"यजुर्वेदः" इत्यस्य संस्करणे भेदः

विभागः
पङ्क्तिः १०:
 
== पौराणिककथा ==
[[वेदव्यासः|व्यासो]] [[वैशम्पायनः|वैशम्पायनाय]] [[वेदः|वेदं]] प्रोवाच, स स्वशिष्याय [[याज्ञवल्क्यः|याज्ञवल्क्याय]] । पुराणेषु वैदिकसाहित्येषु च याज्ञवल्क्यवाजसनेयः अतीव प्रौढस्तथा तत्वज्ञ ऋषित्वेन प्रस्थापितौ। अस्यानुकूलसम्मत्याः उल्लेखः शतपथब्राह्मणे तथोपनिषदि लभते।<ref>(बृहदा० उप० अ० ३ एवं ४)</ref> कुतोऽपि कारणाद् रुष्टो वैशम्पायनो याज्ञवल्क्यमुवाच – देहि मदधीतं वेदमिति । याज्ञवल्क्यो गुरुवचनपालनाय ततोऽधीतं वेदं सद्योवान्तवान् । अन्ये वैशम्पायनशिष्याः तित्तिरिरुपं धृत्वा याज्ञवल्क्येन वान्तं वेदं गृहीतवन्तः । स एवायं वान्तगृहीतो वेदः कृष्णयजुर्वेदः ।
 
वैशम्पायने कुपिते ततोऽधीतं वेदं विसृज्य याज्ञवल्क्यः पुनर्वेदाधिगतये [[सूर्यः|सूर्यमाराधयामास]], ततश्च वेदमापततोऽयं वेदः [[शुक्लयजुर्वेद]]<nowiki/>नाम्नाऽप्रथत । अनयोर्वेदयोर्महदन्तरम् । 
"https://sa.wikipedia.org/wiki/यजुर्वेदः" इत्यस्माद् प्रतिप्राप्तम्