"संस्कृतसाहित्यशास्त्रम्" इत्यस्य संस्करणे भेदः

→‎बाह्यसम्पर्कतन्तुः: संचित्रसारमञ्जूषे योजनीये using AWB
विलयः कृतः
पङ्क्तिः १:
[[Image:Kurukshetra.jpg|thumb|250px|महाभारतस्य तालपत्रम्]]
==संस्कृते किं नास्ति?==
इह खलु जगति अर्थानां प्रमित्यै प्रत्यक्षम्, अनुमानम्, उपमानम्, शब्द इत्यादीनि बहूनि प्रमाणानि अङ्गीकृतानि सन्ति शास्त्रकारै: । तत्र शब्द इति प्रमाणं यदि न स्यात् तर्हि सर्वं जगदिदम् अन्धे तमसि निमज्जेत्, तदाह दण्डी
संस्कृते किं वा अस्ति ? इति बहवः संस्कृतविद्यार्थिनः पृच्छन्ति । यद्यपि एषः प्रश्नः अज्ञानमूलः, तथापि एतस्य उत्तरं वक्तुम् अशक्नुवन् संस्कृतच्छात्रः नतमस्तकः सन् तिष्ठति । संस्कृते किं नास्ति ? इति आधिकारिकतया प्रतिप्रश्नं कर्तुं सामर्थ्यं न भवति संस्कृतच्छात्रस्य अतः एव सस्कृतस्य एतादृशी स्थितिः । अद्यतनसंस्कृतच्छात्रः अजपालितसिंहशिशुः इव अस्ति । तस्य आत्मविस्मृतिः सञ्जाता अस्ति । स्वाभिमानः तस्मिन् न जागर्ति । अतः दिशादर्शनार्थं किञ्चिदत्र प्रयतते ॥
: '''इदमन्धं तम: कृस्नं जायेत भुवनत्रयम् ।'''
संस्कृतवाङ्मयं द्विधा विभक्तुं शक्यम्-आध्यात्मिकं भौतिकं चेति । आध्यात्मिकं नाम केवलं देवस्तुतिपरं न । तत्र सर्वे शास्त्रीयविषयाः अपि अन्तर्भवन्ति । वेदाः, वेदाङ्गानि, उपवेदाः पुराणानि, इतिहासः, धर्मशास्त्रं, दर्शनानि इत्यादयः सर्वे आध्यात्मसाहित्यशब्देन निर्दिश्यन्ते ।पुराणादयः विविधशास्त्रतत्त्वानि प्रतीकात्मकतया निरुपयन्ति । दशावतारकथा परिणामघट्टं निरुपयति । हयग्रीवकथा मनुष्यहययोः मस्तिष्कसाम्यं प्रतिपादयति । एतादृशानि बहूनि उदाहरणानि प्रदर्शयितुं शक्यानि ॥
: '''यदि शब्दाह्वयं ज्योतिरासंसारं न दीप्यते ॥'''
भौतिकविषयेषु साहित्यं, सामूहिकं, विज्ञानं चेति त्रयः भागाः । विज्ञाने तु गणितं, भौतशास्त्रं रसायनशास्त्रं , जीवशास्त्रं, ज्योतिश्शास्त्रम् इत्यादयः गण्यन्ते । सामूहिके इतिहासः अर्थशास्त्रं राज्यशास्त्रं भूगर्भशास्त्रं इत्यादयः अन्तर्भवन्ति ।साहित्ये च दृश्यश्रव्यमिश्रभेदाः परिगण्यन्ते ॥
एतादृश: शब्द: यदा श्रूयते तदा नियमेन कश्चिदर्थ: प्रतीयते । यदा च कश्चिदर्थ: प्रतीयते तदा नियमेन तद्वाचक: शब्द: प्रतिभाति । अत एव अर्थे शक्यतावच्छेदकस्येव शब्दस्यापि विशेषणतया भानमिति शब्दविद:, तदुक्तं [[भर्तृहरिः|भर्तृहरिणा]] –
