्मात्कृत्तिकास्वादधीत ॥ एताहवै प्राच्या दिशो न च्यवन्ते सर्वाणि ह वां अन्यानि नक्षत्राणि प्राच्यादिशश्च्यवन्ते।" <ref>( शतपथ० २ ।। १ । २ )</ref>
 
एतेनेदमुक्तं भवति यत्, शतपथब्राह्मणरचनाकाले कृतिकानियमेन प्राच्यामासन्, सम्प्रत्येताः कृत्तिकाः पूर्वदिग्बिन्दुतः ईषदुत्तरस्यां दिशि उदयं यान्ति । दीक्षितमहोदयस्य गणनया तादृशी ग्रहस्थितिः ३००० ई० पू० काले सम्भवति । अतः स एव शतपथस्य निर्माणकालः । तैत्तिरीयसंहिता शतपथात् प्राचीना, ऋग्वेदश्च तैत्तिरीयसंहिताया अपि प्राचीनः, ऋग्वेदः ३५०० ई० पू० काले प्रणीत इति सम्भवति । एवञ्च सम्प्रति ऋग्वेदः ५५०० वर्षप्राचीन इति निश्चीयते। शङ्करबालकृष्णदीक्षितस्य भारतीय ज्योतिःशास्त्र-पुस्तके यत् पूना-तः सं० १८९६ ई० मध्ये प्रकाशितं तस्मिन् विवरणमिदं प्राप्यते।<ref>https://archive.org/stream/BharatiyaJyotishSastra1/Bharatiya%20Jyotish%20Sastra-1#page/n169/mode/2up पृ० १३६-१४०</ref>
 
=== बालगङ्गाधरतिलकस्य मतम् ===
तिलकस्य मते वेदकाल इतोऽपि किञ्चित् प्राचीनः सिद्धयति । तेन हि मृगशिरोनक्षत्रे वसन्तसम्पातस्य साधकानि बहूनि वेदवाक्यानि सङ्गृहीतानि । [[तैत्तिरीय संहिता|तैत्तिरीयसंहिता]]<nowiki/>यामुच्यते फाल्गुनी पूर्णिमावर्षादिः । तिलकमतं इदमनुकूलं यतो, यदि पूर्णचन्द्रः फल्गुन्यां, तदा सूर्येण मृगशिरसि भवितव्यमेव, तदेव च वसन्तसम्पातोे भावी।
 
मृगशिरसि वसन्तसम्पातस्य कालः पूर्वोक्तकृत्तिकाकालात् प्रायः २००० वर्षपूर्वं सम्भवति, यतो मृगशिरसः कृत्तिकापर्यन्तं पश्चात् सर्पणे सहस्रद्वयाब्दी अपेक्ष्यते। एकस्मान्नक्षत्रात् नक्षत्रान्तरोपसर्पणे ९७० वर्षाणि भवन्तीति उक्तमस्ति। अतो येषु मन्त्रेषु मृगशिरसि वसन्तसम्पातस्य उल्लेखो विद्यते, ते मन्त्राः ४५०० ई० पू० समयतोऽर्वाचीना न सम्भवन्ति । तिलकेन मृगशिरसोऽपि पूर्वं पुनर्वसौ वसन्तसम्पातस्य बोधकानि वेदवचनानि प्राप्तानि ततस्ततोऽपि पूवतनः कालो वेदमन्त्राणां साधयितुं शक्यते । सर्वमिदं विचार्य तिलकमहोदयेन वैदिककालश्चतुर्धा विभक्तः । डॉ० याकोबी-नामा जर्मनीयो विद्वांश्चाविर्भूतस्य वेदस्य चतुविंशतिशतवर्षाणि यातानि इति मन्येते । तेन हि गृह्यसूत्रेषूल्लिखितस्य ध्रुवदर्शनस्याधारे स्वतन्त्ररूपेण वेदानां कालो निर्धारितः।<ref>History of Indian Literature. First part. Page 296-297 by writer</ref>
 
