"ऋग्वेदः" इत्यस्य संस्करणे भेदः

अनाश्यकपाठ्यस्य अपाकरणम्
पङ्क्तिः ९०:
उपरिनिर्दिष्टायां संख्यायां बालखिल्यसूतानां गणना नास्ति, यदि तान्यपि ११ सूक्तानि, ८० ऋचः, १८ वर्गाः, ३०४४ अक्षराणि अपि सङ्कलितो भवेत्तदा, सूतानां संख्या १०२८, वर्गाः २०२४, ऋचः १०५५२ तथा अक्षराणि ३, ९७, २६५ भवेयुरिति।<ref>जर्नल आफ ओरियन्टल रिसर्च खण्ड ८, संख्या ४, १९३४ मद्रासः, तथा ऋग्वेदसंहिता, सं० श्रीपाद दामोदर शातवलेकर औध १९४० ई० पू० सं० ७६७-७६८</ref>
 
==  ऋग्वेदस्य विषयाः ==
== ऋग्वेदीयानाम् ऋचां सङ्ख्या ==
ऋग्वेदो स्तोत्राणामेको महान् विशालो निधिः। तत्र बहुभिर्भिन्नभिन्नैः ऋषिभिः सुललितैः भावभव्यैः शब्दैर्विभिन्नाः देवताः सादरं स्तुताः सन्ति। द्वितीयमण्डलादारभ्य सप्तममण्डलपर्यन्तम् एकैव विशिष्टकुलस्य ऋषीणां प्रार्थना सङ्कलिताऽस्ति। अष्टममण्डलेऽधिकतराः मन्त्राः कण्वऋषिणा सह सम्बद्धाः सन्ति। नवममण्डले पवमानस्य अर्थात्, सोमस्य विषये विभिन्नैः ऋषिकुलैः मन्त्राणां सङ्ग्रहोऽस्ति। ऋग्वेदीयदेवतासु त्रयो देवाः स्ववैशिष्ट्येन नितान्तप्रसिद्धाः सन्ति। यास्को वदति यत्, देवतासु काश्चन पृथिवीस्थानीयाः, काश्चन अन्तरिक्षस्थानीयाः, काश्चन द्युस्थानीयाः सन्ति। पृथिवीस्थानीयदेवतासु [[अग्नि]]<nowiki/>देवता, अन्तरिक्षस्थानीयासु [[इन्द्र]]<nowiki/>देवता, द्युस्थानीयासु [[सूर्य]]<nowiki/>-[[वरुण]]<nowiki/>-प्रभृतिदेवताः सन्ति महीयस्यः।
ऋग्वेदे ऋङ्मन्त्राणां गणनाऽप्येका विषमैव समस्या वर्त्तते । अस्याः गनायाः समाधानं प्राचीनैः अर्वाचीनैश्च विद्वद्भिः कृतम् । प्राचीनाचार्याणां गनावैषम्यन्तु शाखाभेदजन्यमेवाऽस्ति, किञ्चार्वाचीनानां गणनावैषम्यं भ्रमगतमेवाऽस्ति । अस्य भ्रमोदयस्य कारणमस्ति - ऋग्वेदे कियत्यः ऋचः एवंविधाः सन्ति या ऋचः अध्ययनकाले चतुष्पदा भवन्ति किञ्च प्रयोगकाले द्विपदा एव मन्यन्ते। ऋक्सर्वानुक्रमण्यामस्योल्लेखो प्राप्यते - '''<nowiki/>'द्विर्द्विपदास्त्वृचः समामनन्ति'<nowiki/>''' अस्य सूत्रस्य व्याख्यायां षड्गुरुशिष्यस्य स्पष्टकथनमस्ति — '''<nowiki/>'ऋचोऽध्ययने तु अध्येतारो द्वे द्वे द्विपदे एकैकामृचं कृत्वा समामनन्ति अधीयरन् । समामनन्तीति वचनात् शंसनादौ न भवन्ति । तेन पश्वान वायुम् ( ऋ० १॥६५ ) इति शंसने दशर्चत्वम् ॥ अासामध्ययने तु पञ्चत्वं भवति ॥''''
 
'तिस्र एव देवताः इति नैरुक्ताः। अग्निः पृथिवीस्थानः, वायुर्वेन्द्रो वाऽन्तरिक्षस्थानः, सूर्यो द्युस्थानः'।<ref>(नि० ७-५)</ref> अग्नये सर्वाधिकाः ऋचः सन्ति। विजयप्रदातृत्वेनेन्द्रः सर्वाधिकैः ओजस्विभिः तथा वीररसमण्डितैर्मन्त्रैः संस्तुतोऽस्ति। वरुणस्तु कर्मफलदातृत्वेन परमेश्वरस्य विशिष्टरूपेण चित्रितोऽस्ति। सर्वोच्चोदात्तभावनामण्डिता ऋचः वरुणविषये एव समुपलब्धाः भवन्ति। देवीषु उषायाः स्थानमग्रगण्यमस्ति। सर्वाधिककवित्वमण्डिताः, प्रतिभाशालिन्यः, सौन्दर्याभिव्यञ्जकाः ऋचः उषादेव्याः विषये एव समुपलब्धाः भवन्ति। यथा —
 
'''<nowiki/>'अभ्रावेव पुंस एति गर्त्ता रुगिव सनये धनानाम्।'''
 
'''जायेव पत्य उशती सुवासा ह्रस्वेव निरीणीते अप्सः॥''''
 
'''<nowiki/>'कन्येव तन्वा शासदाना एषिदेवि देवभिपक्षमाणम्।'''
 
'''सरमयमाना युवतीपुरस्तादानिर्वशांसि कृणुषे विभाति ॥''''<ref>( ऋ० १ । २३ । १० । )</ref>
 
एतदतिरिक्ताः संस्तुताः देवताः - सविता-पूषा-मित्र-विष्णु-रुद्र-मरुत्-पर्जन्यप्रभृतयः सन्ति।
 
