"ऋग्वेदः" इत्यस्य संस्करणे भेदः

पाठ्यं योजितम्
पङ्क्तिः १:
 
{{हिन्दूधर्मः}}
ऋग्वेदः अर्थात् ऋच्यते स्तूयते यया सा ऋक् । तादृशीनामृचां समूह एव ऋग्वेदः । यत्रार्थवशेन पादव्यवस्थाः सा ऋगिति मीमांसकाः । तत्र बहुभिर्भिन्नभिन्नैः ऋषिभिः सुललितैः भावभव्यैः शब्दैर्विभिन्ना देवताः सादरं स्तुताः सन्ति । पाश्चात्यदृशि भाषायाः भावस्य च विचारेण अन्यवेदेभ्यः अतीवप्राचीनः अस्त्ययमृग्वेदः।<ref>p. 126, ''History of British Folklore'', Richard Mercer Dorson, 1999, ISBN 9780415204774</ref> भारतीयदृष्ट्याऽपि ऋग्वेदस्याभ्यहितत्वं पूजनीयता च वर्तते।<ref>वेदनिन्दां देवनिन्दां प्रयत्नेन विवर्जयेत् ।। १६.३८ कूर्मपुराणम्-उत्तरभागः/षोडशो‍ऽध्यायः</ref> तैत्तिरीयसंहितानुसारेण यज्ञस्य यद्विधानं क्रियते, तत्तु शिथिलं भवति किञ्च ऋग्वेदेन विहितानुष्ठानं दृढम्भवति। यथा-
'''ऋग्वेदः''' [[हिन्दूधर्मः|सनातनधर्मस्य]] मूलग्रन्थः। यत्रार्थवशेन पादव्यवस्थाऽस्ति तेषां छन्दोबद्धानां मन्त्राणां नाम ‘ऋक्’ इति वेद्यम् । ऋचां समूह एव ‘ऋग्वेद' इति पदेन व्यवह्रियते । चतुर्मुखब्रह्मणः पूर्वदिङ्मुखान्निस्सृत ऋग्वेदः । एतस्य १०१७ सूक्तानि सन्ति। पण्डितानां मतानुसारं ऋग्वेदस्य कालः ५,००० वर्षेभ्यः प्राक् ।
 
‘'''यद्वै यज्ञस्य साम्ना यजुषा क्रियते शिथिलं तत्, यदृचा तत् दृढमिति ॥'''<nowiki/>'<ref>( तै० सं० ६ ।। ५ ।। १० । ३ )</ref>
ज्ञानार्थकविद्धातोः निष्पन्नः वेदशब्दः । अपौरुषेयं वाक्यं वेदः इति सायणाचार्यः । इष्टानिष्टपरिहारयोः अलौकिकमुपायं यो वेदयति सः वेदः इति भाष्यभूमिकायाम् । वेदः एव श्रुतिः आम्नायः आगमः इत्यादिः श्रूयते । ब्रह्मणः मुखात् निर्गतं वेदं चतुर्धा विभज्य कृष्ण्द्वैपायनः वेदव्यासः सञ्जातः । एवं वेदाः चत्वारः ऋग्-यजु-साम-अथर्वणः इति ॥
 
[[पुरुषसूक्त|पुरुषसूक्ते]]<nowiki/>ऽपि यशोरूपी सहस्रशीर्षापरमेश्वरात् सर्वप्रथमः ऋचामेवाविर्भावोऽभवत् । यथा —
ऋग्वेदस्य ऋचायाः लक्षणं जैमिनीयन्यायसूत्रे एवं प्रतिपादितं यथा – “पादेनार्थेन चोपेता वृत्तवद्धा मन्त्राः । “ एतेषां ऋचाणामुत्पत्तिः विराटयज्ञपुरुषाद् वभुव इति पुरुषसूक्ते उच्यते । यथा –
 
:'''तस्माद् यज्ञात् सर्वहुतः ऋचः सामानि जज्ञिरे ।'''
'''‘तस्माद् यज्ञात् सर्वहुतः ऋचः सामानि यज्ञिरे ॥'''
:'''छन्दांसि जज्ञिरे तस्मात् यजु- स्तस्मादजायत ॥'''
 
ऋग् वेदस्य समयः – योरुपीय विदुषां मतानुसारं ऋग् वेदस्य रचनाकालः ४००० वर्ष पूर्वमासीत् । परन्तु अस्य कृते किमपिप्रमाणम् नैवउपलभ्यते ऋग्वेदस्य ऋचः पारसीयाणां अर्वेस्ता पुस्तकेन सह समानाः भवन्ति । पारसीयानां धर्मग्रन्थेन जण्डावेस्ता नामकेन सह अपि ऋचां समानता वर्त्तते । अतः आर्याणां रचितवेदस्य समतः योरुपीयाणां समसामयिकः इति अनुमीयते ।
'''छन्दांसि यज्ञिरे तस्मात् यजुस्तम्मादजायत ॥''''
 
