"सामवेदः" इत्यस्य संस्करणे भेदः

(कालः)
 
== कालः ==
सामवेदस्य विभिन्नमभिधानं प्राचीनवैदिकसाहित्ये समुपलब्धं भवति, येनास्य सामवेदस्य प्राचीनता असन्दिग्धरूपेण सिद्धा भवति ।भवति। ऋग्वेदे वैरूप-बृहत्-रैवत-गायत्र-भद्रादीनां साम्नानाम् अभिधानं प्राप्यते। [[यजुर्वेदः|यजुर्वेदे]] रथन्तर-वैराज-वैखानस-वामदेव्य-शाक्वर-रैवत-अभीवर्तिनामुल्लेखो लभते। [[एतरेयब्राह्मणम्|एतरेयब्राह्मणे]] नौधस-रौरय-यौधाजय-अग्निष्टोमीयप्रभूतीनां विशिष्टसाम्नाम् अभिधानस्य निर्देशोऽअस्ति। अनेन सामगायनं प्राचीनकालादेव समायाति इति अनुमीयते। ऋग्वेदस्यापि समये एतेषां विशिष्टगायनानाम् अस्तित्वं प्रतीयते। 
 
== सामवेदस्य व्याख्या ==
 
साम-सान्त्वेन इति धातोः निष्पन्नं सामपदम्। सा इति ऋक्सूचकतया अम इति गानम्। स्वरादिव्यञ्जकतया च व्याख्यां केचिद् वदन्ति। सामशब्दस्य प्रयोगः द्वयोरर्थयोरेव प्राप्यते। ऋग्मन्त्राणामुपरि गायनमेव वस्तुतः सामशब्दस्य वाच्योऽस्ति। किञ्च ऋग्मन्त्रेभ्योऽपि सामशब्दस्य प्रयोगो लभते। सामसंहितायाः सङ्कलनमुद्गातृ-नामके ऋत्विजे कृतमस्ति। उद्गाता अयं देवतायाः स्तुतिपरकमन्त्रान् एव आवश्यकतानुसारेण विविधस्वरेषु गायति। अतः समस्याधारः ऋग्मन्त्रा एव भवन्ति।<ref>( ऋचि अष्यूवं साम-छा० उ० १॥६॥१ )</ref> ऋक्सामयोः प्रग्राहमिदं पारस्परिकसम्बन्धं सूचयितुम् उभयोर्मध्ये दाम्पत्यभावस्य अपि कल्पना वर्तते अत्र। पतिः सन्तानोत्पादनाय पत्न्याः आह्वाहनं कुर्वन् कथयति- सामरूपोऽहं पतिरस्मि त्वञ्च ऋग्रूपा पत्नी असि। अहमाकाशोऽस्मि त्वञ्च पृथिव्यसि। अतः आगच्छ। आवां मिलित्वा प्रजानाम् उत्पादनं कुर्वः।
साम-सान्त्वेन इति धातोः निष्पन्नं सामपदम्। सा इति ऋक्सूचकतया अम इति गानम्। स्वरादिव्यञ्जकतया च व्याख्यां केचिद् वदन्ति। सामवेदस्य एकसहस्रं शाखा: आसन्। प्रपञ्चहृदयकारस्य काले द्वादशशाखाः विहाय अन्याः नष्टाः इदानीन्तु केवलं तिस्रः शाखाः समुपलभ्यन्ते। सङ्गीतस्य उद्भवः सामगानात् इति विचक्षणा आचक्षते। सामगानेऽपि सप्तस्वराः एव भवन्ति। ते आधुनिकशास्त्रीयसङ्गीतसंविधानात् आरोहावरोहणक्रमे किञ्चिदिव व्यत्यस्ताः दृश्यन्ते। खरहरप्रियारागतुल्याः सामगानस्वराः कुष्ठं (प्रथमं), द्वितीयं, तृतीयं (मध्यमम्), चतुर्थं, मन्द्रं (पञ्चमम्), अतिस्वायं (षष्ठम्), अतिस्वरम् (अन्यं) एते सप्तस्वराः। सामगानालापने गायकैः हस्ताङ्गुलीभिः मुद्राः अभिनीयन्ते एताभ्यः मुद्राभ्यः स्वरस्थानानि मात्राश्च प्रतीयन्ते।
 
'''अमोहमस्मि सा त्वं द्यौरहं पृथिवी त्वम्।'''
[[वेदः|वेदानां]] सामवेदोस्मि इति भगवता गीतायाम् उक्तमस्ति। अयं सामवेदः चतुर्षु वेदेषु प्रमुखं स्थानं वहति।
 