=== दशममण्डलस्य अर्वाचीनत्वम् ===
दशममण्डलं सर्वतोऽर्वाचीनं मण्डलं वर्त्तते। कारणञ्चास्य वंशमण्डलात् भाषागतविभेदं तथा विषयगतविभिन्नता एव।
 
==== भाषागतभेदम् ====
ऋग्वेदस्य प्राचीनतमांशे शब्देषु प्रकारस्य स्थितिर्वर्तते। संस्कृतभाषा यथैव विकसिता भवति, तथैव तस्यां रेफस्य स्थाने लकारस्य प्रयोगो वद्धते। जल-वाचकस्य 'सलिल'-शब्दस्य प्राचीनरूपम् ‘सरिर' इति पदं गोत्रमण्डलेषु प्रयुक्तोऽस्ति। किञ्च दशममण्डले लकारयुक्तशब्दस्यैव प्रयोगो लभते।
 
वैयाकरणस्वरूपेऽपि पार्थक्यं परिलक्ष्यते। प्राचीनांशे आकारान्तपुंल्लिङ्गशब्देषु प्रथमाद्विवचनस्य प्रत्ययः 'आ' इत्येवास्ति। यथा — द्वा सुपर्जा सयुजा सखाया' इति।<ref>( ऋ० वे० १ ।। १६१ )</ref> किञ्च दशममण्डले तस्मिन् स्थाने 'औ' इति प्रत्ययस्यापि प्रयोगो लभते। यथा— 'मा वामेतौ मा परेतौ रिषाम्<ref>ऋ० १० ॥ १७८ ॥ २</ref>, सूर्याचन्द्रमसौ धाता'<ref>१० । १९० । ३</ref>। प्राचीनांशे क्रियार्थकक्रियायाः सूचनार्थं तवै, से, असे, अध्यै प्रभृति-प्रत्ययाः प्रयुक्ताः सन्ति, किञ्च दशममण्डलेऽधिकतरः तुमिति प्रत्ययस्यैव प्रयोगो लभते। ‘कर्त्तवै, 'जीवसे, अवसे' इत्यादिप्राचीनपदानां स्थाने दशममण्डले 'कर्त्तुम्, जीवितुम्, अवितुम्' इत्यादिप्रयोगानां प्राचुर्यं परिलक्ष्यते। भाषागतविशिष्टता ब्राह्मणग्रन्थानां भाषया सह समानत्वेन दशममण्डलम् एतेषां ग्रन्थानां कालक्रमे प्राचीनः प्रतीतो न भवतीति।
 
==== छन्दोगतवैशिष्टयम् ====
प्राचीनांशेषुपलब्धानां छन्दसामपेक्षया दशममण्डलस्य छन्दःसु पार्थक्यमस्ति। प्राचीनकाले वर्णानां संख्यायाः उपरि छन्दोविन्यासे एव विशेषमाग्रहमासीत्। किञ्च दशममण्डले लघु-गुरूणामप्युचितविन्यासेऽपि सर्वत्र विशेषबलं परिदृश्यते। येन पद्यानां पठने सुस्वरस्य लयस्य च विभवोऽतीव रुचिरतया सम्पद्यते। फलतः प्राचीनानुष्टुप् दशममण्डले लौकिकसंस्कृतस्य अनुष्टुप् इवाऽभवत्।
 
==== देवगतवैशिष्टच्यम् ====
ऋग्वेदे हि देवताः प्राणशालित्वात् ‘असुर' इति प्रोक्ताः। अस्मिन् वेदे देवतानां स्थानमतीव महत्त्वपूर्णमस्ति। वैदिककालस्य महर्षयः प्रकृतिदेव्याः नानालीलावधारयितुं विभिन्नाः देवताः अकल्पयन्। किञ्च दशममण्डलेषूल्लिखितेषु देवेषु बहवो नवीनास्तथाऽनिर्दिष्टपूर्वाः देवताः सन्निविष्टाः अभूवन्। दृष्टपूर्वदेवानां स्वरूपेऽपि रूपपरिवर्तनं दृष्टिगतो भवति। वरुणः समस्तजगतां नियन्ता, सर्वज्ञः, सर्वशक्तिमान् देवस्वरूपेण पूर्वे चित्रितोऽस्ति, किञ्चाऽस्मिन् मण्डले तस्य शासनक्षेत्रं सङ्गीर्णं भूत्वा जलमात्रमवशिष्टमस्ति। विश्वनियन्तृपदाद् अपसृत्य जलदेवतास्वरूपेणैव दृग्गोचरो भवति। कतिपयाः मानसिकभावनायाः, मानसिकवृत्याश्च प्रतिनिधिस्वरूपे अभिनवाः देवाः कल्पिताः सन्ति। एतादृक्षु देवेषु ‘श्रद्धा'<ref>(ऋ० १० ।। १५१)</ref>, ‘मनुयु:'<ref>(१° १३ ।। ८४)</ref> प्रभृतयः परिकल्पिताः सन्ति। तार्क्ष्यस्याऽपि स्तुतिः देवतारूपे एवोपलब्धा भवति।<ref>ऋ० १० ।। १७८</ref> कामायनीश्रद्धायाः अतीव रोचकवर्णनं सूक्ते लभते -
 
'''<nowiki/>'श्रद्धयाग्निः समिष्यते श्रद्धया हूयते हविः॥'''
 
'''श्रद्धां भगस्य मूर्धनि वचसा वेदयामसि ॥''''
 
श्रद्धया अग्ने समिन्धनं भवति, अर्थात् ज्ञानाग्नेः प्रज्वलनं श्रद्धया एव भवति। हवेः हवनमपि श्रद्धया एव सम्भवति। ऐश्वरस्य ऊर्ध्वस्थानोपरि निवासाय वयं वचसा श्रद्धायाः स्तुतिं कुर्मः। गोः स्तुतौ प्रयुक्तमेकं समग्रसूक्तं<ref>( १० ॥ १६९)</ref> वैदिकआर्याणां गोविषयिणीभावनां सुष्ठु शब्देनाभिव्यक्तं करोति। अरण्यानी देव्याः स्तुतिः<ref>( १० ।। १४६)</ref> विषयस्य नवीनता हेतुनाऽतीवाकर्षकाऽस्ति।<ref>( १० ।। ७१ )</ref> सूक्तेऽस्मिन् वयं ज्ञानमेकं महनीयदेवरूपे आर्येषु प्रतिष्ठितः प्राप्नुमः। अस्यैव सूक्तस्य प्रख्यातमन्त्रे<ref>( १० ।। ७१ ।। ११ )</ref> यज्ञसम्पादकानां चतुर्णामृत्विजां-होतृ-अध्वर्यु-उद्गातृ-ब्रह्मादीनां स्पष्टसङ्केतोऽस्ति।
 