==ऋग्वेदः==
 
ऋच्यते स्तूयते यया सा ऋक् । तादृशीनामृचां समूह एव ऋग्वेदः । यत्रार्थवशेन पादव्यवस्था सा ऋगिति मीमांसकाः । स ऋग्वेदः सूक्तमण्डलभेदेन द्विधा विभक्तः । तत्र सूक्तं चतुर्विधम्- ऋषिसूक्तदेवतासूक्तच्छन्दः सूक्तहोऽर्थसूक्तभेदात् । एकर्षिदृष्टमन्त्राणां समूहो ऋषिसूक्तम् । एकदेवताकमन्त्राणां समूहो देवतासूक्तम् । समानछन्दसां मन्त्राणां समूहो नामच्छन्दः सूक्तम् । यावदर्थसमाप्तानां मन्त्राणां समूहोऽर्थसूक्तम् । सुष्ठूक्तत्वात्सर्वं सूक्तमित्याख्यायते ।
ऋग्वेदः सोऽयं मण्डलानुवाकवर्गभेदेन अष्टकाध्यायसूक्तभेदेन च द्विधा । बालखिल्यसूक्तानि विहाय सम्पूर्णायामृग्वेदसंहितायां दशमण्डलानि, पञ्चाशीतिश्चानुवाकाः, अष्टोत्तरशतद्वयमिताश्च वर्गाः (इति प्रथमो भेदः) अष्टौ अष्टकानि, चतुष्षाष्टिरध्यायाः, सप्तदशोत्तरसहस्राणि च सूक्तानि (इति द्वितीयो भेदमार्गः) ।
Line २२ ⟶ २१:
 
चतुर्षु वेदेषु प्रथमगणनीयः अयम् ऋग्वेदः । ऋचां भूयस्त्वात् ऋग्वेद इति व्यपदेशः । ऋच्यते स्तूयते अनया इति ऋक् । स्तुतिपरकाणां मन्त्राणां समूह एव अत्र वेदे सामान्यतः दृश्यते । सर्ववेदानामिव अस्यापि संहिता –ब्राह्मण –आरण्यक-उपनिषद्भागाः सन्त्येव । तदधिकृत्य अनन्तरं सूच्यते ॥
 
== ऋग्वेदस्य विभागः==
यद्यपि महाभाष्ये ऋग्वेदस्यैकविंशतिशाखा निर्दिष्टाः परं शाकल-वाष्कल-अश्वलायन-शाङ्ख्यायन-माण्डकायन-नामधेयाः पञ्चशाखा सन्ति मुख्याः ।
 
स ऋग्वेदः सूक्त-मण्डलभेदेन द्विधा विभक्तः । तत्र सूक्तं चतुर्विधम्- ऋषिसूक्त-देवतासूक्त-च्छन्दःसूत-अर्थसूक्तभेदात् । एकर्षिदृष्टमन्त्राणां समूहो ऋषिसूक्तम् । एकदेवताकमन्त्राणां समूहो देवतासूक्तम् । समानछन्दसां मन्त्राणा समूहो नामच्छन्दःसूक्तम् । यावदर्थसमाप्तानां मन्त्राणां समूहोऽर्थसूक्तम् । सुष्ठूक्तत्वात्सर्वं सूक्तमित्याख्यायते ।
 
=== मण्डलानुवाकभेदः ===
ऋग्वेदः सोऽयं मण्डलानुवाकवर्गभेदेन अष्टकाध्यायसूक्तभेदेन च द्विधा । बालखिल्यसूतानि विहाय सम्पूर्णायां ऋग्वेदसंहितायां दशमण्डलानि, पञ्चाशीतिश्चानुवाका, अष्टोत्तरशतमिताश्च वर्गाः (इति प्रथमो भेदः), अष्टौ अष्टकानि, चतुःषष्टिरध्यायाः सप्तदशोत्तरसहस्राणि च सूक्तानि (इति द्वतीयो भेदमार्गः) । तद्यथा-
 
==== १ अष्टाकक्रमः ====
समग्रा ऋक्संहिता अष्टाष्टकेषु विभक्ताऽस्ति । प्रत्यष्टकम् अष्टाऽध्यायाः सन्ति । अनेन रूपेण सम्पूर्णऋग्वेदऋ चतुःषष्ट्याध्यायेषु विभक्तोऽस्ति । प्रत्येकमध्यायस्य अवान्तरविभागानां संज्ञा 'वर्ग' इत्यस्ति। स नवतः अध्ययनसौकर्याय एव विभागोऽयमस्ति । वर्गस्तु ऋचां समुदायस्य संज्ञाऽस्ति । किञ्च वर्गेषु ऋचां संख्याऽनिश्चितैवाऽस्ति । बहुधा पञ्चानां मन्त्राणामेको वर्गो भवति । किञ्चैकमन्त्रादारभ्य नवमन्त्रपर्यन्तस्य वर्गो लभते । सम्पूर्णे ऋग्वेदे वर्गाणां सङ्ख्या षडाधिकसहस्रद्वयमस्ति ।
 
