"यजुर्वेदः" इत्यस्य संस्करणे भेदः

पङ्क्तिः २०:
 
आर्याणां कुरुषु अधिनिवेशकाले संग्रथितो यजुर्वेद इति अभिप्रायः । यजुर्वेदस्य अध्वरवेद इति नामान्तरमस्ति । यजुषः एकोत्तरशतं शाखाः सन्ति इति पतञ्जलिः प्रपञ्चहृदयकारः च प्रस्तौति । वाजसनेयापरनाम कृष्णयजु‍वेदः गद्यपद्यात्मा । यदीया रचना विश्ववश्या देदीप्यते ।
 
== युजर्वेदस्य विषयाः ==
शुक्लयजुर्वेदस्य मन्त्रसंहिता वाजसनेयीसंहितानाम्ना विख्याताऽस्ति। अस्य चत्वारिंशदध्यायेषु अन्तिमाः पञ्चदशाध्यायाः खिलरूपेण प्रसिद्धेः कारणात् अवान्तरयुगीया मन्यन्ते ।
 
प्रारम्भिकयोर्द्वयोरध्याययोः दर्शपौर्णमासनाम्नेष्टिसम्बद्धमन्त्राणां वर्णनमस्ति । तृतीयाध्याये अग्निहोत्राय चातुर्मास्याय च यज्ञाय उपयोगिनां मन्त्राणां विवरणमस्ति । चतुर्थाध्यायादारभ्य अष्टमाध्यायपर्यन्तं सोमयागानां वर्णनमस्ति । अस्मिन्नध्याये अग्निष्टोमस्य प्रकृतियागत्वेन नितान्तं विस्तृतविवरणमस्ति । अग्निष्टोमे सोमस्योपलखण्डेन कुट्टनं कृत्वा रसक्षरणम् अकारयत् । तेन हि प्रातः, मध्याह्ने सायंकाले चाग्नौ हवनं भवति । अस्यैव ‘सवनमि'त्यभिधानमस्ति। सवनमिदं समयानुसारेण विभिन्ननाम्ना विख्यातमस्ति । दिनमात्रमेव समाप्य सवनम् ‘एकाहः' इति कथ्यते । सोमयागे वाजपेययागः अन्यतमोऽस्ति । राज्ञः अभिषेककाले राजसूययज्ञो भवति । यज्ञेऽस्मिन् द्यूतक्रीडा-अस्त्रक्रीडाप्रभृतयः राजन्योचितविभिन्नक्रियाकलापानां विधानं भवति । नवम एवं दशमाध्याये अनेन यज्ञेनैव सम्बद्धानां मन्त्राणां सङ्कलनमस्ति । तदनन्तरमेकादशाध्यायादारभ्य अष्टादशाध्यायपर्यन्तम् अग्निचयनं भवति । अर्थात् यज्ञीयहोमाग्निहेतवे वेदनिर्माणस्य वर्णनं विस्तरेण कृतमस्ति । वेद्या रचना १०८०० इष्टिकाभ्यो भवति। इष्टिकेयं विशिष्टस्थानादेव समानीता भवति ।
 
वेद्याः अाकृतिः पतत्रप्रसारित पक्षी इव भवति । ब्राह्मणमन्त्रेषु वेद्याः तथा तासाम् इष्टकानाम् आध्यात्मिकरूपस्य व्याख्यानमतीव मार्मिकतया कृतमस्ति । षोडशाध्याये शतरुद्रीयहोमस्य प्रसङ्गः अस्ति । अस्मिन् अध्याये रुद्रस्य कल्पनायाः साङ्गोपाङ्गं विवेचनमस्ति । वैदिकेष्वेव रुद्राध्यायः अतीवोपयोगित्वेन नितान्तं प्रख्यातोऽस्ति । अष्टादशाध्याये वसोर्धारासम्बन्धी मन्त्रः निर्दिष्टोऽस्ति । तदनन्तरं त्रिष्वध्यायेषु (१९-२१ अ० ) सौत्रामणि-यज्ञस्य विधानमस्ति । जनश्रुतिरस्ति यत्, अधिकसोमपानेनेन्द्रः रुग्णोऽभवत् । अस्य रोगस्य चिकित्सा स्वर्वेद्येन कृताऽनेनैव यज्ञेन। राज्यच्युतनृपाय, पशुकाम-यजमानाय, सोमरसानुकूलतया पराङ्मुखजनाय चास्यैव यज्ञस्यानुष्ठानं विहितम् । अस्याः प्रक्रियायाः संक्षिप्तं विवरणम् ऊनविंशत्यध्यायस्य महीधरभाष्यस्य प्रारम्भे समुपलब्धमस्ति । सोत्रामणियज्ञे सोमरसेन सह सुरापानस्याऽपि विधानं वर्त्तते (सौत्रामण्यां सुरां पिबेत्) ।
 