लोकमान्यतिलकमतानुसारेण -
 
( १ ) अदितिकालः - ६००० ई० पूर्वतः ४००० पूर्वपर्यन्तम् । अत्र काले उपास्यदेवनाम् अगुणं मुख्यचरितादिबोधकाः गद्यपद्यमयाः मन्त्राः रचिताः ये यज्ञेषु प्रयुज्यन्ते स्म ।
 
(२) मृगशिरःकालः - ४००० ई० पूर्वतः २५०० इ० पू० पर्यन्तम् । अत्रैव महत्त्वशालिनि काले भूयांसो ऋग्वेदमन्त्रा व्यरच्यन्त ।
 
( ३ ) कृत्तिकाकालः - २५०० ई० पूर्वतः १४०० ई० पू० पर्यन्तम् । अस्मिन् काले शतपथब्राह्मण-तैत्तिरीयसंहितयोः प्रणयनमजायत ।
 
( ४ ) अन्तिमः कालः - १४०० ई० पूर्वतः ५०० ई० पूर्वपर्यन्तम् । अत्र काले श्रौतसूत्रगृह्यसूत्रदर्शनसूत्रादीनामार्षग्रन्थानां रचना जाता । तानेव विरोद्धुं प्रतिक्रियारूपेण बौद्धधर्म उदितो बभूव ।
 
=== शिलालेखानुसारम् ===
साम्प्रतिकानि शोधकार्यफलान्यपि तिलकमहोदयस्य मतं पुष्टं कुर्वन्ति । समाधिकैकोनविंशतिशततमेशवीये ( १९०७ ई० ) अब्दे डॉ० हूगोविन्कलर ‘बोधाज कोड्' नामके स्थाने वर्तमानकाले टर्की-नाम्ना प्रसिद्धस्य देशस्य अन्तर्गते खननकार्ये प्राचीनः कश्चन शिलालेखः प्राप्तः। तेन शिलालेखेन ज्ञायते यत् पश्चिम-एशिया-अवयवभूते तत्र टर्की-देशे द्वयोः कयोश्चित् प्राचीनजात्योर्निवासः आसीत् । तत्र एकस्याः जातेर्नाम 'हित्तिति' इति अपरस्याश्च 'मितानि' इत्यासीत् । अनयोर्द्धयोरपि जात्यो राजानौ पारस्परिककलहस्य निवारणाय सन्धिं चक्रतुः। तत्र सन्धौ द्वावपि पक्षौ सन्धिसंरक्षकतया देवनामानि निर्दिष्टवन्तौ तत्र ‘मितानि' जातेर्देवेषु मित्रः, वरुणः, इन्द्रः, नासत्यौ च विशिष्टाः अमी देवा अार्याणामेव । अतः प्रतीयते यत् आर्या एव केचन तत्राप्यवसन्।
 
अस्य शिलालेखस्य समयः १४०० ई० पू० विद्यते । आर्याः प्राग् आर्यावर्त्ते स्वधर्मवेदांश्च स्थिरयित्वैव क्वचन गता भवेयुः, अतः १४०० ई० पूर्वतः प्रागेव वैदिकसभ्यतायाः उदयो मन्तव्यः, तदानीन्तनश्चैव वेदः सम्भवति । इत्थं वेदानां कालः २००० ई० पू० सिद्धयति । अयं कालनिश्चयो तिलकस्य मतं सन्निकृष्टं करोति। वस्तुतस्तु सर्वमपीदं सम्प्रत्यवधिः न निर्णीतः, केवलमाशास्यते यत्, यदा कदाचिदपि जाते निश्चये वेदाः पूर्वोदीरितकालतोऽपि पूर्वकालिका एव सेत्स्यन्तीति।
 