संस्कृतस्य आध्यात्मिकं साहित्यपरं च वैशिष्ट्यं सर्वैः ज्ञातचरम् एव इत्यतः तदत्र न परामृश्यते ॥
: '''न सोऽस्ति प्रत्ययो लोके य: शब्दादनुगमादृते ।'''
==सामूहिकम्==
: '''अनुविद्धमिव ज्ञानं सर्वं शब्देन भासते ॥'''
सामुहिकविषयम् अधिकृत्य पाश्चात्यानां पैनः पुन्येन कथनं श्रूयते यत् भारतीयानाम् इतिहासप्रज्ञा नास्ति, कालगणनानैपुण्यं नास्ति इति । किम् इतिहासः नाम केचन वर्षविशेषाः, कानिचित् नामानि, काश्चित् पराजयगाथाः च ? विद्यालये यत् इदानीं पाठ्यते तावन्मात्रकम् एव किम् भवति इतिहासः ? इतिहासपठनस्य उद्देश्यं किमिति आदौ परिचिन्तनीयम् । सुन्दरस्य भविष्यस्य निर्माणम् एव इतिहासस्य लक्ष्यम् इति मम मतिः । अतः एव खलु स्वामी विवेकानन्दः उक्तवान् यत् येषाम् उत्कृष्टः भूतकालः अस्ति तेषाम् एव भविष्यत् कालः उत्तमः सम्भवति इति? एताः वर्ष-नाम –पराजयगाथाः पठामः चेत किं पुर्वोक्तं लक्ष्यं सिध्दं भवेत् ? तादृशं लक्ष्यं साधयितुं रामायण – महाभारतादीनां पठ्नम् एव उत्तमं साधनं खलु ?
एवं शब्दार्थयो: अविनाभावस्य सत्त्वादेव महाकविना कालिदासेन। पार्वतीपरमेश्वरयो: उपमानत्वेन वागर्थयो: निर्देश: कृत: नान्ययो: कयोश्चित् ।
कालगणनानुसारी इतिहासः भारते नास्ति इत्यतः एषा युक्तिः खलु उपस्थाप्यते ? इति केचित् वदेयुः । तत्तु सर्वथा असमञ्जसम् । राजतरङ्गिण्यादयः एतिहासिकाः ग्रन्थाः अत्र सन्ति एव बहवः ॥ ये सेकेण्ड् नामकं कालं लघुतमं मन्यन्ते, ये च वर्षम् एव बृहत्तमं मन्यन्ते, ते लवस्य परार्धस्य च उपयोक्तृणाम् अस्माकम् उपहासं यत् कुर्वन्ति तत् पङ्गुना खञ्जेन वा कृतः पादवतः उपहासः इव भवति ॥
[[File:Devimahatmya Sanskrit MS Nepal 11c.jpg|thumb|320px]]
यद्यपि शब्दार्थया साहित्यं सर्वेषु वाक्येषु साधारणम् तथापि काव्यगतेषु वाक्येषु तद्विलक्षणमेव । तत्र यादृशं साहित्यं प्रतीयते तादृशं साहित्यमन्यत्र सुतरां नोपलभ्यते । अत्र हि वाक्येषु विलक्षणं सादृश्यं वर्तते । वैलक्षण्यं च शब्दानाम् अलङ्कृतत्वेन व्यञ्जकत्वेन च अर्थानां तु कल्पितत्वेन व्यञ्जकत्वेन च । इदं वैलक्षण्यं मनसिकृत्यैव भामहादय आलङ्कारिका: ‘काव्यं नाम सहितौ शब्दार्थौ’ इत्याचचक्षिरे ।

