"यजुर्वेदः" इत्यस्य संस्करणे भेदः

{{reflist}}
प्रस्तावना
पङ्क्तिः १:
{{हिन्दूधर्मः}}
'''यजुर्वेदे''' यज्ञयागादिक्रियाकलापानुरोधेन मन्त्राणां सन्निवेशोऽस्ति, अतः स ‘यजुःवेद' इति निगद्यते । यजुः इत्येतत्पदं यज् धातोः उसि प्रत्यये कृते निष्पद्यते । यजूंषि गद्यानि । अध्वर्युणा यज्ञे उपयुज्यमाना मन्त्रा एवात्र यजुर्वेदे सङ्कलिताः, [[यज्ञः|यज्ञस्य]] वास्तविकं विधानमध्वर्युरेव करोति, अतोऽयं यजुर्वेदो यज्ञविधेरतिसन्निकृष्टं सम्बन्धं रक्षति । यजुर्वेदो द्विप्रकारकः - [[कृष्णयजुर्वेदः|कृष्णयजुः]], [[शुक्लयजुर्वेदः|शुक्लयजुश्च]] ।
 
यजुःसंहितायां सर्वविधानामपि यज्ञयागादीनां वर्णनं विद्यते । कृष्णयजुः शुक्लयजुर्भेदेन सा द्विविधा । मन्त्रब्राह्मणयोर्द्वयोरपि यत्र मिश्रीभावः कृतः स कृष्णयजुर्वेद इति नाम्ना, किञ्च यत्र मन्त्राणामेव विशुद्धतया प्रतिष्ठानं कृतं सः शुक्लयजुर्वेद इति नाम्ना विश्रुतः । शुक्लयजुर्वेदस्य द्वे एव शाखे स्तः, ते माध्यन्दिनकाण्वनामभ्यां विदिते स्तः। कृष्णयजुर्वेदस्य सम्प्रति पञ्चाशीतिशाखासु केवलं चतस्रस्तैत्तिरीय-मैत्रायणी-कठकपिष्ठलकठाख्याः शाखाः समुपलभ्यन्ते ।
 
वस्तुतः आाध्वर्यव-कर्मणे उपादेये यजुर्वेदे यजुषां सङ्ग्रहो वर्त्तते । यजुःशब्दस्य व्याख्या आपाततः भिन्नाः प्रतीता भवन्ति, किञ्च तासु एकमेव लक्षणं प्रति सङ्केतो लभते। ‘अनियताक्षरावसानो यजुः’ अर्थात् यत्राक्षराणां संख्या नियता निश्चिता वा नास्ति तद्यजुः । ‘गद्यात्मको यजुस्तथा शेषे यजुः'-शब्दस्य तात्पर्यमिदमेवास्ति यदृक्-सामभ्यां भिन्नं गत्यात्मक-मन्त्राणामभिधानमेव ‘यजुः' वर्त्तते ।
 
== यजुः ==
"https://sa.wikipedia.org/wiki/यजुर्वेदः" इत्यस्माद् प्रतिप्राप्तम्