==== २ मण्डल-क्रमः ====
ऋग्वेदस्य द्वितीयोऽयं मण्डलक्रमविभागः ह्यतीवमहत्त्वपूर्णोऽस्ति । ऐतिहासिकदृष्ट्या किंवा वैज्ञानिकदृष्ट्या चाप्यस्य महत्त्वमस्ति । बालखिल्यसूतानि विहाय सम्पूर्णायामृग्वेदसंहितायां दशमण्डलानि, पञ्चाशीतिश्चानुवाकाः, अष्टोत्तरशतद्वयमिताश्च वर्गाः सन्ति । अत्र चानुवाकेषु सूक्तानि, सूक्तेषु मन्त्राश्च सन्ति । [[कात्यायनः|कात्यायनेन]] स्वकीयायां '[[सर्वानुक्रमणी|सर्वानुक्रमण्यां]]' सर्वेषामष्टकानां संख्या निर्धारिता । प्राचीनाः ऋषयस्तु वेदानां विशुद्धये तेषु प्रयुक्तानाम् अक्षराणामपि गणनां कृतवन्तः । मन्त्राश्च सर्वे दशसहस्रचतुःशतसप्तषष्टिमिताः (१०४६७) इति शाकलः, शौनकानुक्रमणी तु दशसहस्रपञ्चाशतशीतिमितान् ( १०५८०) मन्त्रान् आह। अत्र भेदे खिलभेदेन कालभेदेन वा मन्त्रवृद्धिलोपावेव हेतुतयोन्नेयौ भवतः । शब्दसंख्या - १५३८२६, अक्षरसंख्या-- ४३२००० । सर्वेऽपि मन्त्राः चतुर्दशसु छन्दःसु विभक्ता बोध्याः । ऋग्वेदगतमन्त्रद्रष्टारो ऋषयः गृत्समदविश्वामित्रवामदेवात्रिभरद्वाजवशिष्ठादयः सन्ति । मण्डलानुसारेण सूतानां व्यवस्था अस्ति - १९१+४३+६२ +५८+८७+७५+१०४+९२+११४+१९१ । एतेषां सूतानाम् अतिरिक्तानि एकादशसूक्तानि च बालखिल्यनाम्ना ख्यातानि सन्ति । एतेषां 'बालखिल्य’-सूतानां स्थानं तु अष्टममण्डलान्तर्गते एव स्वीक्रियते। अस्मिन्मण्डले प्रमुखसूतानि द्वानवतिस्सन्ति । खिलसूतानां सङ्कलनं कृत्वा तेषां संख्या त्रयोऽधिकशतम्भवति। खिलशब्दस्यार्थों भवति 'परिशिष्टम्' अथवा पश्चात्सङ्कलितमन्त्राः । स्वाध्यायकाले खिलपठनस्य व्यवस्था वर्तते । किञ्चैतेषां खिलमन्त्राणां न कुत्रापि पदपाठः समुपलब्धो भवति, न चाक्षरगणनायामेवैतेषां मन्त्राणां समावेशो भवति । एतेषां यथार्थरूपस्याऽपि बोधो न भवति । एतेषामृग्वेदे स्थानम् अष्टममण्डलस्यान्तराले ऊनपञ्चाशत्सूक्तादारयोनषष्टिः सूक्तपर्यन्तमस्ति । एतेषां मन्त्राणां संख्याऽशीतिरस्ति । अनुवाकानुक्रमण्यानुसारेण एतेषां मन्त्राणां संख्या दशसहस्रपञ्चाशतशीतिरस्ति —
 
'''‘ऋचां दशसहस्राणि ऋचां पञ्चशतानि च ॥'''
 
'''ऋचामशीतिः पादश्च पारणं सम्प्रकीतितम् ॥ ४३ ॥ ( अनुवाकानुक्रमणी )'''
 
ऋचां शब्दानां सङ्ख्या १५३८२६ वर्तते । यथा-
 
'''‘शाकल्यदृष्टेः पदलक्षमेकं सार्धं च वेदे त्रिसहस्रयुक्तम् ॥'''
 
'''शतानि चाष्टौ दशकद्वयं च पदानि षट् चेति हि चर्चितानि ॥' (अनु. ४५)'''
 
तथा शब्दगताक्षराणां संख्या ४३२००० वर्तते । तद्यथा -
 
'''<nowiki/>'स ऋचो व्यौहत् । द्वादशवृहतीसहस्राणि । एतावत्यौ ह्यचौयाः प्रजापतिसृष्टाः' (शत० ब्रा० १०॥४॥२॥२॥२३)॥'''
 
'''<nowiki/>'बृहतीच्छन्दः षट्त्रिंशदक्षराणां भवति। अतः १२००० × ३६=४३२००० भवति चत्वारिंशत्सहस्राणि द्वत्रिंशच्चाक्षरसहस्राणि' (अनु० अन्तिमे भागे) ।'''
 
ऋग्वेदस्य शब्दाक्षरादीनां गणनाप्रसङ्गे यत्र तत्र पार्थक्योऽपि परिदृश्यते । मालावारीयेण [[नारायणभट्टः|नारायणभट्टे]]<nowiki/>न विरचितः ‘सूक्तश्लोकः’ समुपलब्धो भवति । ग्रन्थेऽस्मिन् ऋग्वेदस्य वर्गाणां सूक्तानाश्च संख्या निर्धारिताऽस्ति। वर्गसूक्तादीनां गणनाप्रतिपादकश्लोकस्तथा तद्विवरणञ्च निम्नरूपेणास्ति -
 
'''‘जानन्नपि द्विषमोदं स यज्ञः पातनानरः ॥'''
 
'''रसं भिन्नाय मांसादो नरस्तस्य जलाधिपः ॥’'''
 
नारायणभट्टेन दत्तमृग्वेदस्य विवरणम् -
{| class="wikitable"
|अष्टकानि
|जानन्
|८
|-
|मण्डलानि
|अपि
|१०
|-
|अध्यायाः
|द्विषा
|६४
|-
|अनुवाकाः
|मोदं
|८५
|-
|सूक्तानि
|स यज्ञःपा
|१०१७
|-
|वर्गाः
|तनानरः
|२००६
|-
|ऋचः
|रसं भिन्नाय
|१०४७२
|-
|अर्धर्चः
|मांसादो नरः
|२०८७५
|-
|शब्दाः
|तस्य जलाधिपः
|१५३८१६
|-
|अक्षराणि
|
|३९४२२१
|}
उपरिनिर्दिष्टायां संख्यायां बालखिल्यसूतानां गणना नास्ति, यदि तान्यपि ११ सूक्तानि, ८० ऋचः, १८ वर्गाः, ३०४४ अक्षराणि अपि सङ्कलितो भवेत्तदा, सूतानां संख्या १०२८, वर्गाः २०२४, ऋचः १०५५२ तथा अक्षराणि ३, ९७, २६५ भवेयुरिति।<ref>जर्नल आफ ओरियन्टल रिसर्च खण्ड ८, संख्या ४, १९३४ मद्रासः, तथा ऋग्वेदसंहिता, सं० श्रीपाद दामोदर शातवलेकर औध १९४० ई० पू० सं० ७६७-७६८</ref>
 