काव्यगतयो: शब्दार्थयो: विलक्षणस्य साहित्यस्य दर्शनादेव काव्यविचारपरस्यास्य शास्त्रस्य साहित्यशास्त्रम् इति नामधेयं सम्पन्नम् । युक्तं चेदम्, वाक्यान्तरे अविद्यमानस्य साहित्यस्य प्रतिपादनात् । [[अलङ्काराः|अलङ्कारशास्त्र]]मिति तु नामान्तरम् । अलङ्काराणां बाहुल्येन प्रतिपादनस्य सद्भावात् नामेदं प्रवृत्तम् । यद्वा, प्राचीनै: भामहादिभि: सत्स्वपि बहुषु पदाथेर्षु काव्ये सारभूततया अलङ्कारमेव अङ्गीचक्रु: नान्यम् औचित्यादिकम् । अनेन तस्मिन् काले तस्यैव प्राधान्यं सिद्धम् । ‘प्राधान्येन व्यपदेशा भवन्ति’ इति नियमेन प्रधानभूतानामलङ्काराणां प्रतिपादकस्यास्य शास्त्रस्य तदेव नाम सम्पन्नम् । यद्यपि उत्तरे काले अन्यस्यैव रसादे: सारभूतत्वात् प्राधान्यत पाश्चात्त्यै: विमर्शकै: निर्धारितम् तथापि कृतपूर्वस्य नामधेयस्य अनपायात् अद्यापि तदेव नाम प्रवर्तते ।
[[Image:Ravi Varma-Shakuntala columbia2.jpg|thumb|175px|[[अभिज्ञानशाकुन्तलस्य]] एकं सुन्दरं चित्रम्,[[राजा रविवर्मा]]]]

