"सामवेदः" इत्यस्य संस्करणे भेदः

 
== प्रशंसा ==
'सामानि यो वेति स वेदतत्त्वम्' इत्येतद् बृहद्देवतायाः कथनं तन्महिमानमुच्चैर्गीयते। गीतायां भगवान् कृष्णः अाह- ‘वेदानां सामवेदोऽस्मि' इति। वेदस्यास्य उद्देश्यमस्ति - गानपूर्वकमुपासनम्। साम्प्रतमस्य गरीयसो वेदस्य त्रिस्र एव शाखाः प्राप्यन्ते। ताश्च इमाः - कौथुमीया, राणायणीया, जैमिनीया च। [[ऋग्वेद|ऋग्वेदे]], [[अथर्ववेद|अथर्ववेदे]] चापि सामवेदस्य प्रशंसा अस्ति। एकस्मिन् मन्त्रे स्पष्टोक्तिरियमस्ति - '''<nowiki/>'यो जागार तमृचः कामयन्ते, यो जागार तमु सामानि यन्ति'।'''<ref>(ऋ० वे० ५॥४४॥१४)</ref> अपरस्मिन् मन्त्रे खग-कुल-कलरव-इव सामगायनं मधुरं भवति इति कथितम् — '''<nowiki/>'उद्गातेव शकुने साम गायसि'<nowiki/>'''।<ref>( २॥४३॥२ )</ref> [[अङ्गिरा]]<nowiki/>-ऋषेः सामस्योल्लेखः अनेकशो लभते— '''<nowiki/>'अङ्गिरसां सामभिः स्तूयमानाः''''।<ref>( ऋ० वे० १।१०७।।२ )</ref> अथर्ववेदस्य अनेकस्थलेषु सामवेदस्य न केवलं विशिष्टा स्तुतिरेव अस्ति, अपि तु परमात्मभूतोच्छिष्टात् स्कम्भाच्चास्य सामवेदस्य आविर्भूतस्योल्लेखो लभते। कश्चन ऋषिः पृच्छति — यस्य स्कम्भस्य साम लोमोऽस्ति कतमः सः स्कम्भोऽस्ति? इति।<ref>'सामानि यस्य लोमानि' ....... स्कम्भं तं ब्रूहि कतमः स्विदेव सः ?' (अथर्ववे० १०।। ७॥२०)</ref> अन्यस्मिन् मन्त्रे ऋग्वेदेन सह सामवेदस्याऽपि अाविर्भावः उच्छिष्टादेव प्रदर्शितोऽस्ति – '''<nowiki/>'ऋचः सामानि छन्दांसि.............उच्छिष्टात्तु यज्ञिरे सर्वे'<nowiki/>'''।<ref>(अथ० वे० ११॥७॥२४)</ref> अपरस्मिन् मन्त्रे कर्मणः साधनभूतस्य ऋग्वेदस्य सामवेदस्य च स्तुतेः विधानमस्ति– '''<nowiki/>'ऋचं साम यजामहे यासां कर्माणि कुर्वते''''।<ref>( अ० वे० ७॥५४।१ )</ref>
 
== कालः ==
सामशब्दस्यैका सुष्ठु निरुक्तिः बृहदारण्यकोपनिषदि वर्त्तते— ‘सा च अमश्चेति तत्साम्नः सामत्वम्’।<ref>(बृह० उ०१।३।२२)</ref> 'सा'-शब्दस्यार्थो भवति ‘ऋक्' तथा ‘अम'-शब्दस्य अर्थोऽस्ति गान्धारादयः स्वराः। अतः सामशब्दस्य व्युत्पत्तिलभ्यार्थोऽभवत्– ऋचा सह सम्बद्धस्वरप्रधानगायनम् - ‘तया सह सम्बद्धः अमो नामस्वरः यत्र वर्त्तते तत्साम' इति। यासामृचामुपरि सामगानं भवति ता ऋचः वेदज्ञाः ‘सामयोनिः' नाम्ना जानन्ति। अत्र स्मरणीयमस्ति यदिदं सामसंहितायाः वर्णनमस्ति। इदं तासां सामऋचां सङ्गाहमात्रमेवाऽस्ति अर्थात् सामसंहितायां केवलं सामोपयोगिनां मन्त्राणां सङ्कलनमेवास्ति, तेषां गायनानां नास्ति, यत्सामवेदस्य मुख्यं वाच्यमस्ति।
 