== ऋग्वेदीयानाम् ऋचां सङ्ख्या ==
ऋग्वेदे ऋङ्मन्त्राणां गणनाऽप्येका विषमैव समस्या वर्त्तते । अस्याः गनायाः समाधानं प्राचीनैः अर्वाचीनैश्च विद्वद्भिः कृतम् । प्राचीनाचार्याणां गनावैषम्यन्तु शाखाभेदजन्यमेवाऽस्ति, किञ्चार्वाचीनानां गणनावैषम्यं भ्रमगतमेवाऽस्ति । अस्य भ्रमोदयस्य कारणमस्ति - ऋग्वेदे कियत्यः ऋचः एवंविधाः सन्ति या ऋचः अध्ययनकाले चतुष्पदा भवन्ति किञ्च प्रयोगकाले द्विपदा एव मन्यन्ते। ऋक्सर्वानुक्रमण्यामस्योल्लेखो प्राप्यते - '''<nowiki/>'द्विर्द्विपदास्त्वृचः समामनन्ति'<nowiki/>''' अस्य सूत्रस्य व्याख्यायां षड्गुरुशिष्यस्य स्पष्टकथनमस्ति — '''<nowiki/>'ऋचोऽध्ययने तु अध्येतारो द्वे द्वे द्विपदे एकैकामृचं कृत्वा समामनन्ति अधीयरन् । समामनन्तीति वचनात् शंसनादौ न भवन्ति । तेन पश्वान वायुम् ( ऋ० १॥६५ ) इति शंसने दशर्चत्वम् ॥ अासामध्ययने तु पञ्चत्वं भवति ॥''''
 
[[सायणः|सायण]]<nowiki/>भाष्येऽपि अस्योल्लेखो प्राप्यते। चरणव्यूहस्य टीकाकर्त्रा महिमदासेनाऽपि पूर्वोक्तकथनस्य समर्थनं कृतम् । एतादृशः ऋचः 'नैमितिकद्विपदाः' कथ्यन्ते । ऋग्वेदे नित्यद्विपदाऽपि ऋचः सन्ति । ता गणनायां सप्तदशा एव सन्ति । एताः द्विपदाः कदाचिदपि निजस्वरूपात् वञ्चिता न भवन्ति । अस्या एव द्विपदायाः नित्यनैमित्तिकद्विपदाया वास्तविकस्वरूपस्य परिचयाभावात् मैक्समूलर-मैकडोनलप्रभूतीनां अाङ्ग्लवेदज्ञानां गणना भ्रान्ताऽभवत् । [[लौगाक्षिस्मृतिः|लौगाक्षिस्मृत्य]]<nowiki/>नुसारेण समस्तानां शाखासूपलब्धानाम् ऋचां संख्या १०५८० वर्तते । ऋग्वेदस्य संहितायां त्रयाणां छन्दसां प्रचुरता विद्यते । येषु ‘[[त्रिष्टुप्]]'-छन्दसः संख्या सर्वातिशायी वर्त्तते । अस्मिन् छन्दसि चत्वारः पादाः भवन्ति । प्रतिपादे एकादश अक्षराणि भवन्ति । अस्यां संहितायां ४२५१ त्रिष्टुप्छन्दांसि सन्ति । तदनन्तरं [[गायत्रीच्छन्दः|गायत्रीच्छन्द]]<nowiki/>सः स्थानम् आयाति । अस्मिन् छन्दसि त्रयः पादाः भवन्ति । प्रतिपादम् अष्टाक्षराणि भवन्ति । अस्य छन्दसः समस्ता संख्या २४४९ वर्त्तते । तदनन्तरं [[जगतीच्छन्दः|जगतीच्छन्द]]<nowiki/>सः स्थानं भवति । अस्मिन् छन्दसि चत्वारः पादाः भवन्ति । प्रतिपादं द्वादशाक्षराणि सन्ति । अस्य छन्दसः संख्याऽत्र १,३४६ वर्त्तते । शेषभागे [[अनुष्टुप्]] ८५८, पंक्तिः ४९८, उष्णिक् ३९८, बृहती ३७१, वर्त्तन्ते ।
 