=== दार्शनिकतथ्यानामाविष्कारः ===
अस्मिन् मण्डलेऽनेकविधानि दार्शनिकसूक्तानि समुपलब्धानि सन्ति। सूक्तान्येतानि स्वविचारधारया आर्याणां तात्त्विकचिन्तनविकासस्य सूचकानि सन्ति। एतानि चोत्तरकालिकानि प्रतीतानि भवन्ति। एवंविधेषु सूक्तेषु नासदीयसूक्तम्<ref>( १० । १२९ )</ref> तथा पुरुषसूक्तं<ref>( १० । ९० )</ref> विशेषरूपेण समुल्लेखनीयमस्ति। पुरुषसूक्ते सर्वेश्वरवादस्य स्पष्टतः उल्लेखो लभते। सूतमिदं प्रौढविचारधारायाः प्रतिपादकत्वेनोत्तरकालिकं तथा अपेक्षाकृतमर्वाचीनं प्रतीतो भवति। पाश्चात्यविदुषां विचारे धार्मिकविचारस्य क्रमः अनेन प्रकारेणास्ति। सर्वप्रथमः बहुदेववादस्तत्पश्चात् एकदेववादस्तत्पश्चात् सर्वेश्वरवादः। प्राचीनकाले अार्याणां विश्वासः बहुदेवसत्तायामासीत्। अग्रे गत्वा स एव विश्वासः हिरण्यगर्भरूपात् परिणतीभूय सर्वेश्वरवादे स्थिरोऽभवत्। अस्य विकासस्यान्तिमे द्वे कोटी दशममण्डले समुपलब्धे स्तः। फलतस्तस्य गोत्रमण्डलादभिनवत्वं स्वाभाविकमेव।
 
ऋग्वेदस्य दशममण्डले दर्शनप्रधानानि नासदीयसूक्त-( १०॥१२९ )पुरुषसूक्त-( १०॥९० )हिरण्यगर्भसूक्त-(१०।१२१) वाक्सूक्तप्रभृतीनि सूक्तानि सन्ति । सूक्तान्येतानि दार्शनिकदृष्टया यथा गम्भीराणि सन्ति, तथैव प्रातिभानुभूतिदृष्ट्याऽतीव रमणीया, अभिनवकल्पनादृष्ट्याऽपि च नितान्तानि प्रसिद्धानि सन्ति । नासदीयसूक्त-विषये विज्ञालोचकानां मतमस्ति, यदीदं सूक्तं ऋग्वेदीयऋषीणामलौकिकं चिन्तनधारायाः मौलिक-परिचायकमस्ति । जगतः प्रारम्भिकस्थित्या वर्णनं कुर्वन्नस्य सूक्तस्य ऋषिः कथयति-- सृष्ट्याः अारम्भकाले न तु असदासीन्नै ‘सत्' एव । न दिनमासीत् नैव निशेति, सृष्ट्याः अभिव्यञ्जकं किमपि चिह्नमपि तदा नासीत् । सर्वप्रथमः कामः समुत्पन्नोऽभवत् । कामः अर्थात् सङ्कल्प एवासीत् । अस्यैव कामस्याभिव्यक्तिः सृष्ट्याः विभिन्नस्तरेषु प्रतिफलितोऽभवत् । तदा एक एव तत्त्वमासीत्, यत् विनावातं श्वासग्रहणमकरोत् तथा निजस्वाभाविकशक्त्या जीवितमासीत् ।
 
'''‘अनीदवातं स्वधया तदेकम् ॥'''
 
'''तस्माद्धान्यन्न परः किञ्चनास ॥'<ref>( ऋ० १०॥१२९॥२ )</ref>'''
 
प्रातिभानुभूत्याः उपरि अद्वैततत्त्वस्य प्रतिष्ठा एवास्य गम्भीरमन्त्रस्य गूढरहस्यमस्ति ।
 
=== विषयस्य नूतनत्वम् ===
मण्डलेऽस्मिन् बहूनि भौतिकविषयसम्बद्धानि अाध्यात्मिकविचारधारया च संवलितानि सूक्तानि सन्ति। भौतिकविषयेषु श्राद्धस्य विवाहस्य च स्थानमग्रगण्यमस्ति। ऋग्वेदस्य १०॥८५ सूक्ते सूर्यायाः पाणिग्रहणप्रसङ्गः अतीवकौतूहलवर्द्धकोऽस्ति। ‘सूर्या' उषायाः अपरपर्यायवाची शब्दोऽस्ति। उषाया विवाहः सोमेन सह भवति। अश्विनो विवाहेऽस्मिन् घटकस्य कार्यं करोति।। सूक्तमिदं साहित्यिकदृष्ट्या अतीव सुन्दरं तथा सामाजिकदृष्टया अत्यन्तरोचकमस्ति। गृह्यसूक्तेऽस्यैव सूक्तस्य मन्त्राणां विनियोगस्तथा प्रयोगो विवाहकाले भवति। अस्मिन् सूक्ते वैवाहिकभौतिकरूपेण सहाध्यात्मिकरूपस्यापि सुष्ठु निरूपणमस्ति। समग्रसूक्तमिदं कोमलभावनया सुसम्पृक्तमस्ति। सुष्ठु दाम्पत्यजीवनाय प्रजासमृद्ध्यर्थञ्चोपेदेशः प्रदत्तः अस्ति। यथा -
 
'''‘इह प्रियं प्रजया ते समृध्यतामस्मिन् गृहे गार्हपत्याय जागृहि ॥'''
 
