"भर्तृहरिः" इत्यस्य संस्करणे भेदः

→‎कानिचन उदाहरणानि: संचित्रसारमञ्जूषे योजनीये using AWB
परिचयः
पङ्क्तिः १:
==परिचयः==
'''भर्तृहरिः''' (Bharthruhari) [[संस्कृतम्|संस्कृत]]भाषायाः परम: विद्वान् कविश्चासीत् । [[अर्वाचीनकोशः|अर्वाचीनकोशे]] एवम् उल्लिखितम् अस्ति - भर्तृहरेः पिता वीरसेनः इति । अयं वीरसेनः कश्चन [[गन्धर्वः]] । तस्य चत्वारः पुत्राः - भर्तृहरिः, [[विक्रमादित्यः]], सुभटवीर्यः, मैनावती च । जम्बूद्वीपस्य अधिपस्य एकमात्रपुत्री सुशीला एव भर्तृहरेः माता । अधिपस्य पुत्रसन्ततिः न आसीत् इत्यतः भर्तृहरेः कृते राज्यम् अयच्छत् । अयम् [[उज्जैन|उज्जयिनीं]] राजधानीं कृत्वा राज्यशासनम् अकरोत् । ततः विक्रमादित्याय राज्यं दत्त्वा सुभटं सेनाधिकारिपदे नियोज्य निर्गतः इति । <br />
केषुचित् मराठिग्रन्थेषु भर्तृहरेः पिता गन्धर्वसेनः । तस्य चतस्रः पत्न्यः । गन्धर्वसेनस्य प्रथमः पुत्रः भर्तृहरिः ।
"https://sa.wikipedia.org/wiki/भर्तृहरिः" इत्यस्माद् प्रतिप्राप्तम्