== वंशमण्डलम् ==
पाश्चात्यविदुषां मते ऋग्वेदस्य मण्डलेषु प्राचीनार्वाचीनमन्त्राणां समुदायः सङ्कलितोऽस्ति । द्वितीयमण्डलादारभ्य सप्तममण्डलपर्यन्तस्य भागाः ऋग्वेदस्य केन्द्रीयभागाः कथ्यन्ते, अत एव एते अंशाः अत्यन्तं प्राचीनाः सन्ति । एतेषु प्रत्येकं मण्डलस्य सम्बन्धः केनाऽपि ऋषिणा तद्वंशजेन सह वा निश्चितरूपेण समुपलब्धो भवति । द्वितीयमण्डलस्य ऋषिरस्ति [[गृत्समदः]], तृतीयस्य [[विश्वामित्रः]], चतुर्थस्य [[वामदेवः]], पञ्चमस्य [[अत्रिः]], षष्ठस्य [[भरद्वाजः]], सप्तमस्य [[वशिष्ठः]] च। अष्टममण्डलस्य मन्त्राणामृषिः [[कण्वः|कण्व]]<nowiki/>स्तथाङ्गिरसवंशोद्भवाः सन्ति । नवममण्डलेऽखिलाः मन्त्राः सोमदेवताविषयका एव सन्ति । वंशविशेषेण सम्बन्धत्वेन एतानि मण्डलानि आङ्ग्लभाषायां वंशमण्डलं ( Family book) इति कथ्यते! वैदिकार्यगणाः हिमप्रदेशे समुत्पन्ना सोमलतायाः रसं स्वेष्टदेवतां समर्प्य स्वयमपि प्रसादरूपेण ग्रहणं कुर्वन्ति । सोमरसपानेन समुत्पन्नस्य अनेकविधाऽऽनन्दोल्लासस्य ललितवर्णनमनेकानां वैदिकसूक्तानां विषयः अस्ति । सोम एव पवमानोऽपि कथ्यते । अतः सोमविषयकमन्त्राणां समुच्चयेन नवममण्डलं ‘पवमानमण्डलमि’ति पदेनापि व्यवह्रियते । प्रथममण्डलं तथा दशममण्डलमपि अन्येषां मण्डलानामपेक्षयाऽर्वाचीनौ स्तः । उभयोर्मण्डलयोः सूक्तानां समानसंख्यायाः ( १९१ सू० ) किमपि महत्त्वमस्ति । किञ्च भारतीयाः गृत्समद-विश्वामित्र-वामदेव-अत्रि-भरद्वाज-वसिष्ठादयः ऋग्वेदमन्त्रद्रष्टारो ऋषय एव मन्यन्ते । ऋग्वेदस्य दशसु मण्डलेषु नवमं मण्डलं पवमानमण्डलनाम्ना प्रथितम् । तत्र हि केवलं सोमविषयकमन्त्राणां सङ्कलनं कृतम् ।
 
पवमानः - सोमः । पूर्वोक्ताः सप्ताऽपि मन्त्रद्रष्टारो ऋषयो द्वितीयमण्डलतः सप्तममण्डलपर्यन्तगताभिर्ऋग्भिः सम्बद्धाः, दशममण्डले मन्त्राः नानाऋषिसम्बद्धाः। दशमे मण्डले न केवल देवता स्तुतय एव, अन्यप्रकारका अपि मन्त्राः दृश्यन्ते ।
 
द्वितीयमण्डलाद् आरभ्य सप्तममण्डलपर्यन्तस्य ऋग्वेदभागस्य रचना सर्वतः प्राचीना, दशमं मण्डलं सर्वतोऽर्वाचीनम्, शेषाणि मध्यकालिकानीति साम्प्रतिका अाङ्ग्लाऽऽलोचकाः कथयन्ति ।
 
किञ्च भारतीयपारम्परिकानां विदुषां मतमेतद्भिन्नमस्ति । ऋग्वेदस्य दशसु मण्डलेषु चर्चितानामृषीणां विषये कात्यायनस्य इयमुक्तिः द्रष्टव्या - ‘शतर्चिन अाद्ये मण्डलेऽन्त्ये क्षुद्रसूक्तमहासूक्ता मध्यमेषु माध्यमाः' ॥ तेन हि प्रथममण्डलस्य ऋषिः ‘शतर्चिनः' एव कथ्यते । अस्य मण्डलस्य प्रथमः ऋषिः विश्वामित्रस्य पुत्रः [[मधुच्छन्दा]] नाम्ना ऋषिणा दृष्टा ऋचः शताधिकैवासन् । अतः छत्रिन्यायानुसारेण समस्तानां ऋषीणां समानाभिधानं ‘शतर्चिनः' एवाऽभवत् ।
 
'आद्यस्य ऋचेर्ऋक्शतयोगेन छत्रिन्यायेन शतर्चिनः सर्वे । द्व्यधिकेऽपि शतोतिबाहुल्यात्।'<ref>वेदार्थदीपिका पृ०५९</ref> दशममण्डलस्य ऋषिः ‘क्षुद्रसूक्तम्' महासूक्तञ्च कथ्यते । षड्गुरुशिष्यस्य विवेचनानुसारेण नासदासीयसूक्तात् ( १०।१२९ ) पूर्ववर्तीनि सूक्तानि महासूक्तमिति कथ्यन्ते, परवर्तीनि च क्षुद्रसूक्तं मन्यन्ते। सूक्तदर्शित्वेन ऋषीणां नामकरणमपि तदैवाऽभवत् । द्वितीयमण्डलादारभ्य नवममण्डलपर्यन्तं मध्यस्थितत्वेन तत्रत्याः ऋषिगणा अपि ‘माध्यम' इति नाम्ना व्यपदिश्यन्ते ।
 
==ऋग्वेदकालः==
अधुना लोके सर्वत्र उपलभ्यमानेषु सर्वेषु ग्रन्थेषु प्राचीनतमः अयम् ऋग्वेदः सर्वज्ञानस्याधारभूतः भवति । अस्य रचनाकालस्य निर्णये सर्वपण्डितमण्डलेषु भिन्नाभिप्रायो दृश्यते । तथापि अस्माभिः भारतीयैः वेदस्य अपौरुषेयत्वं मन्यमानैः ऋग्वेदस्यास्यापि अनादित्वं प्रकल्पितम् । अत्र मन्त्रद्रष्टार एव ऋषयः न तु कर्तारः ॥
 
