"सामवेदः" इत्यस्य संस्करणे भेदः

पङ्क्तिः २३:
==== नामकरणस्य कारणम् ====
विशिष्टानां ऋषीणां नाम्ना सामवेदस्य नाम सम्बद्धं, तर्हि किं ते ऋषयस्तेषां साम्नां कर्त्तरिः न सन्ति ? अस्योत्तरमस्ति यत्, येन साम्ना सर्वप्रथमं यमृषिं स्वेष्टस्य प्राप्तिरभवत्, तस्य साम्नः असौ ऋषिः कथितः । ताण्ड्यब्राह्मणेऽस्य तथ्यस्य द्योतकः स्पष्टप्रमाणं प्राप्यते। 'वृषाशोणो अभिकनिष्क्रदत्'।<ref>( ऋ० ९॥९७॥१३ )</ref> ऋचः वसिष्ठनामकरणस्य इदमेव कारणमस्ति । वीडुपुत्रवसिष्ठः अनेन साम्ना स्तुतिं कृत्वा अनायासेन स्वर्गं प्राप्तवान् - '''‘वासिष्ठं भवति, वशिष्ठो वा एतेन वैडवः स्तुत्वाञ्जसा स्वर्गं लोकमपश्यत् ।''''<ref>( ताण्डयब्राह्म० ११॥८॥१३ )</ref>, ‘तं वोदस्ममृतीषहं'<ref>( ९॥८८॥१ )</ref> मन्त्रोपरि ‘नौधससाम्नो नामकरणस्य एवंविधेव कारणमन्यत्र कथितम्।<ref>( ताण्डय० ७॥१०॥१० )</ref> फलतः इष्टसिद्धिनिमित्तकत्वेन साम्नाम् ऋषिपरकं नाम भवति, रचनाहेतुत्वेन तु तन्नास्ति ।
 
== सामविभागः ==
सामान्यतया सामगानस्य पञ्चविभागाः भवन्ति ।
 
(१) '''प्रस्तावः –''' मन्त्रस्य प्रारम्भिकभागोऽयं भवति । प्रस्तावोऽयं ‘हूं'- शब्दात् प्रारम्भो भवति । प्रस्तोतानामकः ऋत्विग् अस्य गानं करोति ।
 
(२) '''उद्गीथः –'''साम्न प्रधानः ऋत्विक् उद्गाता एनं गायति । अस्यारम्भः ‘ॐ'-शब्दात् भवति ।
 
(३) '''प्रतीहारः -''' प्रतीहारशब्दस्यार्थो भवति सङ्कलनकर्ता, प्रतिहतनामकः ऋत्विगेन गीयते। अस्य यदा कदा खण्डद्वयमपि भवति ।
 
(४) '''उपद्रवः -''' यमुद्गाता गायति तदेवोपद्रवः ।
 
(५) '''निधनः -''' प्रस्तोतृ-उद्गातृ-प्रतिहर्त्तारः त्रयो मिलित्वैव अस्य गानं कुर्वन्ति । उदाहरणार्थं सामवेदस्य प्रथमोऽयं मन्त्रः - 'अग्न आ याहि वीतये गृणानो हव्यदातये। निहोता सत्सि बहिर्षि॥'<ref>[[s:सामवेदः/कौथुमीया/संहिता/पूर्वार्चिकः/छन्द_आर्चिकः/1.1.1_प्रथमप्रपाठकः/1.1.1.1_प्रथमा_दशतिः|सामवेदः/कौथुमीया/संहिता/पूर्वार्चिकः/छन्द आर्चिकः/1.1.1 प्रथमप्रपाठकः/1.1.1.1 प्रथमा दशतिः]]</ref> अस्य मन्त्रस्योपरि यस्य सामस्य गानं भविष्यति, तस्य निम्नलिखितानि पञ्चानाङ्गानि भवन्ति।
 
( १ ) हुँ ओग्नाई (प्रस्तावः)।
 
(२) ओम् आयाहि वीतये गृणानो हव्यदातये (उद्गीथः)।
 
( ३ ) नि होता सत्सि बर्हिषि ओम् (प्रतिहारः)। (अस्य प्रतिहारस्याऽपि द्वौ भेदौ स्तः।)
 
( ४ ) नि होता सत्सिव (उपद्रवः)।
 
( ५ ) हिंषि ओम् (निधनः)।
 
अस्य साम्नः यदा वारत्रयं गानं भवति, तदा तं स्तोमः कथ्यते । सामगायनाय कर्हिचित् स्वरं विकृतं परिवर्तितं च करणीयं भवति । यथा पूर्वमन्त्रस्य 'अग्न' गायने परिवर्त्तितरूपं— 'ओग्नाई' भवति । गायने स्वरपूर्त्र्यर्थं यदा कदा निरर्थकं पदमपि सङ्कलितं भवति । यथा- अौ, हौ, वा, हा इत्यादि । एताः स्तोमाः भवन्ति । [[छान्दोग्योपनिषत्|छान्दोग्योपनिषद]]<nowiki/>नुसारेण सप्तविधं साम भवति । यथा-
 
(1) हिङ्कारः,
 
(२) प्रस्तावः,
 
(३) आदिः,
 
(४) उद्गीथः,
 
(५) प्रतिहारः,
 
(६) उपद्रवः,
 
(७) निधनश्चेति ।
 
उपरि निर्दिष्टस्य पञ्चविधसामस्य एव अवान्तरभेदकरणेन एतेषां सप्तविधसामानाम् उत्पत्तिर्भवति।
 
गानम्
 
गीतमस्यपर्कम्–
 
'''ओग्नाई । आया ही ऽ ३ । वो इ तो या ऽ २ ३ । तोया ऽ २ इ । गृणानो ह । व्यदातो या ऽ २ ३ । तो या ५२ इ । ना इ होता सा ऽ २ ३ । त्सा ऽ २ ३ । वा ऽ २ ३, ४ औ हो वा । हो ऽ २ ३ ४ षी । १ ।।'''
 
==विषयाः==
"https://sa.wikipedia.org/wiki/सामवेदः" इत्यस्माद् प्रतिप्राप्तम्