=== भूगर्भायवैदिकतथ्यम् ===
भूगर्भसम्बन्धिनी घटना अवलम्ब्य ऋग्वेदीया रचनाया अथ च तत्कालवर्त्तिन्याः सभ्यतायाः प्रादुर्भूतायाः समयस्य निरूपणं कत्तुं शक्यते । तात्कालिकयुगे सिन्धुनद्यास्तटे अार्याणां यज्ञविधानं विशेषरूपेणाभवत् । अस्याः नद्याः विषये ऋग्वेदस्य कथनमस्ति यत्, नदीषु पवित्रतमा नदी सरस्वती उन्नतगिरिशृङ्गान्निःसृत्य समुद्रे पतति
 
'एका चैतत्सरस्वती नदीनां शुचिर्यती गिरिभ्य आ समुद्रात्।' <ref>( ऋग्वे० ७ । ९५॥|२ )</ref><ref>https://sa.wikisource.org/wiki/ऋग्वेद:_सूक्तं_७.९५</ref>
 
अपरस्मिन् मन्त्रे ( ३ ।। ३३ । २ ) सरस्वती-शुतुद्रिनद्योः गर्जयन्तीं सागरे पतनस्योल्लेखो लभते। ऋग्वेदस्यानुशीलनेन प्रतीतो भवति यत्, सम्प्रति यत्राधुनिकमेवाडप्रान्तस्य मरुभूमिरस्ति, तत्र प्राचीनकाले एकः समुद्रः आसीत् । तस्मिन्नेव समुद्रे हिमालयात् निःसृत्य सरस्वती एवं शुतुद्रिः नद्यौ न्यपतताम् । ताण्ड्यब्राह्मणेन ( २५ । १० । ६ ) स्पष्टो भवति यत्, सरस्वती 'विनाशने' विलुप्तो भूत्वा पुनः ‘प्लक्षप्रस्रवणे’ आविर्भूताऽभवत् । ऋग्वेदस्यानुशीलनेन ज्ञातो भवति यदार्याणां निवासभूमिः सप्तसिन्धुनाम्ना ख्याताऽऽसीत्। तेषां वासभूमिमभितः समुद्राः सन्ति । ऋग्वेदस्यैकस्मिन् मन्त्रे (१० ।। १३६ । ५) सप्तसिन्धोः पूर्वस्यां पश्चिमायां च दिशि समुद्रद्वयस्योल्लेखो लभते । येषु प्रतीच्यसागरः अद्यापि वर्त्तते किञ्च पूर्वीयसागरस्य अस्तित्वबोधो न भवति । ऋग्वेदस्य द्वयोः मन्त्रयोश्चतुःसमुद्राणां निःसन्दिग्धरूपेण निर्देशो लभते। प्रथममन्त्रे—
 
'रायः समुद्राँश्चतुरोऽस्मभ्यं सोम विश्वतः आ पवस्व सहस्रिणः।।' (ऋ. ९/३३/६)
 
अपस्मिन् मन्त्रे -
 
'स्वायुधं स्ववसं सुनीथं चतुःसमुद्रं धरुणं रयीणाम्।।' (ऋ. १०/४७/२)
 
अल्मिन् मन्त्रे स्पष्टतया चतुःसमुद्राणां उल्लेखो भवति। अनेन ज्ञातो भवति यत्, आर्यप्रदेशं परितः समुद्राः वर्त्तन्ते ऋग्वेदीययेुगे। एतेषु पूर्वीयसागरः आधुनिकबिहारोत्तरप्रदेशे आसीत्, दक्षिणसागरश्च राजस्थानस्य मरुभूमौ आसीत्। पश्चिमीयसागरः अद्यापि वर्त्तमानोऽस्ति। उत्तरीयसागरस्य स्थितिरुत्तरस्यां दिशि आसीत्। भूगर्भवेतृृणां मतानुसारं एशियामहाद्वीपस्योत्तरस्यां दिशि बलखसागरस्य तथा परसीक(फारस) देशस्योत्तरस्यां दिशि विशालसागरस्य सत्ता आसीत् । सागरोऽयं ‘जम्बूद्वीय-भूमध्य-सागर’ इति नाम्ना ख्यातः अासीत् । उत्तरस्यां दिशि आर्कटिकमहासागरेण सह अयं सम्बद्धः आसीत् । अस्यैव अवशिष्टरूपेणाधुना कृष्णसागर; अरालसागरस्तथा बाल्कशह्रद इति नाम्ना ख्याताः सन्ति ।
 
