"सामवेदः" इत्यस्य संस्करणे भेदः

पङ्क्तिः ४२:
== सामस्य स्वराः ==
सामवेदस्य एकसहस्रं शाखाः आसन्। प्रपञ्चहृदयकारस्य काले द्वादशशाखाः विहाय अन्याः नष्टाः इदानीन्तु केवलं तिस्रः शाखाः समुपलभ्यन्ते। सङ्गीतस्य उद्भवः सामगानात् इति विचक्षणा आचक्षते। सामगानेऽपि सप्तस्वराः एव भवन्ति। ते आधुनिकशास्त्रीयसङ्गीतसंविधानात् आरोहावरोहणक्रमे किञ्चिदिव व्यत्यस्ताः दृश्यन्ते। खरहरप्रियारागतुल्याः सामगानस्वराः कुष्ठं (प्रथमं), द्वितीयं, तृतीयं (मध्यमम्), चतुर्थं, मन्द्रं (पञ्चमम्), अतिस्वायं (षष्ठम्), अतिस्वरम् (अन्यं) एते सप्तस्वराः। सामगानालापने गायकैः हस्ताङ्गुलीभिः मुद्राः अभिनीयन्ते एताभ्यः मुद्राभ्यः स्वरस्थानानि मात्राश्च प्रतीयन्ते।
 
== सामगानस्य पद्धति: ==
एतेषां सामयोनिमन्त्राणाम् अाश्रयं गृहीत्वा ऋषिभिः गान-मन्त्राणां रचना कृताऽस्ति । गानस्तु चतुर्धा भवति -
 
१. (ग्रामः) वेयगानम् (अस्यैवापरं नाम प्रकृतिगानम्),
 
२. आरण्यकगानम्
 
३. ऊहगानम् ,
 
४. ऊह्यगानं वा रहस्यगानम्
 
पूर्वार्चिकस्य प्रथमपञ्चमाध्यायगत-मन्त्राणामुपरि वेयगानं भवति । आरण्यकपर्वे निर्दिष्टमन्त्राणामुपरि आरण्यकगानं भवति । ऊहगानमूह्यगानञ्चोत्तरार्चिके उल्लिखितमन्त्राणामुपरि मुख्यतया भवति । विभिन्नशाखायामेतेषां मन्त्राणां संख्याऽपि विभिक्षा एव भवन्ति । सर्वाधिकगानानि जैमिनीयशाखायामेवोपलब्धानि सन्ति ।
{| class="wikitable"
|'''गानानि'''
|'''कौथुमीयगानम्'''
|'''जैमिनीयगानम्'''
|-
|वेयगानानि
|११९७
|१२३२
|-
|अरण्यगानानि
|२९४
|२९१
|-
|ऊहगानानि
|१०२६
|१८०२
|-
|ऊह्यगानानि
|२०५
|३५६
|-
|'''सर्वेषां योगः'''
|'''२७२२'''
|'''३६८१'''
|}
[[हिन्दुस्थानिशास्त्रीयसङ्गीतम्|भारतीयसङ्गीतशास्त्र]]<nowiki/>स्य मूलमेतेष्वेव सामगानेषु उपर्यवलम्बितमस्ति । सामगानपद्धत्या रहस्यज्ञानम् अप्यधुना तथैव दुरूहोऽस्ति, यथा भारतीयसङ्गीतशास्त्रस्य ज्ञानरहस्यमस्ति । नारदीयशिक्षानुसारेण सामवेदस्य स्वरमण्डलानि निम्नलिखितान्येव सन्ति —
{| class="wikitable"
|'''सामानि'''
|'''वेणवः'''
|'''सुरः'''
|-
|प्रथमः
|मध्यमः
|म
|-
|द्वितीयः
|गान्धारः
|ग
|-
|तृतीयः
|ऋषभः
|रे
|-
|चतुर्थः
|षड्जः
|सा
|-
|पञ्चमः
|निषादः
|नि
|-
|षष्ठः
|धैवतः
|ध
|-
|सप्तमः
|पञ्चमः
|प
|}
सामगानेष्वेता एव सप्ताङ्कास्तत्तत्स्वराणां स्वरूपं सूचयन्ति । साममन्त्रेषु उपरि प्रदत्ताङ्कानां व्यवस्था विभिन्नप्रकारका एवेति । सामयोनिमन्त्रान् सामगानेषु परिवर्तनेऽनेकविधानि सङ्गीतानुकूलपरिवर्तनानि च भवन्ति । एतानि परिवर्तनानि च सामविकाराः कथ्यन्ते । सामविकारास्तु षट्संख्यकाः भवन्ति ।
 
१. '''विकारः''' - शब्दस्य परिवर्तनम्। 'अग्ने' इत्येतत्पदस्थाने ‘आग्नायि' इति पदम् ।
 
२. '''विश्लेषणम्''' — एकपदस्य पृथक्करणम् । यथा—'तये' इत्येतत्पदस्थाने 'तोयितीया' २यि ।
 
३. '''विकर्षणम्''' - एकस्वरस्य दीर्घकालपर्यन्तं विभिन्नोच्चारणम् । ये = या २ ३ यि ।
 
४. '''अभ्यासः''' - कस्यापि पदस्य भृशमुच्चारणम् (पौनःपुन्येन) । यथा- 'तोयायि' पदस्य वारद्वयमुच्चारणम् ।
 
५. '''विरामः''' - सौकर्य्याय कस्यापि पदस्य मध्ये विरामः । यथा - 'गृणानि हव्यदातये' इत्यस्मिन् पदे हकारोपरि विरामः ।
 
६. '''स्तोमः''' - 'औ' 'होवा' 'हाउआ' इत्यादिगानानुकूलपदानि ।
 
एते विकाराः भाषाशास्त्रस्य दृष्ट्याऽपि नितान्तं मननीयाः सन्ति ।
 
==सामवेदस्य शाखाः==
"https://sa.wikipedia.org/wiki/सामवेदः" इत्यस्माद् प्रतिप्राप्तम्