द्वाविंशत्यध्यायादारभ्य पञ्चविंशत्यध्यायपर्यन्तम् अश्वमेधयज्ञस्य विशिष्टमन्त्राणां निर्देशोऽस्ति । अश्वमेधयज्ञस्तु सार्वभौमाधिपत्यस्य अभिलाषी सम्राजे विहितोऽस्ति । अस्य यज्ञस्य साङ्गोपाङ्गवर्णनं [[शतपथब्राह्मण]]<nowiki/>स्य त्रयोदशकाण्डे, [[कात्यायनश्रौतसूत्रम्|कात्यायनश्रौतसूत्र]]<nowiki/>स्य विंशत्यध्याये चास्ति । षड्विंशत्यध्यायादारभ्य ऊनत्रिंशदध्यायपर्यन्तं खिलमन्त्राणां सङ्कलनमस्ति । त्रिंशदध्याये पुरुषमेधस्य वर्णनमस्ति, यस्मिन् चतुरशीत्यधिकशतपदार्थानाम् आलम्भनस्य निर्देशोऽस्ति । आलम्भनः अयं यथार्थतः अालम्भनः न भूत्वा प्रतीकरूपेण उल्लिखितोऽस्ति । भारतवर्षे कदापि पुरुषमेधो नाभवत् । केवलमयं काल्पनिकयज्ञोऽस्ति । अस्मिन् यज्ञे पुरुषस्य नानाप्रतिनिधिभूतवस्तुहेतवे विभिन्नपदार्थेषु दानस्य विधानमासीत् । यथा - नृत्तनिमित्ताय सूतस्य, गीतनिमित्ताय शैलूषस्य, धर्माय समाचारस्य च आलम्भनविधिः अस्ति । अस्मिन्नध्याये तात्कालिकस्य प्रचलितस्य व्यवसायस्य, वृत्तेः, कलाकौशलस्य चाऽपि यत्किञ्चित् परिचयः प्राप्तो भवति । एकत्रिंशदध्याये प्रसिद्धपुरुषसूक्तमस्ति, यस्मिन्नृग्वेदापेक्षया षड्मन्त्राः अधिकाः सन्ति । द्वात्रिंशत् तथा त्रयस्त्रिंशदध्याये सर्वमेधस्य मन्त्रः उल्लिखितोऽस्ति । द्वात्रिंशदध्यायस्य आरम्भे हिरण्यगर्भसूक्तस्य अपि कतिपयमन्त्राः समुद्धृताः सन्ति । चतुस्त्रिंशदध्यायस्य प्रारम्भे षड्मन्त्राणां ‘शिवसङ्कल्पोपनिषद्' ( तन्मे मनः शिवसङ्कल्पमस्तु ) नितान्तोपादेयाऽस्ति ।
 
'''<nowiki/>'सुषारथिरश्वानिव यन्मनुष्यान्'''
 
'''नेनीयतेऽभीशुभिर्वाजिन इव'''
 
'''हृत्प्रतिष्ठं यदजिरं जविष्ठं'''
 
'''तन्मे मनः शिवसङ्कल्पमस्तु ॥''''<ref>(यजुः ३४॥६)</ref>
 
पञ्चत्रिंशदध्याये पितृमेधयज्ञसम्बन्धिमन्त्राणां सङ्कलनमस्ति । षट्त्रिंशदध्यायादारभ्य अष्टात्रिंशदध्यायपर्यन्तं प्रवर्ग्ययागस्य विशदं वर्णनमस्ति । अन्तिमाध्याये [[ईशावास्योपनिषद्|ईशावास्योपनिषद]]<nowiki/>स्ति। [[उपनिषत्|उपनिषत्सु]] [[लघुकाशिकेयमुपनिषद्]] [[आदिमोपनिषद्|आदिमोपनिषद]]<nowiki/>स्ति, यतो हि अन्योपनिषत् संहितायाः भागो नास्ति । उपनिषद्ग्रन्थेषु अस्य ग्रन्थस्य प्राथम्यस्य इदमेव कारणमस्ति । अस्याः संहितायाः अादित्येन सह घनिष्ठसम्बन्धस्यापि सूचनाऽप्यस्याः एव अन्तिममन्त्रेण उल्लिखिता अस्ति —
 
'''‘हिरण्मयेन पात्रेण सत्यस्यापिहितं मुखम्।'''
 
'''योसावादित्ये पुरुषः सोऽसावहम् ॥'<ref>( ईशावा० ४०॥१७ )</ref>'''
 
==यजुर्वेदस्य शाखाः==
"https://sa.wikipedia.org/wiki/यजुर्वेदः" इत्यस्माद् प्रतिप्राप्तम्