वेदस्य अपौरुषेयत्वम् अङ्गीकर्तुमसमर्थैः पाश्चात्यकोविदैः ऋषिप्रणीतः वेदः इति निर्धार्य प्राचीनतमस्य अस्य कालः क्रि.पू.२००० वर्षतः ६००० पर्यन्तं मन्यते । परन्तु लोकमान्यबालगङ्गाधरमहाभागेन वेदवर्णितनक्षत्रविषयकसूचनामवलम्ब्य गणितेन ज्योतिषेण च वेदरचनाकालः क्रि.पू.६००० वर्षतः पूर्वमेवेति निश्चयः कृतः । वेदगतभूगर्भशास्त्रसिध्दान्तमनुसृत्य डा. अविनाशचन्द्रमहोदयेन अनेकलक्षवर्षपूर्वमेव अस्य रचना सम्पन्ना इति प्रख्यापितम् । इत्यम्भूते सति अस्मत्प्राचीनैः यद्वेदस्य अपौरुषेयत्वम् अनादित्वं च कल्पितं तत्स्वीकारे का क्षतिः ? एवमेव वेदरचनाकालवादेन अस्माभिः ज्ञातुं शक्यते वेदेषु प्राचीनस्य ऋग्वेदस्य कालः अपि ॥
वेदस्य अपौरुषेयत्वम् अङ्गीकर्तुमसमर्थैः पाश्चात्यकोविदैः ऋषिप्रणीतः वेदः इति निर्धार्य प्राचीनतमस्य अस्य कालः क्रि.पू.२००० वर्षतः ६००० पर्यन्तं मन्यते । परन्तु लोकमान्यबालगङ्गाधरमहाभागेन वेदवर्णितनक्षत्रविषयकसूचनामवलम्ब्य गणितेन ज्योतिषेण च वेदरचनाकालः क्रि.पू.६००० वर्षतः पूर्वमेवेति निश्चयः कृतः । वेदगतभूगर्भशास्त्रसिध्दान्तमनुसृत्य डा. अविनाशचन्द्रमहोदयेन अनेकलक्षवर्षपूर्वमेव अस्य रचना सम्पन्ना इति प्रख्यापितम् । इत्यम्भूते सति अस्मत्प्राचीनैः यद्वेदस्य अपौरुषेयत्वम् अनादित्वं च कल्पितं तत्स्वीकारे का क्षतिः ? एवमेव वेदरचनाकालवादेन अस्माभिः ज्ञातुं शक्यते वेदेषु प्राचीनस्य ऋग्वेदस्य कालः अपि ॥
 
==ऋग्वेदस्य क्रमीकरणम्==
Line ३७ ⟶ १३३:
[[वेदः|वेदेषु]] आदिमः '''ऋग्वेदः''' हिन्दुधर्मस्य मूलग्रन्थः अस्ति । ऋग्वेदः ४५०० वर्षेभ्यः प्राग् संग्रथित: इति ते मन्यन्ते । अत्र १०२८ सूक्तानि सन्ति । तस्य श्लोकाः विविधादेवानां सम्बद्धा: सन्ति - यथा [[इन्द्रः]], [[अग्निः]], [[वायुः]] इत्यादय: । ऋग्वेदस्य १०५८० मन्त्राः विभाजिता: सन्ति । महामुनि [[वेदव्यासः|व्यासस्य]] निर्देशे पैलः ऋग्वेदस्य संहितानाम् निर्माणम् अकरोत् । यज्ञेषु देवताह्वानेऽयं वेदभाग उपयुज्यते । यज्ञेषु ऋग्वेदमन्त्रपठनकर्ता "होता" इत्युच्यते । [[आयुर्वेदः]] ऋग्वेदस्य [[उपवेदः]] ।
 
==ऋग्वेदस्य शाखाः==
यज्ञस्य आवश्यकताम् अभिलक्ष्य उदात्तदृष्ट्या महामुनिना व्यासेन वेदमध्यापितः। यज्ञे चत्वारो ऋत्विजो भवन्ति - १. होता, २. अध्वर्युः ३. उद्गाता ४. ब्रह्मा। होता - आह्वानकर्ता, स हि यज्ञावसरे प्रक्रान्तदेवतानां प्रशंसायां रचितान् मन्त्रान् उच्चारयन् देवताम् आह्वयति, तत्काययि सङ्कलिताः मन्त्राः स्तुतिरूपतया ऋचः समाख्याताः, तेषां सङ्ग्रह एव ऋग्वेदः । एनम् उद्दिश्यम् अभिलक्ष्य व्यासः पेलमृग्वेदं पाठयामास । अध्वर्युर्विधिवद्यज्ञं सम्पादयति, तत्रावश्यकमन्त्रा यजूंषि, तत्सङ्ग्रहो यजुर्वेदस्तदर्थं वैशम्पायनं यजुः पाठितवान् । उद्गाता-उच्चस्वरेण गानकर्त्ता, स हि स्वरबद्धान् मन्त्रानुच्चैर्गायति, तदपेक्षितमन्त्राणां सङ्ग्रहः सामवेदः । व्यासेन कविजैमिनये सामवेदः अध्यापितः । ब्रह्मा — यज्ञनिरीक्षकः कृताकृतावेक्षणकर्ता, स हि सर्वविधमन्त्रज्ञः, तदपेक्षितो मन्त्रराशिः अथर्ववेद इति कथ्यते । यज्ञनिरीक्षणकार्यसम्पादनाय मुनिना व्यासेन सुमन्तुमुनये अथर्ववेदः पाठितः ।
 
