"दौलतसिंह कोठारी" इत्यस्य संस्करणे भेदः

परिष्कारः
पङ्क्तिः २६:
== जन्म, परिवारश्च ==
 
१९०६ तमस्य वर्षस्य [[जुलाई]]-मासस्य सप्तमेषष्ठमे (६/७/१९०६) दिनाङ्के [[राजस्थान]]<nowiki/>राज्यस्य [[उदयपुर|उदयपुरे]] दौलतसिंहस्य जन्म अभवत् । तस्मिन् काले उदयपुरं मेवाडराज्यस्य अङ्गभूतम् आसीत् । दौलतसिंहस्य पिता फतेहलाल कोठारी [[शिक्षकः]] आसीत् । तस्य ज्येष्ठः पुत्रः दौलतसिंहः । दौलतसिंहस्य अन्ये त्रयः भ्रातरः, एका भगिनी च आसन् । १९१८ तमे वर्षे अष्टात्रिंशत् (३८) वर्षीयः फतेहलाल-महोदयः दिवङ्गतः । तस्मिन् काले दौलतसिंहः द्वादशवर्षदेशीयः (१२) आसीत् । ज्येष्ठपुत्रे सति पितुः निधनोत्तरं गृहदायित्वं दौलतसिहंस्योपरि आपतितम् । दौलतसिंहस्य माता जैनमतानुयायिनी आसीत् । सा सर्वदा अन्येषां साहाय्यार्थं तत्परा भवति स्म । दौलतसिंहस्य जीवने तस्य मातुः प्रभावः प्रत्यक्षः आसीत् ।
 
डॉ. दौलतसिंहस्य पत्न्याः नाम सुजाता आसीत् । तयोः त्रयः पुत्राः आसन् । तेषां नामानि क्रमेण लक्ष्मणसिंहः, ललितः, प्रतापसिंहश्च । लक्ष्मणसिंहः देहली-विश्वविद्यालये सेवानिवृत्तः प्राध्यापकः ।
"https://sa.wikipedia.org/wiki/दौलतसिंह_कोठारी" इत्यस्माद् प्रतिप्राप्तम्