'''एना पत्या तन्वं सं सृजस्वाधा जिव्री विदथमा वदाथः ॥'<ref>[[s:ऋग्वेद:_सूक्तं_१०.८५|ऋग्वेद: सूक्तं १०.८५]]</ref>'''
 
पतिगृहे समागते सति पत्न्यै माङ्गलिकां सौऱ्यदात्रीं तचथा वीरप्रसविनीं भवितुं भव्यप्रार्थना प्रभवोत्पादिकाऽस्ति -
 
'''अघोरचक्षुरपतिघ्न्येधि शिवा पशुभ्यः सुमनाः सुवर्चाः ।'''
 
'''वीरसूर्देवकामा स्योना शं नो भव द्विपदे शं चतुष्पदे ॥ <ref>१०/८५/४४</ref>'''
 
शवसंस्कारेण सम्बद्धान्यनेकान्यपि सूतानि दशमे मण्डलेऽपि सन्ति। तस्मिन् युगे पृथिव्यां शवस्थापनस्यापि प्रथा प्रायः प्रचलिताऽऽसीत् । यद्यपि सामान्यरीत्या शवदाहसंस्कारस्यैव वर्णनमस्ति । एतेषां मन्त्राणां भावः काव्यदृष्ट्या सरलः, रोचकः अावर्जकश्चास्ति । शवहेतवे धरणीविदीर्णाय शवरक्षकृता प्रार्थनाऽतीव मार्मिकाऽस्ति । अस्य प्रसङ्गस्योपमापि मनोहारिणी वर्त्तते -
 
'''‘माता पुत्रं यथा सिचाऽभ्येनं भूम ऊर्णुहि ॥'''' <ref>'''१० ।। ११ ।।'''</ref>
 
यमलोकं गत्वा पितरम्प्रति शवाय कथनमिदमपि हृदयावर्ज्यमस्ति -
 
‘सङ्गच्छस्व पितृभिः संयमेनेष्टापूर्त्तेन परमेव्योमन् ॥
 
हित्त्वा यावद्यं पुनरस्तमेहि सङ्गच्छस्व तन्वा सुवर्चाः ॥'<ref>(१०/१४/८)</ref>
 
‘द्यूतकरस्य विषादं'-नाम्ना सूक्तमपि<ref>१०।३४</ref> विलक्षणमस्ति । द्यूतक्रीडायां पराजितस्य द्युतकरस्य दयनीया भावनाऽपि द्रष्टव्याऽस्ति
 
'''<nowiki/>'पितामाताभ्रातर एनमाहुर्न जानीमो नयता बद्धमेतत्।''''
 
अन्ते त्रयोदशमन्त्रे उपदेशोऽस्ति—
 
'''‘अक्षैर्मा दीव्यः कृषिमित् कृषस्व वित्ते रमस्व बहुमन्यमानः ॥''''
 
=== दानस्तुतिः ===
ऋग्वेदस्य सूक्तेषु ‘दानस्तुतिः' नाम्नाः कतिपयाः मन्त्राः लभन्ते। [[कात्यायन]]<nowiki/>स्य 'ऋक्सर्वानुक्रमण्यां केवलं द्वाविंशतिः सूक्तेषु दानस्तुतीनाम् उल्लेखो वर्त्तते । किञ्चाधुनिकशोधदृष्ट्या अष्टाषष्टिःसूक्तेषु दानस्तुतीनां वर्णनमस्ति । अस्मिन् विषये 'हिन्दी-साहित्य-सम्मेलन'-प्रयागद्वारा प्रकाशिते ओझा-अभिनन्दनग्रन्थे मणिलालस्य निबन्धः प्रमाणरूपेण स्वीक्रियते। ऋग्वेदस्य ८।३।२१-२४ मन्त्राणां देवता सर्वानुक्रमण्यां पाकस्थामाकौरयाणस्य दानस्तुतिः कथिता । किञ्च निघण्टुनिरुक्तादिग्रन्थानुशीलनेन ज्ञातो भवति यत्, कौरयाणपदस्य यास्केन कृतोऽर्थः कृतयानो भवति । दुर्गाचार्यस्य सम्मतौ अस्मिन् मन्त्रे ‘यान'स्य स्तुतिरस्ति दानस्य नास्ति । शीनकमतेन पाकस्थामाशब्दोऽपि व्यक्तिवाचको नास्ति, अपि तु विशेषणपदमिदमस्ति।<ref>(बृहद्देवता ६ । ४५ )</ref> स्कन्दमाहेश्वरस्य व्याख्यानुसारेण पाकस्थामाशब्दस्यार्थो भवति - महाप्राणः अथवा महाबलवानिति - ‘पाकल्यामालोके स्थामशब्दः प्राणे प्रसिद्धः । पाकः परिपक्वो महान् स्थामा यस्मै स पाकस्थामा महाप्राणश्चेत्यर्थः।<ref>स्कन्दमाहेश्वरस्य व्याख्या</ref>
 
जैमिनिसूत्रस्थ-गुणवादस्य<ref>(मी० सू० १ । २ ।। १०)</ref> शबरभाष्यं भारतीयसिद्धान्तस्य कुञ्जिकाऽस्ति । तस्य स्पष्टकथनमस्ति यत्, समस्तमाख्यानम् इदम् असत्यमस्ति। आख्यानेषु द्वे वार्त्ते स्तः -वृतान्तज्ञानं तथा प्ररोचना । वृत्तान्तज्ञानं विधौ न तु प्रवर्त्तकोऽस्ति न निवत्तंक एव । फलतस्तत्तु प्रयोजनाभावाद् अनपेक्षितमस्ति । प्रीत्याकार्यो प्रवृत्तिर्भवति द्वेषान्निवृत्तिः । अाख्यानेष्वेतावदेवांशस्य विवक्षा वर्त्तते । यथा—
 
'''अस्मद्वृत्तान्तान्वाख्यानं स्तुत्यर्थेन। ...... तत्र वृत्तान्तान्वाख्यानं न प्रवर्तकम्, न निवर्त्तकञ्चेति प्रयोजनाभावात् । अनर्थकमित्यविवक्षितं प्ररोचनया तु प्रवर्त्तते इति द्वेषान्निवर्त्तते इति तयोर्विवक्षा॥''''
 