‘'''तत्रर्ग्वेदधरः पैलः सामगो जैमिनिः कविः॥'''
==ऋग्वेदस्य विभागः==
ऋग्वेदस्य विभागः द्विधा क्रियते । यथा –(१) अष्टक क्रमेण, (२) मण्डल क्रमेण च । तत्र अष्टकक्रमानुसारं समग्र ग्रन्थः अष्ट अष्टकेषु विभक्तो भवति । प्रत्येकेषु अष्टकेषु अष्ट अध्यायाः भवन्ति । एवं सम्पूर्णग्रन्थे चतुः षष्ठी अध्याया भवन्ति । प्रत्येकाध्यायानां अवान्तरभेदाः वर्गनाम्ना व्यपदिश्यन्ते । वर्गाणां संख्या २००६ (षडधिकद्विसहस्रं) भवन्ति । मण्डलक्रमानुसारं सम्पूर्णग्रन्थः दश (१०) मण्डलेषु विभक्तः अस्ति । अतः ऋग्वेदः “ द्शतयी” इत्युच्यते । सम्पूर्णऋग्वेदे पञ्चाशीति (८५) अनुवाकाः सप्तदशाधिकैकसहस्रं (१०१७ ) सूक्ताः सन्ति । मण्डलानुसारं क्रमशः एतेषां सूक्तानां व्यवस्था यथा -१९, ४३, ६२, ५८,८७,१०४,९२,११४,१९१-१०१७ । एतेषां सूक्तानां भिन्नमेकादशवालखिल्यसूक्तेषु अशीतिमन्त्राः सन्ति । सम्पूर्णऋग्वेदे सूक्तेषु मन्त्राणां संख्या -१०५८० १/४, ऋक्षु शब्दानां संख्या ४३२००० । यथोच्यते शौनकस्य अनुक्रमणिकायां –
:'''ऋचां दश सहस्राणि, ऋचां पंच शतानि च ।'''
:'''ऋचामशीति पादश्च तत्पारायणमुच्यते ॥'''
 
'''वैशम्पायन एवैको निष्णातो यजुषामुत ॥'''
==ऋग्वेदस्य शाखाः==
 
यज्ञस्य आवश्यकतामनुभूय संकलित संहितानां पठनपाठनस्य अक्षुण्णतार्थञ्च व्यासः स्वशिष्यान् वेदान् अपाठयत् । यथोच्यते –तत्रर्गवेदधरः पैलः सामगो जैमिनिः कविः । वैशम्पायन एकैको निष्णातो यजुषामुत ॥ अथर्वाङ्गिरसामासीत् सुमन्तुर्दारुणो मुनिः । (भागवत- १/४/२१) एते मुनयः पुनः स्वशिष्यान् संहिताः अध्यापयत् । एवं प्रकारेण संहितानां अनेकाः शाखाः समुपजाताः । शाखा चरणशब्देन सह सम्बन्धिताः भवन्ति । मालतिमाधवस्य टीकाकर्त्ता जगद्धरकथनानुसारं चरणशब्दस्य अर्थः यथा –
'''अथर्वाङ्गिरसामासीत् सुमन्तुर्दारुणो मुनिः''' ॥'<ref>(श्रीमद्भागवतपुराणम्/स्कन्धः १/अध्यायः ४)</ref>
:'''चरणशाब्दः शाखाविशेषाध्ययन परैकतापन्नजनसंघवाची ॥'''
 
तत्र महाभाष्यकारानुसारं ऋग्वेदस्य एकविंशति शाखाः सन्ति । तासु पञ्चशाखाः प्रधानाः भवन्ति । यथा -१. शाकलः , २. वाष्कलः, ३. आश्वलायनः , ४. शांखायनः, ५. माण्डुकायनश्च । एताः शाखाः इदानीं महाराष्ट्रदेशे एव उपलभ्यन्ते ।
शाखया सह ‘चरण'-शब्दोऽपि सम्बद्धोऽस्ति । सामान्यतः उभयोः शब्दयोः प्रयोगः प्रायः समानार्थे एव भवति । मालतीमाधवस्य टीकाकर्तुः जगद्धरस्य कथनानुसारेण - 'चरणशब्दः शाखाविशेषाध्ययन-परैकतापन्नजटासंघवाची' इति। आसां शाखानां विस्तृतविवरणं पुराणेषु, चरणव्यूहे च लभते। विविधेषु ग्रन्थेषु शाखासंख्यायां विपर्ययो वर्तते। भाष्यकारेण [[पतञ्जलि]]<nowiki/>नोक्तम्—
 
'चत्वारो वेदाः साङ्गाः सरहस्या बहुधा भिन्नाः॥ एकशतमध्वर्युशाखाः ॥ सहस्रवर्त्मा सामवेदः ॥ एकविंशतिधा वाह्वृच्यम् ॥ नवधाऽर्थवणो वेदः'।<ref>( पस्पशाह्निकः )</ref> यद्यपि महाभाष्ये ऋग्वेदस्य एकविंशतिशाखाः निर्दिष्टाः परं शाकल-वाष्कल-आश्वलायन-शाङ्खायन-माण्डकायननामधेयाः पञ्चशाखाः सन्ति मुख्याः।
 
