"गङ्गानदी" इत्यस्य संस्करणे भेदः
Content deleted Content added
No edit summary |
|||
पङ्क्तिः ३४:
शिवः तां गङ्गां स्वजटायां धृतवान्। गङ्गा पापेभ्यः सर्वान् उद्धरति ।
पुराणेषु गङ्गायाः विशिष्टाः संदर्भाः [http://puranastudy.ultimatefreehost.in/pur_index9/pva1.htm अन्यत्र] द्रष्टव्याः। पुराणकथनानुसारेण, सूर्यः स्वरश्मिभिः यं जलं गृह्णाति, तस्य ब्रह्माण्डे वितरणं सः आकाशगंगया माध्यमे करोति। अयं जलं न कोपि साधारणं जलमस्ति, अपितु सोमः अस्ति। आकाशगंगा पर्जन्यवृष्ट्या पृथिव्योपरि जलस्य वर्षणं करोति। अयं वृष्टिः प्रथमतः कारणरूपस्य मेरोः पर्वतस्य परितः भवति, येन मेरोः विभिन्न दिशाभ्यः सीता, चक्षु आदिसंज्ञकानां गङ्गानां प्रादुर्भावः भवति। किन्तु भारतवर्षाय एषां गङ्गानां सृतिः पर्याप्तं नासीत्। यदा भगीरथेन कपिलमुनेः क्रोधदृष्ट्या भस्मीभूतानां स्वपितॄणां तारणाय तपः अतपत्, तदैव दक्षिण दिशातः गंगायाः पतनमभवत्, यां गङ्गां शिवः स्वजटासु अधारयत्। कालान्तरे एभ्यः जटाभ्यः अलकनन्दासंज्ञकस्य एका धारायाः प्रवाहः भारते अभवत्। पुराणेषु कथनमस्ति यत् गङ्गायाः जलं साधारणं जलं नास्ति, अपितु सोमस्य रूपमस्ति। तेन जलेन पृथिव्यामुपरि सर्वेषां ओषधीनां, सर्वेषां प्राणिनां पोषणं भवति। अयं संकेतमस्ति यत् आध्यात्मिकरूपेण गङ्गायाः प्रवाहः प्राणे - प्राणे भवितुं शक्यते। प्रवाहस्य किं परीक्षा अस्ति। यदा गंगायाः प्रवाहः भविष्यति, तदा क्षुधायाः भीषणता विनङ्क्ष्यति। पुराणेषु सार्वत्रिक रूपेण कथनमस्ति यत् गङ्गायाः उद्भवं विष्णोः वामपादाङ्गुष्ठेनाभवत्। वनस्पतिषु जलस्य प्रवाहः तेषां मूलेभ्यः शिखरं प्रति, गुरुत्वाकर्षण शक्तेः विपरीतं दिश्यां भवति। एवमेव जंगमेषु प्राणिषु अपि जलस्य प्रवाहः गुरुत्वाकर्षणतः विपरीत दिश्यां भवितुं शक्यमस्ति। अयं प्रवाहः न कोपि
भारतवर्षे यस्य गङ्गा नद्याः आरम्भः गङ्गाद्वारतः भवति, तस्याः प्रवाहः साधारणरूपेण उत्तरतः दक्षिणायां दिशां प्रति अस्ति। किन्तु वाराणस्यां अयं प्रवाहः क्षणिकरूपेण उत्तरवाही भवति। अयं वाराणस्यां स्थितायां गङ्गां विशिष्टतां प्रदाति। दक्षिणगङ्गा - उत्तरगङ्गानां किं आध्यात्मिकं रहस्यं अस्ति, अयं अन्वेषणीयः। कथनमस्ति यत् दक्षिणगङ्गायाः सम्बन्धं वसिष्ठ ऋषितः अस्ति, उत्तरवाहिनी गङ्गायाः विश्वामित्र ऋषितः। यदा गङ्गा समुद्रेण सह सङ्गमयति, तदा सा सप्त सप्तर्षिपत्नीनां रूपं धारयति।
|