"सामवेदः" इत्यस्य संस्करणे भेदः

पङ्क्तिः १५६:
 
पूर्वार्चिकस्य उत्तरार्चिके नैतदेव सम्बन्धमस्ति यदुत्तरार्चिके यत्प्रगाथः किंवा ऋचां सूक्तानि सन्ति, तास्वधिकतराः प्राक् ऋचः पूर्वार्चिके पठिताः सन्ति । पूर्वार्चिके नानाविधसाम्नां योनिभूताः ऋचः पठिताः सन्ति, तथोत्तरार्चिके प्रगाथतृचादिसूक्तानि पठितानि सन्ति । एकस्मिन् प्रगाथात्मके वा तृचाद्यात्मके पर्याप्तपर्यालोचनं कृतवन्तः डा० कैलेण्डरमहोदयस्तु पूर्वमुत्तरार्चिकम् एव उभयोः मध्ये अपेक्षाकृतप्राचीनतरम् अमन्यत्, किञ्च सम्प्रति सः पूर्वमतं भ्रान्तं मत्वा तं त्यक्तवान् । सामविधानब्राह्मणे उत्तरार्चिकस्य मन्त्राणामुद्धरणं कुत्राऽपि न दृश्यते । अथर्वपरिशिष्टस्य<ref>( ४६॥३॥६)</ref> अनुसारेण पूर्वार्चकस्य उपान्ता ऋगेव सामवेदस्य अन्तिमा ऋगस्ति।<ref>( सा० सं० ५८४ )</ref> अस्य एव प्रमाणस्य आधारे डॉ० ओल्डनवर्गमहोदयेन पूर्वार्चिकं पूर्वतरं स्वीकृतम्। उत्तरार्चिकस्तु निश्चितरूपेण यज्ञोपयोगिनामृचाम् अवान्तरकालिकः सङ्ग्रह एवास्ति । एतावदेव नास्ति, प्रत्युत अस्योपरि आश्रितम् ऊह्यगानमूहगानश्च तैः सामवेदीयग्रन्थस्य पश्चाद् विरचितं मन्यते। ते एतान् गानग्रन्थान् ताण्ड्यब्राह्मणात्पश्चात्, लाटयायनश्रौतसूत्राद् पश्वाद्, आर्षेयकल्पसूत्रात्, पुष्यसूत्रादपि पश्चाद्वर्त्तिनी रचनाज्ञातुं आग्रहं कुर्वन्ति। ब्राह्मायणश्रौतसूत्रस्य टीकाकारः धन्वी वदति-ऊहयानन्तु सूत्रकारादपि पश्चान्निर्मित्तम् अभवत्।
 
== स्तोमः, विष्टुतिः च ==
शस्त्र-स्तोत्रयोर्मध्ये अन्तरं भवति । शस्त्रस्य लक्षणमस्ति - 'अप्रणीतमन्त्रसाध्या स्तुतिः शस्त्रम्॥' अर्थात् गायनं विना मन्त्रेण सम्पादिता स्तुतिः। शस्त्रम् ऋग्वेदे भवति, स्तोत्रं तु सामवेदे । स्तोत्रस्य स्पष्टार्थो भवति– 'प्रगीतमन्त्रसाध्यास्तुतिः स्तोत्रम्'। स्तोत्रमपि स्तुत्याः एकं प्रकारान्तरं भवति । स्तोमानां प्रयोगोऽपि यज्ञयागेषु भवति । अस्य विशेषवर्णनं [[ताण्ड्यब्राह्मणम्|ताण्ड्यब्राह्मणे]] कृतमस्ति । स्तोमस्य संख्या त्रिवृत्-पञ्चदश-सप्तदश-एकविंश-त्रिणव-त्रयस्त्रिंश-चतुविंश-चत्वारिंश-अष्टचत्वारिंशादि नवा सन्ति । स्तोमोऽयं प्रायः तृचानामुपरि भवति । तृचमेनं त्रिपर्याये गानस्य नियमोऽस्ति। तृतीयपर्याये एव स्तोमस्य स्वरूपं निष्पन्नं भवति । अस्याः वृत्तिजन्यगानप्रकारस्य संज्ञा विष्टुतिरर्थात् विशेषस्तुतिरस्ति । एतेषां नवस्तोमानां समग्रविष्टुत्याः संख्यायां (२८) अष्टाविंशतिरस्ति । अस्य विशेषवर्णनं ताण्ड्यब्राह्मणस्य द्वितीये तृतीये च अध्याये उल्लिखितम् अस्ति।
 
== सामवेदस्य पदकाराः ==
"https://sa.wikipedia.org/wiki/सामवेदः" इत्यस्माद् प्रतिप्राप्तम्