"सामवेदः" इत्यस्य संस्करणे भेदः

सन्दर्भः
कालः
पङ्क्तिः ७:
== प्रशंसा ==
'सामानि यो वेति स वेदतत्त्वम्' इत्येतद् बृहद्देवतायाः कथनं तन्महिमानमुच्चैर्गीयते। गीतायां भगवान् कृष्णः अाह- ‘वेदानां सामवेदोऽस्मि' इति। वेदस्यास्य उद्देश्यमस्ति - गानपूर्वकमुपासनम्। साम्प्रतमस्य गरीयसो वेदस्य त्रिस्र एव शाखाः प्राप्यन्ते। ताश्च इमाः - कौथुमीया, राणायणीया, जैमिनीया च। [[ऋग्वेद|ऋग्वेदे]], [[अथर्ववेद|अथर्ववेदे]] चापि सामवेदस्य प्रशंसा अस्ति। एकस्मिन् मन्त्रे स्पष्टोक्तिरियमस्ति - '''<nowiki/>'यो जागार तमृचः कामयन्ते, यो जागार तमु सामानि यन्ति'।'''<ref>(ऋ० वे० ५॥४४॥१४)</ref> अपरस्मिन् मन्त्रे खग-कुल-कलरव-इव सामगायनं मधुरं भवति इति कथितम् — '''<nowiki/>'उद्गातेव शकुने साम गायसि'<nowiki/>'''।<ref>( २॥४३॥२ )</ref> [[अङ्गिरा]]<nowiki/>-ऋषेः सामस्योल्लेखः अनेकशो लभते— '''<nowiki/>'अङ्गिरसां सामभिः स्तूयमानाः''''।<ref>( ऋ० वे० १।१०७।।२ )</ref> अथर्ववेदस्य अनेकस्थलेषु सामवेदस्य न केवलं विशिष्टा स्तुतिरेव अस्ति, अपि तु परमात्मभूतोच्छिष्टात् स्कम्भाच्चास्य सामवेदस्य आविर्भूतस्योल्लेखो लभते। कश्चन ऋषिः पृच्छति — यस्य स्कम्भस्य साम लोमोऽस्ति कतमः सः स्कम्भोऽस्ति? इति।<ref>'सामानि यस्य लोमानि' ....... स्कम्भं तं ब्रूहि कतमः स्विदेव सः ?' (अथर्ववे० १०।। ७॥२०)</ref> अन्यस्मिन् मन्त्रे ऋग्वेदेन सह सामवेदस्याऽपि अाविर्भावः उच्छिष्टादेव प्रदर्शितोऽस्ति – '''<nowiki/>'ऋचः सामानि छन्दांसि.............उच्छिष्टात्तु यज्ञिरे सर्वे'<nowiki/>'''।<ref>(अथ० वे० ११॥७॥२४)</ref> अपरस्मिन् मन्त्रे कर्मणः साधनभूतस्य ऋग्वेदस्य सामवेदस्य च स्तुतेः विधानमस्ति– '''<nowiki/>'ऋचं साम यजामहे यासां कर्माणि कुर्वते''''।<ref>( अ० वे० ७॥५४।१ )</ref>
 
== कालः ==
सामवेदस्य विभिन्नमभिधानं प्राचीनवैदिकसाहित्ये समुपलब्धं भवति, येनास्य सामवेदस्य प्राचीनता असन्दिग्धरूपेण सिद्धा भवति । ऋग्वेदे वैरूप-बृहत्-रैवत-गायत्र-भद्रादीनां साम्नानाम् अभिधानं प्राप्यते। [[यजुर्वेदः|यजुर्वेदे]] रथन्तर-वैराज-वैखानस-वामदेव्य-शाक्वर-रैवत-अभीवर्तिनामुल्लेखो लभते। [[एतरेयब्राह्मणम्|एतरेयब्राह्मणे]] नौधस-रौरय-यौधाजय-अग्निष्टोमीयप्रभूतीनां विशिष्टसाम्नाम् अभिधानस्य निर्देशोऽअस्ति। अनेन सामगायनं प्राचीनकालादेव समायाति इति अनुमीयते। ऋग्वेदस्यापि समये एतेषां विशिष्टगायनानाम् अस्तित्वं प्रतीयते। 
 
== सामवेदस्य व्याख्या ==
 
"https://sa.wikipedia.org/wiki/सामवेदः" इत्यस्माद् प्रतिप्राप्तम्