सामान्यदानस्तुतिप्रतिपादकमेकं भव्यं सूक्तमस्ति । सूक्तेऽस्मिन् दान-महिम्नि ओजस्विवर्णनमेकमस्ति । या व्यक्तिः निजधनं स्वहितायैव नियोजयति, सा हि पापं भक्षयति—
 
'''<nowiki/>'मोघमन्नं विन्दते अप्रचेताः सत्यं ब्रवीमि वध इत् स तस्य ।'''
 
'''नार्यमणं पुष्यति नो सखायं केवलाघो भवति केवलादी ॥'<ref>( तैत्ति० ब्रा० २॥८॥८॥३ एवं निरु० ७ द्रष्टव्यम् । )</ref>'''
 
वस्तुतः नास्त्यसौमित्रमस्ति यः स्वसख्यै जनाय च दानं न ददाति । एवं विधजनाद् दूरगमनमेव श्रेयस्करं भवति । तस्मै जनाय गृहन्न भवति । तं जनं पोषणकर्तुः कस्याप्यपरिचितस्य जनस्यैव शरणं गन्तव्यम् । यथा—
 
'''<nowiki/>'न स सखा यो न ददाति सख्यै स चाभुवे स च मानायषित्वः ।'''
 
'''अपास्मात् प्रेयान् न तदोको अस्ति पृणन्तमन्यमरणं चिदिच्छेत् ॥''''
 
‘केवलाघो भवति केवलादी' अयं हि त्यागमूलकवैदिकसंस्कृतेः महामन्त्रोऽस्ति । अस्यैव तत्त्वस्य वर्णनं स्मृतिग्रन्थेषु पर्याप्तमात्रायां लभते। अस्मिन् सन्दर्भे अक्षरशः अनुवादरूपेण गीतायाः अयं श्लोकः द्रष्टव्यः -
 
‘[[यज्ञशिष्टाशिनः सन्तो...|यज्ञशिष्टाशिनः सन्तो]] मुच्यन्ते सर्वकिल्बिषैः ॥
 
भुञ्जते ते त्वघं पापा ये पचन्त्यात्मकारणात् ॥'<ref>(गीता० ३१३)</ref>
 
=== संवादसूक्तानि ===
ऋग्वेदे दार्शनिकसूक्तानि यथोपनिषदां तात्विकविवेचनैः सह सम्बद्धानि सन्ति, तथैवैतानि प्रबन्धकाव्येन नाटकेनाऽपि च स सम्बन्धं संयोजयन्ति । एवंविधेषु सूक्तेषु कथोपकथनस्य प्राधान्यमस्ति । ऋग्वेदेऽनेकानि कथोपकथनप्रधानानि यमयमीसूक्त-सरमापणिसंवादसूक्तोर्वशीपुरुरवःसंवादसूक्तप्रभृतीनि सूक्तानि सन्ति, यान्याधारीकृत्यैव भारतीयनाटकानि जातानि । दृष्टान्तरूपेण उर्वशीपुरुरवसः संवादमूलं कालिदासीयं [[विक्रमोर्वशीयम्|विक्रमोर्वशीय]]<nowiki/>नाम त्रोटकमुपस्थापयितुं शक्यते। अस्मिन् सन्दर्भे भारतीयाः विद्वांसः नाटकानामुदयं वेदस्थितसूक्तमूलकमेवाहुः । किञ्चास्मिन्विषये पाश्चात्यविद्वत्सु गम्भीरमतभेदो दृश्यते ।
 
जर्मनविद्वान् डाक्टर-श्रोदर-महोदयोऽपि विचारमिममनुमोदयति । स हि संवादसूक्तेष्वेषु गानमामनति । तदिदं गायनं नृत्येनाभिनीयतेस्म, तदिष्यतेऽस्य संवादसूक्तनिवहस्य धार्मिकनाटकरूपता । एतन्मूलैव च भारतीयनाटकप्रवृत्तिः इत्याह ।
 
डॉ० हर्टल-महोदयोऽपि श्रोदर-महोदयस्य विचारमनुमोदयति। अपरे पुनर्विद्वांसो विण्डिश-ओल्डेनवर्ग-पिशेलमुख्या अभिप्रयन्ति यत्, पुरा गद्यपद्यात्मकान्यासन् । पद्यभागोऽतिरोचकतया सम्प्रत्यवशिष्यते । गद्यभागस्तु केवलं वर्णनपरतया लुप्तप्रायतां गतः । नाटके यदधुना गद्यपद्ययोर्मिश्रणं दृश्यते । तदप्येतादृशसंवादसूक्तमूलकमेवेति । एते विद्वांसः ऐतरेयब्राह्मणगतं शुनःशेपोपाख्यानं शतपथब्राह्मणगतमुर्वशी-पुरुरव-उपाख्यानं चात्र साक्षिभावेनोपस्थापयन्ति । अपरे कतिपया विद्वांसः रामलीला कृष्णलीला चात्र निदर्शनभावं भजन्ति । ऋग्वेदस्येतानि समग्रसंवादसूतानि नाटकीयौजस्वितया सह सम्पृक्तानि सन्ति। कलात्मकदृष्ट्याऽपि चैतानि सूतानि नितान्तरमणीयानि, सरसानि प्रभावोत्पादकानि च सन्ति ।
 
=== ऋग्वेदस्थलौकिकसूतानि ===
ऋग्वेदीयदशममण्डलस्य अनेकेषु सूक्तेषु लौकिक-व्यावहारिक-विषयाणाञ्च रोचकं वर्णनमस्ति । इत्थं विषयाः तु अथर्ववेदस्यैव विशिष्टसम्पदः मन्यन्ते । किश्च ऋग्वेदस्य दशममण्डलेऽपि एवंविधलोकसंस्कृत्या सह सम्बद्धविषयाणां समुपलब्धिः अस्य मण्डलस्य विशिष्टतां सूचयति । यक्ष्माख्याव्याधिर्विनाशाय १६१, १६३ तथाऽन्यान्यनेकविधानि च सूक्तानि सन्ति। रक्षोहासूक्ते दानवात् गर्भत्राणार्थः मन्त्रोऽस्ति । एकस्मिन् सूक्ते पत्न्याः कष्टमपहाय पत्युः प्राप्त्युपायस्य विवरणं लभते। यथा —
 
