"गङ्गानदी" इत्यस्य संस्करणे भेदः

No edit summary
पङ्क्तिः ३६:
पुराणेषु गङ्गायाः विशिष्टाः संदर्भाः [http://puranastudy.ultimatefreehost.in/pur_index9/pva1.htm अन्यत्र] द्रष्टव्याः। पुराणकथनानुसारेण, सूर्यः स्वरश्मिभिः यं जलं गृह्णाति, तस्य ब्रह्माण्डे वितरणं सः आकाशगंगया माध्यमे करोति। अयं जलं न कोपि साधारणं जलमस्ति, अपितु सोमः अस्ति। आकाशगंगा पर्जन्यवृष्ट्या पृथिव्योपरि जलस्य वर्षणं करोति। अयं वृष्टिः प्रथमतः कारणरूपस्य मेरोः पर्वतस्य परितः भवति, येन मेरोः विभिन्न दिशाभ्यः सीता, चक्षु आदिसंज्ञकानां गङ्गानां प्रादुर्भावः भवति। किन्तु भारतवर्षाय एषां गङ्गानां सृतिः पर्याप्तं नासीत्। यदा भगीरथेन कपिलमुनेः क्रोधदृष्ट्या भस्मीभूतानां स्वपितॄणां तारणाय तपः अतपत्, तदैव दक्षिण दिशातः गंगायाः पतनमभवत्, यां गङ्गां शिवः स्वजटासु अधारयत्। कालान्तरे एभ्यः जटाभ्यः अलकनन्दासंज्ञकस्य एका धारायाः प्रवाहः भारते अभवत्। पुराणेषु कथनमस्ति यत् गङ्गायाः जलं साधारणं जलं नास्ति, अपितु सोमस्य रूपमस्ति। तेन जलेन पृथिव्यामुपरि सर्वेषां ओषधीनां, सर्वेषां प्राणिनां पोषणं भवति। अयं संकेतमस्ति यत् आध्यात्मिकरूपेण गङ्गायाः प्रवाहः प्राणे - प्राणे भवितुं शक्यते। प्रवाहस्य किं परीक्षा अस्ति। यदा गंगायाः प्रवाहः भविष्यति, तदा क्षुधायाः भीषणता विनङ्क्ष्यति। पुराणेषु सार्वत्रिक रूपेण कथनमस्ति यत् गङ्गायाः उद्भवं विष्णोः वामपादाङ्गुष्ठेनाभवत्। वनस्पतिषु जलस्य प्रवाहः तेषां मूलेभ्यः शिखरं प्रति, गुरुत्वाकर्षण शक्तेः विपरीतं दिश्यां भवति। एवमेव जंगमेषु प्राणिषु अपि जलस्य प्रवाहः गुरुत्वाकर्षणतः विपरीत दिश्यां भवितुं शक्यमस्ति। अयं प्रवाहः न कोपि साधारण प्रवाहः अस्ति, अपितु बाह्यगङ्गाजलेन सदृशं शीतजनकं भवति।
 
भारतवर्षे यस्य गङ्गा नद्याः आरम्भः गङ्गाद्वारतः भवति, तस्याः प्रवाहः साधारणरूपेण उत्तरतः दक्षिणायां दिशां प्रति अस्ति। किन्तु वाराणस्यां अयं प्रवाहः क्षणिकरूपेण उत्तरवाही भवति। अयं वाराणस्याःवाराणस्यां स्थितायां गङ्गां विशिष्टतां प्रदाति। दक्षिण गङ्गादक्षिणगङ्गा - उत्तरगङ्गानां किं आध्यात्मिकं रहस्यं अस्ति, अयं अन्वेषणीयः। कथनमस्ति यत् दक्षिणगङ्गायाः सम्बन्धं वसिष्ठ ऋषितः अस्ति, उत्तरवाहिनी गङ्गायाः विश्वामित्र ऋषितः। यदा गङ्गा समुद्रेण सह सङ्गमयति, तदा सा सप्त सप्तर्षिपत्नीनां रूपं धारयति।
 
==मूर्तिकलासु गङ्गायाः लेखनम्==
[[File:गङ्गा Ganga at Delhi Museum.jpg|thumb|देहली संग्रहालये स्थितस्य एकस्य मूर्तेः चित्रम्।]]
सार्वत्रिक रूपेण, मूर्तिकलासु गङ्गायाः चित्रणे तस्याः प्रतिष्ठा मकरोपरि भवति। पुराणेषु मकरस्य कानि अर्थानि भवितुं शक्यन्ते, अयं [https://puranastudy.wordpress.com/%E0%A4%AE%E0%A4%95%E0%A4%B0-%E0%A4%AE%E0%A4%99%E0%A5%8D%E0%A4%97%E0%A4%B2/%E0%A4%AE%E0%A4%95%E0%A4%B0/ अन्यत्र] वर्तते। ओंकारस्य परिकल्पनं मुख्यतः त्रिवर्णेभिः अस्ति - अ, उ एवं म। चतुर्थी अर्धमात्रा अस्ति। अ - प्राणेन ब्रह्माण्डस्य ऊर्जायाः ग्रहणम्। उ - ऊर्जायाः संरक्षम्, ऊर्जायाः क्षरणतः रक्षणम्। म - यस्याः ऊर्जायाः संरक्षणं असफलं अभवत्, तस्याः पुनर्नवीनीकरणम्। पञ्चतन्त्रे कथनविशेषमस्ति यत् छन्दःशास्त्रस्य रचनाकारस्य पिङ्गलऋषेः मरणं मकरकारणेन अभवत्। अस्मिन् संदर्भे टिप्पणी अस्ति -
 
पंचतन्त्रे कथनमस्ति यत् छन्दःशास्त्रस्य रचनाकारं पिङ्गलं मकर नामक जलजन्तुः व्यापादितवान् ( पञ्चतन्त्रम् [https://sa.wikisource.org/s/12y 2.35] )। अयं कथनं न केवलं स्थूलार्थस्य कथनमस्ति। ऊर्जायाः अव्यवस्थायाः निरोधस्य उपायं अस्ति यत् सर्वां ऊर्जां छन्दोभिः आबद्धं कुरु। तदा ऊर्जायाः अनुपयोगी भागः, यस्य संज्ञा ओंकारे मकारः भवति, न्यूनतमं भविष्यति। छन्दः शब्देन न केवलं गायत्री, त्रिष्टुप आदि छन्दानां बोधं भवति, अपितु सर्वेषां भक्तीनां अपि बोधं भवति। न कोपि क्रिया भक्तिरहितं भवेत्, तत् छन्दोबद्धता।
 
किं गङ्गा ओंकाराक्षरे चतुर्थी अर्धमात्रा, प्रकृत्याः विशिष्टरूपमस्ति, अयं अन्वेषणीयः।
 
==गङ्गायाः प्रकृतस्थितिः==
"https://sa.wikipedia.org/wiki/गङ्गानदी" इत्यस्माद् प्रतिप्राप्तम्