तेषु दिनेषु समस्तगङ्गप्रदेशः, हिमवतः पादभूमौ तथा असमप्रदेशस्य विस्तृतपर्वतीयक्षेत्रस्य सागरगर्भ आसीत् । कालान्तरे गङ्गा हिमालयात् निःसृत्य सामान्यनदीरूपेण हरिद्वारसमीपे पूर्वीयसागरे पतति स्म । अनेनैव कारणेन ऋग्वेदस्य प्रसिद्धनदीसूक्ते ( १०॥७५ ) गङ्गाया अतिसङ्क्षप्तवर्णनमस्ति । तस्मिन् काले पञ्चनदप्रदेशस्य दक्षिणपूर्वस्यां दिशि समुद्रः अासीत्, येन कारणेन दक्षिणभारतः पृथक् पृथ्वीखण्ड इव प्रतीतोऽभवत् । तदा पञ्चनदप्रदेशे शीतस्य प्राबल्यमासीत् । अतः ऋग्वेदे वर्षस्य नाम ‘हिमः' इत्यासीत् । ‘‘त्वभिड़ा ‘शतहिमासि' ‘दक्षसे त्वं वृत्रहा वसुपते सरस्वती' (१।६४।।१४।२।१।११), एवं ‘विद्वेषांसीनुहि वर्धयेडां मदेम ‘शतहिमाः' सुवीराः<nowiki>''</nowiki> ( ६॥१०॥७) । भूतत्त्वज्ञानां विचारे भूसलिलयोरेते विभिन्नविभागास्तथा पञ्चनदप्रदेशे शीतकालस्य प्राबल्यं प्रमाणयन्ति यदियं वार्ता पूर्वपाषाणयुगस्य (Pre-palaeostocin) वा पाषाणयुगस्याऽस्ति । कालोऽयं ख्रीष्टात् पञ्चाशत्सहस्रादारभ्य पञ्चविंशतिसहस्रमभिव्याप्य वर्त्तते । भूतत्त्वज्ञाः इदमपि स्वीकृतवन्तः यदस्मात्कालादनन्तरमेव सागरः राजस्थानं परित्यज्य बहिर्गतः । तदनन्तरमेव हिमनदीभिः समाहृतमृत्तिकाभिः गङ्गाप्रदेशस्य समतलभूमेः निर्माणमभवत् । पञ्चनदप्रदेशस्य जलवायौ उष्णता समागतेति । उपरि निर्दिष्टानां भौगोलिकीनां तथा भूगर्भसम्बन्धिनीनां घटनाम् आधारेण ऋग्वेदस्य रचनायास्तथा तात्कालिकसभ्यतायाः अाविर्भावकालः पञ्चविंशतिसहस्रसंवत्सरपूर्वं निश्चीयते।
 
निष्कर्षः - पण्डितदीनानाथशास्त्रीचुलेटस्तु स्वकीये 'वेदकालनिर्णय'संज्ञके ज्योतिस्तत्त्वमीमांसकग्रन्थे वेदकालमतितरां प्राचीनं साधयितुं प्रयत्नं विदधानः समवाप्यते । तद्विचारेण क्षितौ वेदाख्यस्य प्रकाशस्य अवतीर्णस्य लक्षत्रयसंवत्सराः व्यतीयुः । इत्थं वेदकालनिर्धारणे हि विदुषां विचारा विद्यन्ते, तेषु नितान्तमेव भिन्नत्वं समुपलभ्यते।
 
==वेदशब्दस्य अर्थः==
"https://sa.wikipedia.org/wiki/वेदः" इत्यस्माद् प्रतिप्राप्तम्