"सामवेदः" इत्यस्य संस्करणे भेदः

पङ्क्तिः २६:
उत्तरार्चिकं तु अनुष्ठाननिर्देशकम्। तस्य बहवो विभागाः - दशरात्रं, संवत्सरम्, ऐकाहम्, अहीनं, सत्रं, प्रायश्चित्तं, क्षुगद्रञ्चेति प्रमुखास्तत्र भेदाः सन्ति। अस्मिन्नुत्तरार्चिके नवप्रपाठकाः सन्ति। प्रथमपञ्चप्रपाठकेषु द्वौ द्वौ भागौ स्तः, यौ प्रपाठकाद्धनाम्ना ख्यातौ स्तः, किञ्च अन्तिमचतुर्षु प्रपाठकेषु त्रयस्त्रयोऽर्द्धाः सन्ति। राणायणीयशाखानुसारम् अयमस्ति भेदः। उत्तरार्चिकस्य समग्रमन्त्राणां सङ्ख्या (१२२५) पञ्चविंशत्यधिकद्वादशशतमस्ति। अतरुभयोरार्चिकयोः सम्मिलितानां मन्त्राणां सङ्ख्या (१८७५) पञ्चसप्तत्यधिकाष्टादशशतमस्ति।
 
== ऋक्-सामयोः सम्बन्धस्य मीमांसा ==
 
सामवेदस्य गानप्रचुरता प्रथिता, ऋच एव गीयन्ते, सामवेदे १८७५ मन्त्राः सन्ति, तेषु ७५ मन्त्राः ईदृशाः ये ऋग्वेदे न प्राप्यन्ते, शेषाः सर्वेऽप्युभयवेदसाधारणाः । सामवेदागतमन्त्राणां ससस्वराः, यतस्ते गीयन्ते, ऋग्वेदे पुनस्तेषामेव मन्त्राणां त्रय एव स्वराः, मुख्यत एतावान् एव उभयवेदसाधारणानां साममन्त्राणामृग्वेदमन्त्रेभ्यो भेदोऽस्ति ।
 
Line ३८ ⟶ ३७:
यदि सामवेदः ऋग्वेदादनन्तरस्य रचना, तर्हि तदा ऋग्वेदस्यानेकेषु स्थलेषु सामवेदस्योल्लेखः कथं लभते? ‘अङ्गिरसां सामभिः स्तूयमानाः'<ref>( ऋ० १ · १०६॥२)</ref>, ‘उद्गातेव शकुने साम गायति'<ref>(२॥४३॥२)</ref>, ‘इन्द्राय सामगायत विप्राय बृहते बृहत्'<ref>(८॥९८१)</ref> इत्यादिषु मन्त्रेषु सामान्यसाम्नोऽपि उल्लेखो नास्ति, प्रत्युत ‘बृहत्साम' इव विशिष्टसाम्नोऽपि उल्लेखो वर्तते। [[ऐतरेयब्राह्मण]]<nowiki/>स्य स्पष्टकथनमस्ति यत्, सृष्ट्याः आरम्भे ऋक् साम्नोरस्तित्वमासीदिति।<ref>(ऋक् च वा इदमग्रे सामञ्चात्ताम् ( २॥२३ ))</ref> नैतावदेव, यज्ञसम्पादनाय अध्वर्युस्तथा ब्रह्मानामकस्य ऋत्विजा सह उद्गातुरपि सत्ता सर्वथा मान्याऽस्ति । एतेषां चतुर्णामृत्विजां समुपस्थितावेव यशसम्पत्तेः सिद्धिर्भवेत् । उद्गातुः कार्यं तु सामगानमेवाऽस्ति । तर्हि साम्न अर्वाचीनता कथं विश्वसनीया भवेत् ? मनुना लिखितं यत्, यज्ञसिद्धये वह्नेः, वायोः तथा सूर्यात् क्रमशः ऋक्, यजुस्तथा। सामवेदानां दोहनं कृतम्।<ref>( मनु० १॥२३ )</ref> '''<nowiki/>'त्रयं ब्रह्म सनातनम्'''' इति कथने वेदाय प्रयुक्तं सनातनविशेषणपदं वेदानां नित्यतां तथा अनादितां प्रकटयति । दोहनशब्दादपि अस्यैव तथ्यस्य सम्पुष्टिर्भवेत् ।
 
