"सामवेदः" इत्यस्य संस्करणे भेदः

 
एते विकाराः भाषाशास्त्रस्य दृष्ट्याऽपि नितान्तं मननीयाः सन्ति ।
 
ऊहगानस्य प्रकृतिः वेयगानमस्ति । ऊह्यगानस्य प्रकृतिः किंवा योनिरारण्यगानम्भवति । अस्य तात्पर्यमस्ति यद्वेयगाने प्रयुक्तस्वरादीनामाश्रयं गृहीत्वा एव ऊहगानस्य निर्माणं भवति तथा अरण्यगानस्य स्वररागादीनामाधारेण ऊह्यगानस्य रचनाऽभवत् इति। एतेषां चतुर्णां गानानां स्वरूपस्य पार्थक्यं तेषां नामकरणेनैव स्पष्टो भवति । वेयगानस्य अपर नाम ग्रामे गेयगानमस्ति, अर्थात् गानमिदं कस्मिंश्चिदपि ग्रामे अथवा समाजे गेयं भवति, किञ्च आरण्यगानान्तर्गतसामगानम् अरण्ये एव गेयं भवति । सामवेदीनां मान्यताऽस्ति यद्, आरण्यगानस्य स्तोममीदृग् विलक्षणं तथा विचित्रं भवति यद्, ग्रामे यदि तस्य गानं भवेत्, तर्हि तत्रानर्थस्य सम्भावना भवति इति। इमानि गानानि एवंविधपवित्राणि भवन्ति यदरण्यस्य पवित्रवातावरणे एव तेषां गायनं कर्तुं शक्यते, तदैव तेषां समुचितप्रभावोत्पादनं भवति । 'ऊह'- शब्दस्यार्थों भवति-'ऊहनम्' । कस्मिंश्चिद् अप्यवसरविशेषे मन्त्राणां सामयिकपरिवर्तनम् । अनया व्याख्यया 'ऊहगानम्' सोमयागस्य अवसरे प्रयोजनीयसामानां नाम वर्त्तते । ऊह्यगानस्य सम्पूर्णं नाम ऊह्यमर्थात् रहस्यगानमस्ति । रहस्यात्मकत्वेन गानमिदम् आरण्यगानस्य विकृतिगानं मन्यते । अारण्यज्ञानम् इवेदमपि गानं रहस्यात्मकं भवति । अत एव समाजमध्ये सर्वसाधारणसम्मुखे गानमिदं निषिद्धमस्ति ।
 
मन्त्राणामुपरि निश्चितमेव सामं भवति । साममिदं नानियतम् अपि तु नियतमेवास्ति। नियमनस्य बीजं वैदिकप्रसिद्ध एव स्वीकर्तृं शक्यते। सामवेदे पठितानां समग्राणाम् ऋचामुपरि सामं भवतु। एवंविधः न कोऽपि नियमोऽस्ति । कतिपयानामृचामुपरि सामस्य सर्वथा अभावोऽस्ति । ऋचः उत्तरार्चिके एव प्राप्यन्ते। यथा - ‘यत्र वाणाः सम्पतन्ति कुमाराः विशिखा इव'<ref>(सा० वे० सं० १८६६)</ref>, ‘भद्रं कर्णेभिः शृणुयाम देवाः'<ref>( साम० सं० १८७४ )</ref>, 'अाशुः शिशानो वृषभो न भीमः'<ref>(सा० सं० १८४९)</ref>। गानग्रन्थेषु आसामृचामुपरि न किमपि गानमस्ति । एवंविधाः अनेकऋचः सन्ति, यासु चतुर्विधं गानं भवति । तेऽपि भिन्नप्रकारस्य सन्ति। यथा- 'अयारुचा हरिण्या'।<ref>( सा० सं० ४६३ )</ref> तथा ‘अयं पूषारयिर्मगाः’।<ref>(सा० सं० ५४६ एवं ८१८)</ref> अस्याः उपरि पूर्वोक्तं चतुर्विधं गानं प्राप्यते। न तावदेतावदेव एकस्या एव ऋचः उपरि प्रयुक्तस्य सामानां संख्या एकषष्टिः ( ६१ ) वर्त्तते । गानान्येतानि ‘पुनानः सोमधारया'<ref>(ऋ० ९॥१०७॥४, सा० सं० ५११ )</ref> मन्त्रस्य उपरि गानं भवति । अस्य अपरा संख्या (५९) ऊनषष्टिरस्ति या 'पुरोजिती वोऔधसः'<ref>(सा० सं० ५४५)</ref> ऋचः उपरि अधिष्ठिताः भवन्ति । तृतीया संख्या सामानां (४८) अष्टाचत्वारिशदस्ति । ‘यः धारया पावकया'<ref>(सा० सं० ६९८)</ref> मन्त्रस्योपरि गायति । ऋचः गानस्य पञ्चविंशतिः संख्याः तु अनेकाः सन्ति । एतेषां विशिष्टसामानां स्थित्यास्तथा संख्यायाः नियमनं तु प्राचीनवैदिकपरम्परायाः उपर्येव आश्रिता अस्ति।
 
==सामवेदस्य शाखाः==
७५,२१७

सम्पादन

"https://sa.wikipedia.org/wiki/विशेषः:MobileDiff/423513" इत्यस्माद् पुनः प्राप्तिः