==विषयाः==
== सामस्य स्वराः ==
सामवेदस्य द्वौ प्रधानौ भागौ स्तः — आर्चिकः, गानञ्च । आर्चिकस्य शाब्दिकार्थोऽस्ति – ऋक्-समूहः । सोऽपि द्विधा विभज्यते —पूर्वार्चिकमुत्तराचिकञ्चेति । पूर्वाचिकमेव छन्दः, छन्दसी, छन्दसिका चेति त्रिभिरपि नामभिरभिधीयते । विषयानुसारं पूर्वाचिकं चतुर्षु भागेषु विभज्यते - आग्नेयपर्व (अग्निसम्बन्धिनीभिर्ऋग्भिरुपेतम् ), ऐन्द्रपर्व ( इन्द्रसम्बन्धिनीभिऋग्भिर्युतम् ), पवमानपर्व (सोमविषयकम्), आरण्यकञ्चेति । पूर्वार्चिके षट् प्रपाठकाः अथवा अध्यायाः सन्ति । प्रतिप्रपाठकं द्वौ अर्द्धौ वा खण्डौ स्तस्तथा प्रतिखण्डं एकदशतिः प्रतिदशत्यां ऋचः सन्ति । प्रथमाध्यायादारभ्य पञ्चमाध्यायपर्यन्तस्य ऋचस्तु ‘सामगान' नाम्ना ख्याताः सन्ति, किञ्च षष्ठाध्यायस्य ऋचः अरण्ये एव गीयन्ते। अतोऽत्रासां ऋचाम् एकत्र सङ्ग्रहोऽस्ति । अस्यान्ते परिशिष्टरूपेण 'महानाम्नी' इत्याख्याः दशऋचः सन्ति । अनेन प्रकारेण पूर्वार्चिके मन्त्राणां संख्या पञ्चाशदधिकषट्शतं (६५०) अस्ति।
सामवेदस्य एकसहस्रं शाखाः आसन्। प्रपञ्चहृदयकारस्य काले द्वादशशाखाः विहाय अन्याः नष्टाः इदानीन्तु केवलं तिस्रः शाखाः समुपलभ्यन्ते। सङ्गीतस्य उद्भवः सामगानात् इति विचक्षणा आचक्षते। सामगानेऽपि सप्तस्वराः एव भवन्ति। ते आधुनिकशास्त्रीयसङ्गीतसंविधानात् आरोहावरोहणक्रमे किञ्चिदिव व्यत्यस्ताः दृश्यन्ते। खरहरप्रियारागतुल्याः सामगानस्वराः कुष्ठं (प्रथमं), द्वितीयं, तृतीयं (मध्यमम्), चतुर्थं, मन्द्रं (पञ्चमम्), अतिस्वायं (षष्ठम्), अतिस्वरम् (अन्यं) एते सप्तस्वराः। सामगानालापने गायकैः हस्ताङ्गुलीभिः मुद्राः अभिनीयन्ते एताभ्यः मुद्राभ्यः स्वरस्थानानि मात्राश्च प्रतीयन्ते।
 
उत्तरार्चिकं तु अनुष्ठाननिर्देशकम्। तस्य बहवो विभागाः - दशरात्रं, संवत्सरम्, ऐकाहम्, अहीनं, सत्रं, प्रायश्चित्तं, क्षुगद्रञ्चेति प्रमुखास्तत्र भेदाः सन्ति। अस्मिन्नुत्तरार्चिके नवप्रपाठकाः सन्ति। प्रथमपञ्चप्रपाठकेषु द्वौ द्वौ भागौ स्तः, यौ प्रपाठकाद्धनाम्ना ख्यातौ स्तः, किञ्च अन्तिमचतुर्षु प्रपाठकेषु त्रयस्त्रयोऽर्द्धाः सन्ति। राणायणीयशाखानुसारम् अयमस्ति भेदः। उत्तरार्चिकस्य समग्रमन्त्राणां सङ्ख्या (१२२५) पञ्चविंशत्यधिकद्वादशशतमस्ति। अतरुभयोरार्चिकयोः सम्मिलितानां मन्त्राणां सङ्ख्या (१८७५) पञ्चसप्तत्यधिकाष्टादशशतमस्ति।
==सामवेदस्य विभागः==
 
