"ऋग्वेदः" इत्यस्य संस्करणे भेदः

{{reflist|2}}
पङ्क्तिः १:
[[चित्रं:ऋग्वेदः-१.१.१.png|thumb|right|550px|ऋग्वेदस्य प्रथमं सूक्तम्]]
{{हिन्दूधर्मः}}
'''ऋग्वेदः''' अर्थात् ऋच्यते स्तूयते यया सा ऋक्, तादृशीनामृचां समूह एव ऋग्वेदः । यत्रार्थवशेन पादव्यवस्थाः सा ऋगिति मीमांसकाः । तत्र बहुभिर्भिन्नभिन्नैः ऋषिभिः सुललितैः भावभव्यैः शब्दैर्विभिन्ना देवताः सादरं स्तुताः सन्ति । पाश्चात्यदृशि भाषायाः भावस्य च विचारेण अन्यवेदेभ्यः अतीवप्राचीनः अस्त्ययमृग्वेदः।<ref>p. 126, ''History of British Folklore'', Richard Mercer Dorson, 1999, ISBN 9780415204774</ref> भारतीयदृष्ट्याऽपि ऋग्वेदस्याभ्यहितत्वं पूजनीयता च वर्तते।<ref>वेदनिन्दां देवनिन्दां प्रयत्नेन विवर्जयेत् ।। १६.३८ कूर्मपुराणम्-उत्तरभागः/षोडशो‍ऽध्यायः</ref> तैत्तिरीयसंहितानुसारेण यज्ञस्य यद्विधानं क्रियते, तत्तु शिथिलं भवति किञ्च ऋग्वेदेन विहितानुष्ठानं दृढम्भवति। यथा-
Line ३२३ ⟶ ३२४:
शाकल्यस्योल्लेखः [[निरुक्तम्|निरुक्ते]], ऋक्प्रातिशाख्येऽपि च अस्ति। अतोऽयम् उपनिषत्कालिकः ऋषिः वर्त्तते । [[यास्कः|यास्केन]] क्वचित् क्वचित् निजनिरुक्ते अस्य पदपाठः नाङ्गीकृतः । यथा निरुक्ते ५॥२१ ‘अरुणो मासकृत् वृकः’ ( १०॥५॥१८) यास्कस्त्वत्र ‘मासकृत्' इत्येकपदं मत्वा ‘मासानां कर्त्ता' इत्यर्थं कृतवान्। किञ्च शाकल्येनात्र 'मा + सकृत्' इति पदद्वयं स्वीकृतम्। निरुक्ते ( [[s:निरुक्तशास्त्रम्/पञ्चमोध्यायः|५॥२८]] ) वने ‘न वायो' ( ऋ० १०।२९।।१ ) इति यास्केनोद्धृतः । अत्र शाकल्येन ‘वा + यः = वायः' इति पदद्वयं मन्यते । किश्चास्य पदस्योल्लेखं कृत्वा यास्कस्तु पदद्वयं न स्वीकृतवान् 'वायः' इत्येकपदस्य यास्कसम्मतार्थोऽस्ति ‘पक्षीविशेष' इति । अनेन प्रकारेण निजनिरुक्ते यास्केन क्वचित्क्वचिच्छाकल्यस्य अनुमोदनं न कृतम् । एतदतिरिक्तः रावणकृतपदपाठस्य अप्यस्तित्वं यत्र कुत्राऽपि लभते। [[रावणः|रावण]]<nowiki/>स्तु ऋग्वेदस्य भाष्यमपि रचयामास तथा तस्य पदपाठोऽपि कृतवान् । अयं हि पदपाठः शाकल्यस्य नानुकरणमस्ति, प्रत्युत नानास्थलेषु निजबुद्ध्यानुसारेण असौ नवीनपदपाठस्यापि योजनां कृतवान्।
 
{{वैदिकविज्ञानम्}}
[[चित्रं:ऋग्वेदः-१.१.१.png|thumb|right|550px|ऋग्वेदस्य प्रथमं सूक्तम्]]
 
==पश्यतु==
Line ३४६ ⟶ ३४७:
* [http://www.wilbourhall.org/index.html#veda ''Rig-Veda Sanhita: A Collection of Ancient Hindu Hymns''] by [[Horace Hayman Wilson|H. H. Wilson]] (Scroll a little down.)
 
== सन्दर्भः ==
{{वैदिकविज्ञानम्}}
{{reflist|2}}
 
[[वर्गः:वेदाः]]
"https://sa.wikipedia.org/wiki/ऋग्वेदः" इत्यस्माद् प्रतिप्राप्तम्