== सामवेदस्य नामकरणम् ==
 
विशिष्टानां ऋषीणां नाम्ना सामवेदस्य नाम सम्बद्धं, तर्हि किं ते ऋषयस्तेषां साम्नां कत्तरिः न सन्ति ? अस्योत्तरमस्ति यत्, येन साम्ना सर्वप्रथमं यमृषिं स्वेष्टस्य प्राप्तिरभवत्, तस्य साम्नः असौ ऋषिः कथितः । ताण्ड्यब्राह्मणेऽस्य तथ्यस्य द्योतकः स्पष्टप्रमाणं प्राप्यते। 'वृषाशोणो अभिकनिष्क्रदत्'।<ref>( ऋ० ९॥९७॥१३ )</ref> ऋचः वसिष्ठनामकरणस्य इदमेव कारणमस्ति । वीडुपुत्रवसिष्ठः अनेन साम्ना स्तुतिं कृत्वा अनायासेन स्वर्गं प्राप्तवान् - ‘वासिष्ठं भवति, वशिष्ठो वा एतेन वैडवः स्तुत्वाञ्जसा स्वर्गं लोकमपश्यत् ।'<ref>( ताण्डयब्राह्म० ११॥८॥१३ )</ref>, ‘तं वोदस्ममृतीषहं'<ref>( ९॥८८॥१ )</ref> मन्त्रोपरि ‘नौधससाम्नो नामकरणस्य एवंविधेव कारणमन्यत्र कथितम्।<ref>( ताण्डय० ७॥१०॥१० )</ref> फलतः इष्टसिद्धिनिमित्तकत्वेन साम्नाम् ऋषिपरकं नाम भवति, रचनाहेतुत्वेन तु तन्नास्ति ।
 
Line ४६ ⟶ ४४:
 
==सामवेदस्य शाखाः==
सामवेदस्य एकसहस्रशाखाः सन्ति विदुषामभिप्रायः। यथोक्तं पतञ्जलिना – “सहस्रवर्त्मा सामवेदः” इति। सामवेदस्य आद्याचार्यः जैमिनि एव भवतीति स्वीक्रियते। तदनन्तरं तत्पुत्राः शिष्याश्च सामाध्ययनं कृत्वा सामशाखानां विस्तारं कृतवन्तः। तेषु कतिपयानां नामानि दीयन्ते।उपलब्धानि। यथा –सुमन्तु –सुन्वान् –सुनु –हिरण्यनाभ –पौषञ्जि-कार्त्ता –लौगाक्षि –माङ्गलिकुल्य –कुसीद –कुक्षीप्रमुखाः। अधुना प्रपञ्चहृदय –दिव्यावदान- चरणव्यूह -जैमिनिगृह्यसूत्रादीनां पर्यालोचनया ज्ञायते यत्, सामवेदस्य त्रयोदशशाखाः सन्ति। तेषु त्रयाणामाचार्याणां शाखा एव समुपलभ्यन्ते। यथा –कौथुमीयशाखाराणायनीयशाखा, जैमिनियशाखा च।कौथुमीयशाखा-राणायनीयशाखा-जैमिनियशाखाः।
 
=== कौथुम-शाखा ===
अस्याः संहिता लोकप्रियाऽस्ति । अस्याः ताण्ड्यनामकशाखाऽपि लभते। यस्याः विशिष्टः प्रभावः प्रसारश्चातीतकाले अासीत् । अाचार्य[[आदिशङ्कराचार्यः|शङ्करः]] स्ववेदान्तभाष्यस्य अनेकस्थलेषु अस्य चर्चां कृतवान् अस्ति । चर्चेयमस्य गौरवस्य महत्त्वस्य च सूचिकाऽस्ति । पञ्चविंशतिकाण्डात्मकः विपुलकायः ताण्ड्यब्राह्मणग्रन्थः अस्याः शाखायाः एव वर्त्तते । सुप्रसिद्ध[[छान्दोग्योपनिषत्|छान्दोग्योपनिषद]]<nowiki/>पि अनया शाखया सम्बद्धाऽस्ति - ‘यथा ताण्डिनामुपनिषदि षष्ठे प्रपाठके स आत्मा',<ref>(शा० भा० ३।३।३६)</ref> ‘स अात्मा......... छान्दोग्य उपनिषद्<ref>(६८॥७)</ref> तथा ‘अन्येऽपि शाखिनः ताण्डिनः शाट्यायिनः'<ref>(शा० भा० ३॥४॥२७)</ref>। अस्य स्पष्टनिर्देशः शङ्कराचार्येण स्वभाष्ये कृतः ।
 