अस्मिन् शास्त्रे प्राधान्येन विचारणीयं भवति काव्यम् । ततश्च काव्यं लक्ष्यं भवति, शास्त्रं चेदं लक्षणम् इत्येतदुक्तं भवति । काव्यविचारपरेऽस्मिन् शास्त्रे [[काव्यस्य लक्षणम्]], तस्य प्रयोजनम्, तस्य कारणम्, वाच्य-लक्ष्य-व्यङ्ग्यरूपम् अर्थत्रैविध्यम्, व्यञ्जनेति व्यतिरिक्तवृत्ते: सयुक्तिकं समर्थनम्, रसादि:, काव्यगता दोषा:, तद्गता: गुणा:, शब्दविन्यासरूपा रीति:, यमकोपमादयोऽलङ्कारा:, कविसमयश्चेति विषया मुख्यतया विमृष्टव्या भवन्ति ।

काव्ये आत्मस्थानीय: पदार्थ: क इत्यस्मिन् विषये मतभेदात् नानासिद्धान्ता: आविर्भूता: सन्ति । तत्र भामहादय: प्राचीना: काव्ये आत्मस्थानीयम् अलङ्कारं वदन्ति । वामनो रीतिम् । आनन्दवर्धनो ध्वनिम् । कुन्तको वक्रोक्तिम् । क्षेमेन्द्र औचित्यम् । अभिनवगुप्तादयस्तु रसम् । इमे षट् सिद्धान्ता: प्रस्थानशब्देन व्यवह्रियन्ते । सम्प्रदाय इत्यनेनापि शब्देन एषां व्यवहार: । । क्रमेण तानि प्रस्थानानि यथा –
# [[अलङ्कारप्रस्थानम्]] - [[भामह]]-[[जयदेव]]-[[रुद्रट:|रुद्रटादय:]] ।
# [[रीतिप्रस्थानम्]] - [[वामन:]] ।
# [[वक्रोक्ति:]] - [[कुन्तक:]] ।
# [[ध्वनि:]] - [[आनन्दवर्धन:]] ।
# [[औचित्यप्रस्थानम्]] - [[क्षेमेन्द्र:]] ।
# [[रसप्रस्थानम्]] - [[अभिनवगुप्तः]]-[[मम्मटः]]- [[विश्वनाथ:|विश्वनाथादय:]] प्रायेण सर्वेरपि अर्वाचीनाः आालङ्कारिका: ।
तत्र [[अलङ्काराः|अलङ्कारो]] नाम शब्दनिष्ठ: अर्थनिष्ठो वा कश्चित् शोभाकारी धर्म: । [[रीतिः|रीतिर्नाम]] पदविन्यास: । [[ध्वनिः|ध्वनिर्नाम]] प्रधानो व्यङ्ग्य: । [[वक्रोक्तिः|वक्रोक्तिर्नाम]] प्रतिभावशात् भङ्ग्यन्तरेण प्रतिपादनम् । [[औचित्यम्|औचित्यं]] गुणालङ्कारादीनाम् आनुरूप्यम् । [[रसः|रसो]] नाम विभावानुभावव्यभिचारिभि: अभिव्यक्तो रत्यादि: । यद्यपि एषां स्वरूपे क्वचित् विप्रतिपत्ति: वर्तते तथापि सामान्येन इदमभिधानमिति मन्तव्यम् ।
[[Image:Radha and Krishna in Discussion.jpg|thumb|250px|right|[[जयदेवकवेः]] [[गीतगोविन्दस्य]] रमणीयं चित्रम् ]]
साहित्यशास्त्रे यद्यपि बहवो विमर्शका: प्रसिद्धा: सन्ति । न तेषां सवेर्षां विवरणमत्र कर्तुं शक्यम् । तथापि विख्यातानां कतिपयानाम् आलङ्कारिकाणां नामानि काश्चित् तेषां कृतयो जीवितकालश्च प्रायेण निरूप्यते, यथा
{| width="100%"
|- valign="top"