'''मनोहमस्मि वाक्त्वं ताविह सं भवाव प्रजामा जनयावहै।'''<ref>(बृह० उ० ६॥५॥२०; अ० वे० १४॥२॥७ ऐ० ब्रा० ८॥२७ )</ref>
“सामानि यो वेत्ति स वेदतत्त्वम्” इति वचनात् ज्ञायते यत् सामवेदसर्ववेदप्रधानः। गीतायां स्वयं भगवान् श्रीकृष्ण उक्तवान् यत् “ वेदानां सामवेदोऽस्मि” इति। यः जागरणशीलः पुरुषः स एव सामगानं कर्त्तुं समर्थः भवति। यथोक्तं-“यो जागार तम् ऋचः कामयन्ते , यो जागार तमु सामानि यन्ति” इति। साम इत्युक्ते तया सह सम्बन्धः अमो नाम स्वरः यत्र वर्तते तत्साम इति ज्ञायते। सामवेदस्य द्वौभागौ स्तः, अर्चिकः गानं च। आर्चिकोऽपि द्विभागात्मकः ,पूर्वोत्तरभेदाभ्याम्। सामसंहितायाः संकलनमुद्गातुः कृते कृतम्। जैमिनियसूत्रानुसारं गीति एव साम। छान्दोग्योपनिषदि स्वर एव साम इत्युक्तम्। बृहदारण्यकोपनिषदि गानमेव साम इति प्रतिपादितम्। येषां ऋचामुपरि सामगानं क्रियते ता ऋचः “ सामयोनि” इति उच्यन्ते।
 
सामशब्दस्यैका सुष्ठु निरुक्तिः बृहदारण्यकोपनिषदि वर्त्तते— ‘सा च अमश्चेति तत्साम्नः सामत्वम्’।<ref>(बृह० उ०१।३।२२)</ref> 'सा'-शब्दस्यार्थो भवति ‘ऋक्' तथा ‘अम'-शब्दस्य अर्थोऽस्ति गान्धारादयः स्वराः। अतः सामशब्दस्य व्युत्पत्तिलभ्यार्थोऽभवत्– ऋचा सह सम्बद्धस्वरप्रधानगायनम् - ‘तया सह सम्बद्धः अमो नामस्वरः यत्र वर्त्तते तत्साम' इति। यासामृचामुपरि सामगानं भवति ता ऋचः वेदज्ञाः ‘सामयोनिः' नाम्ना जानन्ति। अत्र स्मरणीयमस्ति यदिदं सामसंहितायाः वर्णनमस्ति। इदं तासां सामऋचां सङ्गाहमात्रमेवाऽस्ति अर्थात् सामसंहितायां केवलं सामोपयोगिनां मन्त्राणां सङ्कलनमेवास्ति, तेषां गायनानां नास्ति, यत्सामवेदस्य मुख्यं वाच्यमस्ति।
 
== सामस्य स्वराः ==
साम-सान्त्वेन इति धातोः निष्पन्नं सामपदम्। सा इति ऋक्सूचकतया अम इति गानम्। स्वरादिव्यञ्जकतया च व्याख्यां केचिद् वदन्ति। सामवेदस्य एकसहस्रं शाखा:शाखाः आसन्। प्रपञ्चहृदयकारस्य काले द्वादशशाखाः विहाय अन्याः नष्टाः इदानीन्तु केवलं तिस्रः शाखाः समुपलभ्यन्ते। सङ्गीतस्य उद्भवः सामगानात् इति विचक्षणा आचक्षते। सामगानेऽपि सप्तस्वराः एव भवन्ति। ते आधुनिकशास्त्रीयसङ्गीतसंविधानात् आरोहावरोहणक्रमे किञ्चिदिव व्यत्यस्ताः दृश्यन्ते। खरहरप्रियारागतुल्याः सामगानस्वराः कुष्ठं (प्रथमं), द्वितीयं, तृतीयं (मध्यमम्), चतुर्थं, मन्द्रं (पञ्चमम्), अतिस्वायं (षष्ठम्), अतिस्वरम् (अन्यं) एते सप्तस्वराः। सामगानालापने गायकैः हस्ताङ्गुलीभिः मुद्राः अभिनीयन्ते एताभ्यः मुद्राभ्यः स्वरस्थानानि मात्राश्च प्रतीयन्ते।
 
==सामवेदस्य विभागः==
७५,२१७

सम्पादन

"https://sa.wikipedia.org/wiki/विशेषः:MobileDiff/423454" इत्यस्माद् पुनः प्राप्तिः