ऋक्-सामयोः सम्बन्धस्य मीमांसा
सामवेदो द्विधा विभज्यते –पूर्वर्चिकम्, उत्तरार्चिकं च। पूर्वार्चिकमेव छन्दः, छ्न्दसी, छन्दसिका चेति त्रिभिरपि नामभिरभिधीयते। विषयानुसारं पूर्वर्चिकं चतुर्षु भागेषु विभज्यते – आग्नेयपर्व (अग्निसम्बधिनीभिः ऋग्भिरुपेतम्), ऎन्द्रपर्व ( इन्द्रसम्बन्धिनीभिः ऋग्भिर्युतम् ), पवमानपर्व (सोमविषयकम्), आरण्यकपर्व च।
 
सामवेदस्य गानप्रचुरता प्रथिता, ऋच एव गीयन्ते, सामवेदे १८७५ मन्त्राः सन्ति, तेषु ७५ मन्त्राः ईदृशाः ये ऋग्वेदे न प्राप्यन्ते, शेषाः सर्वेऽप्युभयवेदसाधारणाः । सामवेदागतमन्त्राणां ससस्वराः, यतस्ते गीयन्ते, ऋग्वेदे पुनस्तेषामेव मन्त्राणां त्रय एव स्वराः, मुख्यत एतावान् एव उभयवेदसाधारणानां साममन्त्राणामृग्वेदमन्त्रेभ्यो भेदोऽस्ति ।
उत्तरार्चिकन्तु अनुष्ठाननिर्देशकम्। तस्य बहवो विभागाः- दशरात्रम्, संवत्सरम्, ऎकाहम्, अहीनम्, सत्रम्, प्रायश्चित्तम्, क्षुद्रञ्चेति प्रमुखास्तत्र भेदाः।
 
सामवेदस्य ऋक्षु ऋग्वेदस्य ऋग्भिः अधिकतरम् आंशिकसाम्यमेवाऽस्ति । ऋग्वेदस्य- 'अग्ने युक्ष्वा हि ये तवाश्वासो देवसाधवः अरं वहन्ति मन्यवे'<ref>( ६॥१६॥४३ )</ref>, सामवेदे - 'अग्ने युक्ष्वा हि ये तवाश्वासो देवसाधवः । अरं वहन्त्याशवः' अनेन रूपेण पठितोऽस्ति । ऋग्वेदस्य मन्त्रांशः 'अपोमहि व्ययति चक्षसे तमोज्योतिष्कृणोति सूनरी'<ref>( ७॥८१॥१ )</ref>, सामवेदे- 'अपोमहि वृणुते चक्षुषा तमो ज्योतिष् कृणोति सूनरी' इत्यनेन रूपेण मिलति । अस्यांशिकसाम्यस्य तथा मन्त्रेषु पादव्यत्ययस्य अनेकान्युदाहरणानि सन्ति सामवेदे । यदि एताः ऋचः ऋग्वेदादेव सङ्गृहीताः भवेयुस्तर्हि ताः तस्मिन्नेव रूपे तथा तस्मिन्नेव क्रमे सङ्गृहीता भवन्ति ।
सामवेदस्य आर्चिकद्वयं वर्तते,पूर्वार्चिकमुत्तरार्चिकं च। पूर्वार्चिके षट्प्रपाठकाः सन्ति प्रत्येकेस्मिन् प्रपाठके द्वौ खण्डौ स्तः। प्रत्येकखण्डे एका दशतिः प्रतिदशतौ च दशसंख्यकात् न्यूनानि ऊर्ध्वाणि वा मन्त्राणि सन्ति। प्रथमप्रपाठक आग्नेयकाण्डः, द्वितीयाध्यायतः चतुर्थाध्यायं यावत् ऎन्द्रपर्व, पञ्चमोऽध्यायः पवमानपर्व, षष्ठप्रपाठक आरण्यकपर्व इत्युच्यते। प्रथमाध्यायतः पञ्चमाध्यायं यावत् ऋचः ग्रामगान इत्युच्यन्ते। पूर्वार्चिकेऽस्मिन् ६५० मन्त्राः विद्यन्ते। उत्तरार्चिके नवप्रपाठकाः सन्ति। प्रथमपञ्चप्रपाठकानां द्वौ द्वौ भागौ स्तः। अवशिष्टचतुर्णां प्रपाठकानां त्रयः त्रयः भागाः सन्ति। उत्तरार्चिके मन्त्राणां संख्या १२२५। ऋग्वेदस्य १५०४ मन्त्राः सामवेदे उद्धृता सन्ति।
 