=== शाकल-शाखा ===
सम्प्रति ऋग्वेदस्य प्रचलिता संहिता शाकलशाखीया एवाऽस्ति । शाकलसंहितान्ते ऋक्परिशिष्टनाम्ना षट्त्रिंशत्सूक्तानि सङ्गृहीतानि सन्ति । एतेषु सूक्तेषु कतिपयानि नितान्तप्रख्यातानि बहुशः चर्चितानि च सूक्तानि सन्ति । यथा— श्रीसूक्तम् ( सू० स० ११ ), रात्रिसूक्तम् ( सू० स० २६ ), मेघासूक्तम् ( सू० स० ३१ ), शिवसङ्कल्पसूक्तम् (सू० स० ३३ ) । अन्तिमस्य शिवसङ्कल्पसूक्तस्य प्रत्येकं मन्त्रस्य चतुर्थचरणः 'तन्मे मनः शिवसङ्कल्पमस्तु इत्येतत्पदेन समाप्तो भवति । वाष्कलशाखानुसारेण संज्ञानसूक्तम् ऋग्वेदस्यान्तिमं सूक्तमस्ति । ऋक्परिशिष्टस्य मन्त्राः पुराणेषु वैदिकमन्त्रदृष्ट्या समुद्धृताः सन्ति । श्रीसूक्तस्य द्वौ मन्त्रौ – 'हिरण्यवर्णां हरिणीम्' तथा 'गन्धद्वारां दुराधर्षाम्' पद्मपुराणे समुद्धृतौ स्तः (६॥१५५॥२८॥३०) 'सितासिते सरिते यत्र सज्ञते' स्कन्दपुराणस्य काशीखण्डे ( ७ ।। ४४ ) तथा पद्मपुराणे (६॥२४६॥३५ ), समुद्धृतोऽस्ति । द्वयोः स्थानयोः मन्त्रोऽयं प्रयागपरकोऽस्ति । प्रयागे सिता=गङ्गा, तथा असिता = यमुना तयोः सङ्गमतीर्थस्य विपुलमहिम्नः प्रतिपादकः मन्त्रोऽयमस्ति । ऋक्परिशिष्टस्य मन्त्राः पुराणेषु प्रमाणाय समुद्धृताः सन्ति, तेन एते मन्त्राः विशेषसम्मान्नार्हाः कथ्यन्ते।
 
=== वाष्कल-शाखा ===
यद्यपि सम्प्रति वाष्कलशाखायाः संहिता समुपलब्धा न भवति, तथाप्यस्याः विशिष्टतायाः वर्णनं विविधेषु स्थलेषु लभते। शाकलशाखानुसारेण ऋग्वेदस्यान्तिमो मन्त्रः ‘समानी व आकूतिः' ( १० । १९१ । ४ ) इति अस्ति, किञ्च वाष्कलसंहितानुसारेण ‘तच्छ्रेयोरावृणीमहे' इत्येव अन्तिमो मन्त्रोऽस्ति । इयं ऋक्, ऋक्परिशिष्टस्य अन्तिमसूक्तस्य अन्तिमो मन्त्रोऽस्ति । अस्मादेव सूक्तात् वाष्कलशाखासम्मत-संहितायाः समाप्तिर्भवति । मन्त्राणां संख्याऽपि कुतश्चिदधिकाऽस्ति । शाकलशाखायां सप्तदशाधिकसहस्रसंख्यकानि (१०१७) सूक्तानि सन्ति । किञ्च वाष्कलशाखायां पञ्चविंशत्यधिकसहस्रसंख्यकानि (१०२५) सूक्तानि सन्ति । एतेषु अधिकाष्टसूक्तेषु एकन्तु संज्ञानसूक्तमस्ति । मन्त्रोऽयमस्याः संहितायाः अन्ते निवेशितोऽस्ति । अवशिष्टसप्तसूक्तानि बाल्यखिल्यसूक्तेभ्यः सङ्गृहीतानि सन्ति । अतोऽस्य मण्डलस्य समस्तसूक्तानां संख्या (९९) नवनवतिर्भवति ।
 
'''<nowiki/>'एतत् सहस्रं दश सप्त चैवाष्टवतो बाष्कलकेऽधिकानि।'''
 
'''तान् पारणे शाकले शैशिरीये वदन्ति शिष्टानखिलेषु विप्राः।''''<ref>'''(अनुवाकानुक्रमणी, श्लो० ३६)'''</ref>
 
=== आश्वलायन-शाखा ===
आश्वलायनसंहितायास्तथा तेषां ब्राह्मणानां कस्मिंश्चित्समये अवश्यमेवासीत् । यतो हि कवीन्द्राचार्यस्य (१७ शताब्द्याः) सूच्यामेतेषां ग्रन्थानां नामोल्लेखः स्पष्टरूपेणोपलब्धो भवति । सम्प्रति अस्याः शाखायाः गृह्यसूत्रं श्रौतसूत्रञ्चेति समुपलब्धे स्तः।
 
=== शाङ्कायन-शाखा ===
अस्याः शाखायाः संहिता तु अनुपलब्धाऽस्ति । किञ्च ब्राह्मणारण्यकौ ग्रन्थौ प्रकाशितौ स्तः। शाङ्कायनस्तथा कौषीतकि-शाखा एकैवाऽस्ति इति मतम् अपि प्रसिद्धम्। किञ्च द्वेऽपि शाखे भिन्ने एव स्तः । शाङ्खायनीयसंहितायाः प्रकाशितशाकलशाखानुयायि ऋक्संहितायाः मन्त्रसंहितायां भेदो नाऽस्ति। केवलं मन्त्राणां एव क्रमे भिन्नता वर्तते।
 
=== माण्डूकायन-शाखा ===
अस्याः अपि शाखायाः ग्रन्थाः अनुपलब्धाः सन्ति । यत्र तत्र समुद्धरणादेव अस्याः अस्तित्वबोधः भवति।<ref>Dr. Gangasagar Rai—"Shakhas of the Rigveda in the Puranas' Puranam' Vol. vi, No I P. P. 235-253.</ref> <ref>वैदिकवाङ्मय का इतिहास-प्र० भा० पृ० ७७-१३२</ref>।
 
== ऋचां पदकाराः ==
"https://sa.wikipedia.org/wiki/ऋग्वेदः" इत्यस्माद् प्रतिप्राप्तम्