'''‘इमां खनाम्योषधिं वीरुध बलवत्तमम्।'''
 
'''यया सपत्नीं बाधते यया संविन्दते पतिम्॥'<ref>(ऋग्वे० १०।१४५।१)</ref>'''
 
अपरस्मिन् सूक्ते शत्रु-संहाराय प्रार्थना वर्त्तते -
 
'''‘ऋषभ मां समानानां सपत्नानां विषासहितम्।'''
 
'''हन्तारं शत्रूणां कृधिविराजं गोपतिं गवाम् ॥'<ref>(ऋग्वे० १०१६६)</ref>'''
 
अनेन प्रकारेण १०।१६४ सूक्ते दुःस्वप्नविनाशाय प्रार्थनाऽस्ति । १०/५८ सूक्तस्य नाम एव ‘मनः-आवर्त्तनम्' सूक्तमस्ति । वैवस्वत-यम-दिव-भूमि-समुद्रादीनां पार्श्वगतानां जनानां मनसा परावर्त्तनार्थाय प्रार्थनाऽस्ति-
 
'''‘यत् ते यमं वैवस्वतं मनो जगाम दूरकम् ।'''
 
'''तत्त आवर्तयामसीह क्षयाय जीवसे ॥'<ref>(ऋग्वे० १०॥५८)</ref>'''
 
एकस्मिन् सूक्ते अाथर्वण भिषगृषिः औषधीनां भव्यस्तुतिं समुपस्थापयति -
 
'''<nowiki/>'याः फलिनीय अफला अपुष्पा याश्च पुष्पिणीः।'''
 
'''बृहस्पति-प्रसूतास्ता नो मुञ्चत्वं हसः॥'<ref>(ऋग्वे० १०॥९७॥१५)</ref>'''
 
एकस्मात् सूक्तात् ज्ञातो भवति यत्, प्राचीनकालेऽपि प्रजा एव राज्ञः वरणमकुर्वन् । यथा -
 
'''‘अभित्वा देवः सविताभि सोमो अवीवृतत्।'''
 
'''अभित्वा विश्वाभूतान्यभिवर्चो यथाससि।।'''
 
==== श्रद्धासूक्तम् ====
ऋग्वेदस्य दशममण्डले श्रद्धासूक्तमस्ति।<ref>(१०।१५१)</ref> सूक्तेऽस्मिन् श्रद्धायाः स्तुतिः देवतारूपेण । अत्र मन्त्रास्तु षड् एव सन्ति, किञ्च विषयस्य अपूर्वत्वेन स्वल्पकायमपीदं सूक्तं विपूलमहत्त्वस्याभवत्। श्रद्धाशब्दस्य अर्थो भवति - कस्मिंश्चित् कार्यविशेषे अथवा वचनविशेषे स्वान्तःकरणेन आदरातिशयस्य भावना। वस्तुतः श्रद्धया सम्पादितं कार्यमेव लाभदायकं भवति । श्रद्धाविहीनं कर्म कदापि फलदायकं न भवति। ९॥११३२ मन्त्रे ऋत-सत्याभ्यामतिरिक्तस्य श्रद्धया सोम-सवनस्य विधानं दर्शितमस्ति । सोमस्याभिषवः यजमानस्य श्रद्धां प्रकटयति (श्रद्धां वदन् सोमराजन् ९॥११३॥४)। ऋषिभिः कृतस्तोत्रं श्रद्धासमन्वितमनसा इन्द्रेण श्रुतम् (श्रद्धामनस्या शृणुतेदभीतये) । वाक्सूक्ते<ref>(ऋग्० १०॥१४५)</ref> कथितमस्ति - ‘श्रुधि श्रुत श्रद्धिवं ते वदामि' ॥ अत्र ‘श्रद्धिव' इति पदस्य सायणेन कृतमर्थम्- 'श्रद्धाबलेन लभ्यं ब्रह्मात्मकं वस्तु अर्थात् 'बह्म' श्रद्धया ज्ञातो भवति, उपलब्धोऽपि च भवति । अन्येषु मन्त्रेष्वपि ऋषीणां श्रद्धां प्रति अतीव पूज्या भावना वर्त्तते । श्रद्धासूक्ते तु देवतास्वरूपेणैव श्रद्धा चित्रिताऽस्ति । अस्य मन्त्रस्य ऋषिका श्रद्धाऽस्ति, या कामगोत्रजाऽस्ति, तेनैव कारणेन सा 'कामायनी' इति नाम्ना विख्याताऽस्ति ।
 
अस्य सूक्तस्य प्रथममन्त्रे एव स्पष्टीकृतमस्ति यत्, श्रद्धया एवाग्नेः समिन्धनं भवति । श्रद्धया आहवनीयाग्नौ अाहुतिः देया भवति इति। अस्य तात्पर्यमिदमस्ति यत्, यज्ञीयकार्येषु श्रद्धायाः महती अावश्यकता वर्त्तते । अग्निमन्त्रः ज्ञानाग्नेः प्रतीकमपि वक्तुं शक्यते । ज्ञानाग्नेः समिन्धनमपि श्रद्धया एव सम्पादितं भवेत् । विशाला हि श्रद्धायाः व्यापकताऽस्ति । अस्याः उपासना न केवलं मानवाः कुर्वन्ति, अपि तु देवता अपि असुरैः सह युद्धकाले श्रद्धायाः अाश्रयं गृहीत्वा स्वकीयमनोरथं साधयितुं कृतकार्या भवन्ति । अपरस्मिन् मन्त्रे मनोवैज्ञानिकतथ्यस्य रोचकं विश्लेषणं वर्त्तते—
 