यद्येता ऋचः गायनार्थमेव सामवेदे सङ्गृहीताः सन्ति, तर्हि केवलं तावदेव मन्त्राणामृग्वेदात् सङ्कलनं कर्त्तव्यमासीत् यावद् गातुं वा सामाय अपेक्षितो भवेयुरिति । प्रत्युत अत्र सामसंहितायां विपरीतमस्य प्रायः (४५०) पञ्चाशदधिकचतुःशतमन्त्रा ईदृशाः सन्ति, येषामुपरि गानस्य काऽपि व्यवस्था नास्ति। ईदृशां गानानपेक्षितमन्त्राणां सङ्कलनं सामसंहितायां कथं कृतमिति?
 
यदि सामसंहितायाः मन्त्राः ऋग्वेदादेव सङ्गृहीताश्चेत्, तेषां रूपमेव नास्ति प्रत्युत तेषां स्वरनिर्देशोऽपि तद्वदेव भवितव्यम् । ऋग्वेदे उदात्तानुदात्तस्वरिताः स्वराः सन्ति, किञ्च सामवेदे तेषां निर्देशः १, २ तथा ३ अङ्कैः कृतः । नारदीयशिक्षानुसारेणैते स्वराः क्रमशः मध्यम-गान्धार-ऋषभ-स्वराः मन्यन्ते। एते स्वराः अङ्गुष्ठ-तर्जनी-मध्यमाख्यानाम् अङ्गुलीनां मध्यमपर्वोपरि अङ्गुष्ठस्य स्पशं कुर्वन् प्रदर्श्यन्ते । साममन्त्राणाम् उच्चारणम् ऋग्मन्त्राणाम् उच्चारणान्नितान्तं भिन्नं भवति ।
 
यदि सामवेदः ऋग्वेदादनन्तरस्य रचना, तर्हि तदा ऋग्वेदस्यानेकेषु स्थलेषु सामवेदस्योल्लेखः कथं लभते? ‘अङ्गिरसां सामभिः स्तूयमानाः'<ref>( ऋ० १ · १०६॥२)</ref>, ‘उद्गातेव शकुने साम गायति'<ref>(२॥४३॥२)</ref>, ‘इन्द्राय सामगायत विप्राय बृहते बृहत्'<ref>(८॥९८१)</ref> इत्यादिषु मन्त्रेषु सामान्यसाम्नोऽपि उल्लेखो नास्ति, प्रत्युत ‘बृहत्साम' इव विशिष्टसाम्नोऽपि उल्लेखो वर्तते। [[ऐतरेयब्राह्मण]]<nowiki/>स्य स्पष्टकथनमस्ति यत्, सृष्ट्याः आरम्भे ऋक् साम्नोरस्तित्वमासीदिति।<ref>(ऋक् च वा इदमग्रे सामञ्चात्ताम् ( २॥२३ ))</ref> नैतावदेव, यज्ञसम्पादनाय अध्वर्युस्तथा ब्रह्मानामकस्य ऋत्विजा सह उद्गातुरपि सत्ता सर्वथा मान्याऽस्ति । एतेषां चतुर्णामृत्विजां समुपस्थितावेव यशसम्पत्तेः सिद्धिर्भवेत् । उद्गातुः कार्यं तु सामगानमेवाऽस्ति । तर्हि साम्न अर्वाचीनता कथं विश्वसनीया भवेत् ? मनुना लिखितं यत्, यज्ञसिद्धये वह्नेः, वायोः तथा सूर्यात् क्रमशः ऋक्, यजुस्तथा। सामवेदानां दोहनं कृतम्।<ref>( मनु० १॥२३ )</ref> '''<nowiki/>'त्रयं ब्रह्म सनातनम्'''' इति कथने वेदाय प्रयुक्तं सनातनविशेषणपदं वेदानां नित्यतां तथा अनादितां प्रकटयति । दोहनशब्दादपि अस्यैव तथ्यस्य सम्पुष्टिर्भवेत् ।
 
