"सामवेदः" इत्यस्य संस्करणे भेदः

 
== प्रशंसा ==
'सामानि यो वेति स वेदतत्त्वम्' इत्येतद् बृहद्देवतायाः कथनं तन्महिमानमुच्चैर्गीयते। गीतायां भगवान् कृष्णः अाह- ‘वेदानां सामवेदोऽस्मि' इति। वेदस्यास्य उद्देश्यमस्ति - गानपूर्वकमुपासनम्। साम्प्रतमस्य गरीयसो वेदस्य त्रिस्र एव शाखाः प्राप्यन्ते। ताश्च इमाः - कौथुमीया, राणायणीया, जैमिनीया च। [[ऋग्वेद|ऋग्वेदे]], [[अथर्ववेद|अथर्ववेदे]] चापि सामवेदस्य प्रशंसा अस्ति। एकस्मिन् मन्त्रे स्पष्टोक्तिरियमस्ति - '''<nowiki/>'यो जागार तमृचः कामयन्ते, यो जागार तमु सामानि यन्ति'।'''<ref>(ऋ० वे० ५॥४४॥१४)</ref> अपरस्मिन् मन्त्रे खग-कुल-कलरव-इव सामगायनं मधुरं भवति इति कथितम् — '''<nowiki/>'उद्गातेव शकुने साम गायसि'<nowiki/>'''।<ref>( २॥४३॥२ )</ref> [[अङ्गिरा]]<nowiki/>-ऋषेः सामस्योल्लेखः अनेकशो लभते— '''<nowiki/>'अङ्गिरसां सामभिः स्तूयमानाः''''।<ref>( ऋ० वे० १।१०७।।२ )</ref> अथर्ववेदस्य अनेकस्थलेषु सामवेदस्य न केवलं विशिष्टा स्तुतिरेव अस्ति, अपि तु परमात्मभूतोच्छिष्टात् स्कम्भाच्चास्य सामवेदस्य आविर्भूतस्योल्लेखो लभते। कश्चन ऋषिः पृच्छति — यस्य स्कम्भस्य साम लोमोऽस्ति कतमः सः स्कम्भोऽस्ति? इति।<ref>'सामानि यस्य लोमानि' ....... स्कम्भं तं ब्रूहि कतमः स्विदेव सः ?' (अथर्ववे० १०।। ७॥२०)</ref> अन्यस्मिन् मन्त्रे ऋग्वेदेन सह सामवेदस्याऽपि अाविर्भावः उच्छिष्टादेव प्रदर्शितोऽस्ति – '''<nowiki/>'ऋचः सामानि छन्दांसि.............उच्छिष्टात्तु यज्ञिरे सर्वे''''।<ref>(अथ० वे० ११॥७॥२४)</ref> अपरस्मिन् मन्त्रे कर्मणः साधनभूतस्य ऋग्वेदस्य सामवेदस्य च स्तुतेः विधानमस्ति– '''<nowiki/>'ऋचं साम यजामहे यासां कर्माणि कुर्वते''''।<ref>( अ० वे० ७॥५४।१ )</ref>
 
== कालः ==
 
सामशब्दस्यैका सुष्ठु निरुक्तिः बृहदारण्यकोपनिषदि वर्त्तते— ‘सा च अमश्चेति तत्साम्नः सामत्वम्’।<ref>(बृह० उ०१।३।२२)</ref> 'सा'-शब्दस्यार्थो भवति ‘ऋक्' तथा ‘अम'-शब्दस्य अर्थोऽस्ति गान्धारादयः स्वराः। अतः सामशब्दस्य व्युत्पत्तिलभ्यार्थोऽभवत्– ऋचा सह सम्बद्धस्वरप्रधानगायनम् - ‘तया सह सम्बद्धः अमो नामस्वरः यत्र वर्त्तते तत्साम' इति। यासामृचामुपरि सामगानं भवति ता ऋचः वेदज्ञाः ‘सामयोनिः' नाम्ना जानन्ति। अत्र स्मरणीयमस्ति यदिदं सामसंहितायाः वर्णनमस्ति। इदं तासां सामऋचां सङ्गाहमात्रमेवाऽस्ति अर्थात् सामसंहितायां केवलं सामोपयोगिनां मन्त्राणां सङ्कलनमेवास्ति, तेषां गायनानां नास्ति, यत्सामवेदस्य मुख्यं वाच्यमस्ति।
 