'''<nowiki/>'श्रद्धां हृदय्ययाकूत्या श्रद्धया विन्दते वसु ।।'<nowiki/>''' हृदये समुत्पन्नसङ्कल्पेन श्रद्धायाः उपासना भवति । प्रथमस्तु साधकस्य चित्ते सङ्कल्पस्योदयो भवति, तदनन्तरमेवासौ कस्मिंश्चिदपि कार्ये स्वनियोगं करोति । श्रद्धया धनस्य प्राप्तिर्भवति । अत्र ‘वसु' इत्येतत्पदेन भौतिकद्रव्यस्य सङ्केतो न भवति, प्रत्युत अाध्यात्मिककल्याणस्य । अाध्यात्मिकं वसु अस्ति— अज्ञानस्य विनाशं कृत्वा अमरत्वस्य प्राप्तिः । अमरतायाः समुपलब्धेः प्रधानसाधनमियमेव श्रद्धा वर्त्तते । अन्तिमा प्रार्थना- '''‘श्रद्धे श्रद्धापये ह नः ॥'''' [[उपनिषद्|उपनिषत्सु]] श्रद्धातत्त्वस्य यद् विपुलं उपबृंहणमस्ति, तस्य बीजमस्मिन्नेव प्रख्यातसूक्ते एव अस्ति। ऋग्वेदस्य दशममण्डले बहुविधानुशीलनेन ज्ञातो भवति, तदा देवस्य किंवा देवाधिदेवस्य कल्पना दृढमूला भवति। प्रधानदेवोऽयं कुतश्चित् हिरण्यगर्भरूपेण, कुतश्चित् पुरुषरूपेण, क्वाऽपि प्रजापतिनाम्ना ख्यातोऽभवत् । हिरण्यगर्भस्य विषये प्रसिद्धसूक्तमिदमस्ति<ref>( १०।१२१ )</ref>, यस्य अन्तिमचरणमिदमस्ति- ‘कस्मै देवाय हविषा विधेम ॥' अस्य चरणस्य कल्पनायां वेदज्ञानां विभिन्नाः सम्मतयः सन्ति । पाश्चात्यविदुषां मते अस्य सूक्तस्य द्रष्टा ऋषिः वस्तुतः सन्दिग्धचित्तेन पृच्छति - ‘कस्मै देवाय हविषा विधेम ।' इति। प्रारम्भिकयुगस्य मानवानां कौतुकाक्रान्तचित्तस्य दशायां द्योतकमिदं सूक्तं प्रकटयति यत्, केन प्रकारेणादिमयुगस्य जनस्तस्या देवतायाः स्वरूपं ज्ञातुमिच्छति, यस्मै देवाय सः हव्येन होमं करोति । ब्राह्मणग्रन्थेषु तथा तदनुसारिणः निरुक्तादिग्रन्थेषु कः शब्दोऽत्र प्रजापतेः सूचकोऽस्ति । किं शब्दस्तु अनिर्वचनीयतायाः वाऽत्यन्तसौख्यस्य सूचको वर्तते। फलतः नाम्ना रूपेण वानिर्वचनीयाभावेऽपि सुखरूपत्वेन प्रजापतये किं शब्दस्य व्यवहारः नितान्तं युक्तियुक्तोऽस्ति । उपनिषत्स्वपि अनयाऽनिर्वचनीयतयाऽसौ ‘परमतत्त्वम्' ‘नेति नेति’ इति शब्देनाभिव्यक्तं भवति । हिरण्यगर्भः अग्रे सृष्ट्यादौ विद्यमानः आसीत् । असावेव सर्वेषां समुत्पन्नानां प्राणीनां रक्षकः आसीत् । स एव हि समस्तं विश्वं बिभर्ति । जाग्रत्-स्वप्न-सुषुप्तावस्थायामेकम् एवाऽसौ समग्रभूतानां राजा ( शासकः ) अस्ति । नास्त्येतावदेव अपि तु मृत्योरप्युपरि शासनं करोति । अमृतत्त्वं तस्य छाया वर्त्तते ( यस्य छायाऽमृतं यस्य मृत्युः ) । यथा छाया पुरुषस्य अनुसरणं करोति, तथैवा अमृतत्त्वमपि तस्य हिरण्यगर्भस्य अनुसरणं करोति । तस्यैव अध्यक्षतायां समस्तसृष्टेः व्यापारः सञ्चलति । सकलसृष्ट्याः पालनस्य संरक्षणस्य च कार्यं तस्यैवाधीनमस्ति। देवेष्वसौ अद्वितीयदेवोऽस्ति।
 
=== पुरुषसूक्तम् ===
दशममण्डले स्वदार्शनिकविचाराय, निजमहत्वाय, गाम्भीर्याय, अन्तःपर्यवेक्षणाय च पुरुषसूक्तं ( १०।।९० ) नितान्तं विख्यातमन्यतमश्चाऽस्ति । अस्मिन् सूक्ते पुरुषस्याध्यात्मिककल्पनायाः भव्यं निदर्शनमस्ति । पुरुषस्यास्य सहस्राणि शिरांसि, सहस्राणि अक्षीणि, तथैव पादाः च सन्ति । अर्थात् तस्मै पुरुषाय एतेषां शरीरावयवानां कापि इयत्ता नास्ति । अस्य विश्वस्य परिमाणादसावधिकोऽस्ति । विश्वमभितः स्थितस्य परिवेष्टनात् दशाङ्गुलिर्यः अग्रतरोऽस्ति । '''‘अत्यतिष्ठद् दशाङ्गुलम्'''' अत्र दशाङ्गुलं केवलं परिमाणाधिक्यस्य उपलक्षणमात्रमेवास्ति । विश्वस्य समस्तमरणशीलप्राणिनः तस्य पुरुषस्यैकचतुर्थाशमात्रमेव सन्ति । तस्यामृतत्रिपादः अाकाशेऽवस्थितोऽस्ति । सः सर्वेषां शासको वर्त्तते । अस्य पुरुषस्य विषये विलक्षणं तथ्यमिदमेवाऽस्ति—
 