=== राणायनीयशाखा ===
अस्याः संहिता कौथुमीयात् कथमपि भिन्ना नास्ति । मन्त्रगणनादृष्ट्या उभावपि समाने स्तः । केवलमुच्चारणे यत्र कुत्र पार्थक्यमुपलब्धो भवति । कौथुमीयाः जनाः यत्र ‘हाड' तथा, 'राइ' इत्येतत्पदमुच्चारयन्ति तत्र राणायणीयगणाः 'हाबु' तथा ‘रायी' इत्युच्चारणं कुर्वन्ति । राणायणीयेषु एकावान्तरशाखा सात्यमुग्रि वर्तते; अस्य उच्चारणस्येका विशेषता भाषाविज्ञानदृष्ट्या नितान्तम् आलोचनीयाऽस्ति । अापिशली शिक्षाकृता तथा महाभाष्यकारेण च स्पष्टतया निर्देशितं यत्, सात्यमुग्रिजना एकारस्योकारस्य च स्थाने हृस्वोच्चारणं कुर्वन्ति । यथा - ‘छन्दोगानां सात्यमुग्रिराणायणीया ह्रस्वानि पठन्ति॥'<ref>( आपि० शि० )</ref>
 
'''ननु च भोश्छन्दोगानां सात्यमुग्रि-राणायणीया अर्धमेकारं........अर्धमोकारं च अधीयते। सुजाते ए अश्वसूनृते। अध्वर्वो ओ अद्रिभिः सुतम्'।'''<ref>(सामवेद १॥१॥८॥३ ) ( महाभाष्यम्-१॥१॥४॥४८ )</ref>
 
=== जैमिनीय शाखा ===
अस्याः शाखायाः समग्रांशाः, ब्राह्मण-श्रौत-गृह्यसूत्रसहिताः समुपलब्धाः सन्ति । जैमिनीयसंहिता नागराक्षरेऽपि [[लाहोर|लाहौर]]<nowiki/>नगरात् प्रकाशिताऽभवत् । अस्याः मन्त्राणां संख्या १६८७ वर्तते । तवलकारशाखा अस्या एव अवान्तरशाखा वर्तते । [[तवलकारः|तवलकारो]]<nowiki/>ऽयं [[जैमिनिः|जैमिनि]]<nowiki/>ऋषेः पट्टशिष्यः आसीत् । जैमिनीयसामगानस्य प्रथमप्रकाशन संस्कृतविश्वविद्यालयवाराणसीतोऽभवत् । सामगानमिदं पूर्वार्चिकेन सम्बद्धमस्ति । अस्य त्रयो भागाः सन्ति - आग्नेयः, ऐन्द्रः, पवमानश्चेति । एतेष्वादिमस्य चान्तिमस्य च पर्वस्य – विशेषविभागो नास्ति, किञ्चैन्द्रपर्वस्य चत्वारो भागाः सन्ति । सम्पूर्णग्रन्थे गानसंख्या १,२२४ वर्तते । कौथुमीयसामसंहितातः जैमिनीयसामसंहितायाः पाठे सर्वथा भेदी नास्ति, किञ्च गानप्रकारस्तु सर्वथा भिन्ना एवास्ति । अद्यपर्यन्तं केवलमस्य प्रथमभाग एव प्रकाशितोऽस्ति। द्वितीयखण्डस्तु हस्तलेखे एवास्ति ।
 
== सामवेदस्य पदकाराः ==
"https://sa.wikipedia.org/wiki/सामवेदः" इत्यस्माद् प्रतिप्राप्तम्