==== नामकरणस्य कारणम् ====
विशिष्टानां ऋषीणां नाम्ना सामवेदस्य नाम सम्बद्धं, तर्हि किं ते ऋषयस्तेषां साम्नां कत्तरिःकर्त्तरिः न सन्ति ? अस्योत्तरमस्ति यत्, येन साम्ना सर्वप्रथमं यमृषिं स्वेष्टस्य प्राप्तिरभवत्, तस्य साम्नः असौ ऋषिः कथितः । ताण्ड्यब्राह्मणेऽस्य तथ्यस्य द्योतकः स्पष्टप्रमाणं प्राप्यते। 'वृषाशोणो अभिकनिष्क्रदत्'।<ref>( ऋ० ९॥९७॥१३ )</ref> ऋचः वसिष्ठनामकरणस्य इदमेव कारणमस्ति । वीडुपुत्रवसिष्ठः अनेन साम्ना स्तुतिं कृत्वा अनायासेन स्वर्गं प्राप्तवान् - '''‘वासिष्ठं भवति, वशिष्ठो वा एतेन वैडवः स्तुत्वाञ्जसा स्वर्गं लोकमपश्यत् ।''''<ref>( ताण्डयब्राह्म० ११॥८॥१३ )</ref>, ‘तं वोदस्ममृतीषहं'<ref>( ९॥८८॥१ )</ref> मन्त्रोपरि ‘नौधससाम्नो नामकरणस्य एवंविधेव कारणमन्यत्र कथितम्।<ref>( ताण्डय० ७॥१०॥१० )</ref> फलतः इष्टसिद्धिनिमित्तकत्वेन साम्नाम् ऋषिपरकं नाम भवति, रचनाहेतुत्वेन तु तन्नास्ति ।
 
==विषयाः==
 
यदि सामवेदः ऋग्वेदादनन्तरस्य रचना, तर्हि तदा ऋग्वेदस्यानेकेषु स्थलेषु सामवेदस्योल्लेखः कथं लभते? ‘अङ्गिरसां सामभिः स्तूयमानाः'<ref>( ऋ० १ · १०६॥२)</ref>, ‘उद्गातेव शकुने साम गायति'<ref>(२॥४३॥२)</ref>, ‘इन्द्राय सामगायत विप्राय बृहते बृहत्'<ref>(८॥९८१)</ref> इत्यादिषु मन्त्रेषु सामान्यसाम्नोऽपि उल्लेखो नास्ति, प्रत्युत ‘बृहत्साम' इव विशिष्टसाम्नोऽपि उल्लेखो वर्तते। [[ऐतरेयब्राह्मण]]<nowiki/>स्य स्पष्टकथनमस्ति यत्, सृष्ट्याः आरम्भे ऋक् साम्नोरस्तित्वमासीदिति।<ref>(ऋक् च वा इदमग्रे सामञ्चात्ताम् ( २॥२३ ))</ref> नैतावदेव, यज्ञसम्पादनाय अध्वर्युस्तथा ब्रह्मानामकस्य ऋत्विजा सह उद्गातुरपि सत्ता सर्वथा मान्याऽस्ति । एतेषां चतुर्णामृत्विजां समुपस्थितावेव यशसम्पत्तेः सिद्धिर्भवेत् । उद्गातुः कार्यं तु सामगानमेवाऽस्ति । तर्हि साम्न अर्वाचीनता कथं विश्वसनीया भवेत् ? मनुना लिखितं यत्, यज्ञसिद्धये वह्नेः, वायोः तथा सूर्यात् क्रमशः ऋक्, यजुस्तथा। सामवेदानां दोहनं कृतम्।<ref>( मनु० १॥२३ )</ref> '''<nowiki/>'त्रयं ब्रह्म सनातनम्'''' इति कथने वेदाय प्रयुक्तं सनातनविशेषणपदं वेदानां नित्यतां तथा अनादितां प्रकटयति । दोहनशब्दादपि अस्यैव तथ्यस्य सम्पुष्टिर्भवेत् ।
 
== सामवेदस्य नामकरणम् ==
विशिष्टानां ऋषीणां नाम्ना सामवेदस्य नाम सम्बद्धं, तर्हि किं ते ऋषयस्तेषां साम्नां कत्तरिः न सन्ति ? अस्योत्तरमस्ति यत्, येन साम्ना सर्वप्रथमं यमृषिं स्वेष्टस्य प्राप्तिरभवत्, तस्य साम्नः असौ ऋषिः कथितः । ताण्ड्यब्राह्मणेऽस्य तथ्यस्य द्योतकः स्पष्टप्रमाणं प्राप्यते। 'वृषाशोणो अभिकनिष्क्रदत्'।<ref>( ऋ० ९॥९७॥१३ )</ref> ऋचः वसिष्ठनामकरणस्य इदमेव कारणमस्ति । वीडुपुत्रवसिष्ठः अनेन साम्ना स्तुतिं कृत्वा अनायासेन स्वर्गं प्राप्तवान् - ‘वासिष्ठं भवति, वशिष्ठो वा एतेन वैडवः स्तुत्वाञ्जसा स्वर्गं लोकमपश्यत् ।'<ref>( ताण्डयब्राह्म० ११॥८॥१३ )</ref>, ‘तं वोदस्ममृतीषहं'<ref>( ९॥८८॥१ )</ref> मन्त्रोपरि ‘नौधससाम्नो नामकरणस्य एवंविधेव कारणमन्यत्र कथितम्।<ref>( ताण्डय० ७॥१०॥१० )</ref> फलतः इष्टसिद्धिनिमित्तकत्वेन साम्नाम् ऋषिपरकं नाम भवति, रचनाहेतुत्वेन तु तन्नास्ति ।
 
== सामस्य स्वराः ==
७५,२१७

सम्पादन

"https://sa.wikipedia.org/wiki/विशेषः:MobileDiff/423510" इत्यस्माद् पुनः प्राप्तिः