‘पुरुष एवेदं सर्वं यद् भूतं यच्च भव्यम् ॥' ( मन्त्र० २ ) एक एवाऽसौ पुरुषः निखिले विश्वस्मिन् वर्त्तते, यः प्राचीनकाले समुत्पन्नोऽभवत्, यः भविष्येऽपि समुत्पन्नो भविष्यति । सर्वेश्वरवादस्यायं सिद्धान्तः पाश्धात्यपण्डितानां मते आर्याणां प्रौढ-दार्शनिक-विचारधारायाः परिचायकोऽस्ति । सृष्ट्याः समुत्पादने यज्ञस्य कल्पना कीदृशी जागरूका क्रियाशीला चासीद्, तस्याः अपि परिचयः अस्मिन्नेव सूक्ते वर्णितः। देवताः स्वयज्ञे पुरुषबलिं कृतवन्तः । तेन बलिना जगतः प्राणिनां समुत्पत्तिरभवत् । अस्मिन्नेव सूक्ते [[ब्राह्मण]]<nowiki/>-[[क्षत्रिय]]<nowiki/>-[[वैश्य]]<nowiki/>-[[शूद्र|शूद्रा]]<nowiki/>दीनां समुत्पत्तिस्तस्य पुरुषस्य मुखाद्, बाहोः, ऊरोः, पद्भ्यां क्रमशः जाता । ऋग्वेदस्य कस्याप्यन्यस्मिन् मन्त्रे चतुर्णां वर्णानां चर्चा नाऽस्ति, येन प्रतीतो भवति, अस्मिन् समाजे तस्मिन्नेव युगे चतुर्णां वर्णानां कल्पना समुद्भूताः । अनेन प्रकारेण सूक्तमिदं वैदिकार्याणां सामाजिकाध्यात्मिक-धारणायाः परिचायकत्वेन नितान्तं महत्त्वपूर्णमस्ति ।
 
==ऋग्वेदीयानाम् ऋचां सङ्ख्या ==
ऋग्वेदे ऋङ्मन्त्राणां गणनाऽप्येका विषमैव समस्या वर्त्तते । अस्याः गनायाः समाधानं प्राचीनैः अर्वाचीनैश्च विद्वद्भिः कृतम् । प्राचीनाचार्याणां गनावैषम्यन्तु शाखाभेदजन्यमेवाऽस्ति, किञ्चार्वाचीनानां गणनावैषम्यं भ्रमगतमेवाऽस्ति । अस्य भ्रमोदयस्य कारणमस्ति - ऋग्वेदे कियत्यः ऋचः एवंविधाः सन्ति या ऋचः अध्ययनकाले चतुष्पदा भवन्ति किञ्च प्रयोगकाले द्विपदा एव मन्यन्ते। ऋक्सर्वानुक्रमण्यामस्योल्लेखो प्राप्यते - '''<nowiki/>'द्विर्द्विपदास्त्वृचः समामनन्ति'''' अस्य सूत्रस्य व्याख्यायां षड्गुरुशिष्यस्य स्पष्टकथनमस्ति — '''<nowiki/>'ऋचोऽध्ययने तु अध्येतारो द्वे द्वे द्विपदे एकैकामृचं कृत्वा समामनन्ति अधीयरन् । समामनन्तीति वचनात् शंसनादौ न भवन्ति । तेन पश्वान वायुम् ( ऋ० १॥६५ ) इति शंसने दशर्चत्वम् ॥ अासामध्ययने तु पञ्चत्वं भवति ॥''''
 
[[सायणः|सायण]]<nowiki/>भाष्येऽपि अस्योल्लेखो प्राप्यते। चरणव्यूहस्य टीकाकर्त्रा महिमदासेनाऽपि पूर्वोक्तकथनस्य समर्थनं कृतम् । एतादृशः ऋचः 'नैमितिकद्विपदाः' कथ्यन्ते । ऋग्वेदे नित्यद्विपदाऽपि ऋचः सन्ति । ता गणनायां सप्तदशा एव सन्ति । एताः द्विपदाः कदाचिदपि निजस्वरूपात् वञ्चिता न भवन्ति । अस्या एव द्विपदायाः नित्यनैमित्तिकद्विपदाया वास्तविकस्वरूपस्य परिचयाभावात् मैक्समूलर-मैकडोनलप्रभूतीनां अाङ्ग्लवेदज्ञानां गणना भ्रान्ताऽभवत् । [[लौगाक्षिस्मृतिः|लौगाक्षिस्मृत्य]]<nowiki/>नुसारेण समस्तानां शाखासूपलब्धानाम् ऋचां संख्या १०५८० वर्तते । ऋग्वेदस्य संहितायां त्रयाणां छन्दसां प्रचुरता विद्यते । येषु ‘[[त्रिष्टुप्]]'-छन्दसः संख्या सर्वातिशायी वर्त्तते । अस्मिन् छन्दसि चत्वारः पादाः भवन्ति । प्रतिपादे एकादश अक्षराणि भवन्ति । अस्यां संहितायां ४२५१ त्रिष्टुप्छन्दांसि सन्ति । तदनन्तरं [[गायत्रीच्छन्दः|गायत्रीच्छन्द]]<nowiki/>सः स्थानम् आयाति । अस्मिन् छन्दसि त्रयः पादाः भवन्ति । प्रतिपादम् अष्टाक्षराणि भवन्ति । अस्य छन्दसः समस्ता संख्या २४४९ वर्त्तते । तदनन्तरं [[जगतीच्छन्दः|जगतीच्छन्द]]<nowiki/>सः स्थानं भवति । अस्मिन् छन्दसि चत्वारः पादाः भवन्ति । प्रतिपादं द्वादशाक्षराणि सन्ति । अस्य छन्दसः संख्याऽत्र १,३४६ वर्त्तते । शेषभागे [[अनुष्टुप्]] ८५८, पंक्तिः ४९८, उष्णिक् ३९८, बृहती ३७१, वर्त्तन्ते ।
"https://sa.wikipedia.org/wiki/ऋग्वेदः" इत्यस्माद् प्रतिप्राप्तम्