"नरेन्द्र मोदी" इत्यस्य संस्करणे भेदः

पङ्क्तिः ३७:
१९८७ तमे वर्षे [[भारतीयजनतापक्षः|भारतीयजनतापक्षे]] स्वात्मानं योजयित्वा राजनीतेः मुख्यधारायां प्रविष्टः। वर्षस्य अन्ते [[गुजरातराज्य]]स्य महामन्त्रिपदे सः नियुक्तः। तावता अत्यन्तं कुशलसङ्घटकत्वेन ख्यातिः अपि प्राप्ता।
वस्तुतः तेन पक्षस्य कार्यकर्तृन् सक्रियान् कर्तुम् आह्वानरूपं कार्यं स्वीकृतम्। तस्मादेव कारणात् पक्षेण राजकीयलाभाः अपि प्राप्ताः। १९९० तमे वर्षे 'अप्रैल'-मासे केन्द्रीयशासने मिश्रसर्वकारस्य रचना अभूत्। कतिचन मासानाम् अनन्तरम् एव इदं राजनैतिकसम्मिश्रणं नष्टम् अभवत्। परं २/३ बहुमतं प्राप्य भारतीयजनतापक्षः [[गुजरात]]राज्ये सत्तारूढः जातः। तदा आरभ्य गुजरातराज्यस्य शासनसूत्रं [[भारतीयजनतापक्ष]]स्य हस्ते अस्ति।
१९८८ तः १९९५ पर्यन्तं यः कालः अतीतः तस्मिन्नेव काले श्रीनरेन्द्रमोदी वर्यस्य परिचयः कुशलः रणनीतिज्ञः इति रूपेण उद्भूतः। येन च [[गुजरात]]राज्ये [[भारतीयजनतापक्षभारतीयजनतापक्षः]]<nowiki/>ः शासनकर्तृ-पक्षत्वेन सफलतापूर्वकं परिचायितः। अस्मिन्नेव काले अत्यन्तं महत्वपूर्णयोः द्वयोः कार्यक्रमयोः आयोजनस्य उत्तरदायित्वं मोदीमहोदयाय दत्तम्। तत्र प्रथमम् आसीत् श्रीमतः [[लाल कृष्ण आडवाणी]]महाशयस्य [[सोमनाथः|सोमनाथात्]] आरभ्य [[अयोध्या|अयोध्यां]] यावत् आयोजिता रथयात्रा। तद्वदेव [[भारत]]स्य दक्षिणभागात् [[कन्याकुमारी]]त<nowiki/>ःतः [[काश्मीर|कश्मीरं]] यावत् एका यात्रा। १९९८ तमे वर्षे [[देहली|देहल्यां]] शासनं परिवत्र्य [[भारतीयजनतापक्ष]]स्य उदयार्थं श्रेयो यदि देयः तर्हि तदेताभ्यां कार्यक्रमाभ्याम्, यस्य उत्तरदायित्वं मुख्यत्वेन मोदीवर्येण ऊढम्।
१९९५ तमे वर्षे सः पक्षस्य राष्ट्रीयसचिवत्वेन नियुक्तः, तदनन्तरं [[भारत]]स्य पञ्च महत्त्वपूर्णराज्याणां कार्यभारः तस्मै प्रदत्तः। यश्च कस्यचिदपि युवनेतुः कृते एका अपूर्वा अद्वितीया च सिद्धिः अस्ति। १९९८ तमे वर्षे तेन सङ्घटनस्य महासचिवपदे पदोन्नतिः प्राप्ता।
२००१ तमस्य वर्षस्य 'अक्तूबर'-मासात् आरभ्य यदा भारतस्य सर्वाधिकेषु समृद्धेषु प्रगतिशीलेषु राज्येषु एकतमस्य [[गुजरातराज्य]]स्य मुख्यमन्त्रित्वेन चितः जातः, तावत् पर्यन्तं सः महासचिवपदे आसीत्।
"https://sa.wikipedia.org/wiki/नरेन्द्र_मोदी" इत्यस्माद् प्रतिप्राप्तम्