==सामवेदस्य विभागः==नामकरणम्
 
विशिष्टानां ऋषीणां नाम्ना सामवेदस्य नाम सम्बद्धं, तर्हि किं ते ऋषयस्तेषां साम्नां कत्तरिः न सन्ति ? अस्योत्तरमस्ति यत्, येन साम्ना सर्वप्रथमं यमृषिं स्वेष्टस्य प्राप्तिरभवत्, तस्य साम्नः असौ ऋषिः कथितः । ताण्ड्यब्राह्मणेऽस्य तथ्यस्य द्योतकः स्पष्टप्रमाणं प्राप्यते। 'वृषाशोणो अभिकनिष्क्रदत्'।<ref>( ऋ० ९॥९७॥१३ )</ref> ऋचः वसिष्ठनामकरणस्य इदमेव कारणमस्ति । वीडुपुत्रवसिष्ठः अनेन साम्ना स्तुतिं कृत्वा अनायासेन स्वर्गं प्राप्तवान् - ‘वासिष्ठं भवति, वशिष्ठो वा एतेन वैडवः स्तुत्वाञ्जसा स्वर्गं लोकमपश्यत् ।'<ref>( ताण्डयब्राह्म० ११॥८॥१३ )</ref>, ‘तं वोदस्ममृतीषहं'<ref>( ९॥८८॥१ )</ref> मन्त्रोपरि ‘नौधससाम्नो नामकरणस्य एवंविधेव कारणमन्यत्र कथितम्।<ref>( ताण्डय० ७॥१०॥१० )</ref> फलतः इष्टसिद्धिनिमित्तकत्वेन साम्नाम् ऋषिपरकं नाम भवति, रचनाहेतुत्वेन तु तन्नास्ति ।
 
== सामस्य स्वराः ==
सामवेदस्य एकसहस्रं शाखाः आसन्। प्रपञ्चहृदयकारस्य काले द्वादशशाखाः विहाय अन्याः नष्टाः इदानीन्तु केवलं तिस्रः शाखाः समुपलभ्यन्ते। सङ्गीतस्य उद्भवः सामगानात् इति विचक्षणा आचक्षते। सामगानेऽपि सप्तस्वराः एव भवन्ति। ते आधुनिकशास्त्रीयसङ्गीतसंविधानात् आरोहावरोहणक्रमे किञ्चिदिव व्यत्यस्ताः दृश्यन्ते। खरहरप्रियारागतुल्याः सामगानस्वराः कुष्ठं (प्रथमं), द्वितीयं, तृतीयं (मध्यमम्), चतुर्थं, मन्द्रं (पञ्चमम्), अतिस्वायं (षष्ठम्), अतिस्वरम् (अन्यं) एते सप्तस्वराः। सामगानालापने गायकैः हस्ताङ्गुलीभिः मुद्राः अभिनीयन्ते एताभ्यः मुद्राभ्यः स्वरस्थानानि मात्राश्च प्रतीयन्ते।
 
==सामवेदस्य शाखाः==
७५,२१७

सम्पादन

"https://sa.wikipedia.org/wiki/विशेषः:MobileDiff/423506" इत्यस्माद् पुनः प्राप्तिः