{| border="2" cellpadding="4" cellspacing="0" style="margin: 1em 1em 1em 0; background: #f9f9f9; border: 1px #aaa solid; border-collapse: collapse; font-size: 95%;"
|- bgcolor="#CCCCCC" align="center"
! नामानि !! प्रसिद्धा कृति: !! क्रिस्तशके प्रायेण काल:

| [[भरत:]] || [[नाट्यशास्त्रम्]] || प्रथमं शतकम्

| [[भामह:]]|| [[काव्यालङ्कार:]] || सप्तमं शतकम्

| [[दण्डी]] || [[काव्यादर्श:]] || सप्तमं शतकम्

| [[उद्भट:]] || [[काव्यालङ्कारसारसङ्ग्रह:]] || अष्ठमं शतकम्

| [[वामन:]] || [[काव्यालङ्कारसूत्रवृत्ति:]] || अष्ठमं शतकम्

| [[रुद्रट:]] || [[काव्यालङ्कार:]] || नवमं शतकम्

| [[आनन्दवर्धन:]] || [[ध्वन्यालोक:]] || नवमं शतकम्

| [[राजशेखर:]] || [[काव्यमीमांसा]] || दशमं शतकम्

| [[भट्टनायक:]] || [[हृदयदर्पण:]] || दशमं शतकम्

| [[अभिनवगुप्त:]] || [[अभिनवभारती]],[[लोचनं]] च || दशमं शतकम्

| [[धनञ्जय:]] || [[दशरूपकम्]] || दशमं शतकम्

| [[भोज:]] || [[सरस्वतीकण्ठाभरणम्]],[[शृङ्गारप्रकाश:]] || एकादशं शतकम्

| [[महिमभट्ट:]] || [[व्यक्तिविवेक:]] || एकादशं शतकम्

| [[क्षेमेन्द्र:]] || [[औचित्यविचारचर्चा]] || एकादशं शतकम्

| [[मम्मट:]] || [[काव्यप्रकाश:]] || एकादशं शतकम्

| [[रुय्यक:]] || [[अलङ्कारसर्वस्वम्]] || द्वादशं शतकम्

| [[हेमचन्द्र:]]|| [[काव्यानुशासनम्]] || द्वादशं शतकम्

| [[जयदेव:]] || [[चन्द्रालोक:]] || त्रयोदशं शतकम्

| [[विद्यानाथ:]] || [[एकावली]] || त्रयोदशं शतकम्

| [[विद्यानाथ:]] || [[प्रतापरुद्रीयम्]] || त्रयोदशं शतकम्

| [[विश्वनाथ:]]|| [[साहित्यदर्पण:]] || त्रयोदशं शतकम्

| [[केशवमिश्र:]] || [[अलङ्कारशेखर:]] || षोडशं शतकम्

| [[अप्पयदीक्षित:]] || [[कुवलयानन्द:]],[[चित्रमीमांसा]] च || षोडशं शतकम्

| [[जगन्नाथ:]] || [[रसगङ्गाधर:]] || सप्तदशं शतकम्

| [[चूडामणिदीक्षित:]] || [[काव्यदर्पण:]] || सप्तदशं शतकम्

==प्राचीन विज्ञानम्==
*[[प्राचीनभूगर्भशास्त्रम्]]
Line २२ ⟶ ९९:
*[[प्राचीनवास्तुविद्या]]
*[[प्राचीनसङ्गीतम्]]

==भूगर्भशास्त्रम् ==
{{Main|भूगर्भशास्त्रम्}}
भूमेः गोलाकृतिंम् ऐदम्प्राथम्येन मागल्लनामकः प्रतिपादितवान् इति वयं पाठ्यपुस्तकेषु पठामः । संस्कृतभाषायां तु आप्राचीनकालतः व्यवहारः भूगोलम् इत्येव । एषः व्यवहारः एव खलु समर्थयति भूमेः गोलाकारताम् ? अपि च गोलपरिभाषायाम् उच्च्यते ।

::मृदम्ब्वग्न्यनिलाकाशपिण्डोऽयं पाञ्चभौतिकः।
::कपित्थफलवद्वृत्तः सर्वकेन्द्रेखिलाश्रयः ॥
::स्थिरः परेशशक्त्येव सर्वगोऴादधः स्थितः ।
::मध्ये समान्तादण्डस्य भूगोलो व्योम्नि तिष्ठति ॥ इति ॥
[[भूमिः]] पञ्चभूतात्मिका, कपित्थफलाकारिका च इति अत्र स्पष्टतया निरूपितम् अस्ति । कपित्थफलकारकत्वं नाम दैर्घ्याधिक्ययुक्तगोलत्वम् । भूकेन्द्रं प्रति सर्वम् आकृस्ष्टं भवति अन्यत् किमपि अनाश्रित्य आकर्षणशक्त्त्या (परेशशक्त्या) निरालम्बा भूमिः व्योम्नि तिष्ठति इति एतस्मात् श्लोकात् ज्ञायते ।

आर्यभट्ट भूव्यासम् अधिकृत्य वदति – ञिला भूः इति । तन्नाम भूव्यासः १०५० योजनमितः भवति (१०५०=१२=१२६००किलोमीटर्) आधुनिकाः अपि एतत् एव परिमाणं प्रतिपादयन्ति ।

भूमिः एव भ्रमति इति, सौरमण्डलम् अपि पराशक्तिं केन्द्रीकृत्य भ्रमति इति च अस्मात्पूर्वजैः सिद्धान्तितम् । कालिदासस्य काले भूशास्त्रविज्ञानं कथम् आसीत् इति मेघदूतस्य पठनात् स्फुटं भवति ।

भूभृत् इति पर्वतस्य पर्यायपदम् । पर्वताः भूतोलनं साधयन्ति इति आधुनिकाः अपि अङगीकुर्वन्ति। [[श्रीकृष्णविलासकाव्यम्|श्रीकृष्णविलासकाव्ये]] भूमिब्रह्मसंवादे भूस्थितिः, भूकम्पनं सूर्यरश्मिमहिमा इत्यादयाः विषयाः काव्यशैल्या प्रतिपादिताः सन्ति । दिनचलनं, वार्षिकचलनम्, अयनं, ग्रहणं, समरात्रम् इत्यादयः बहवः विषयाः अतिप्राचीनकाले एव भारते चर्चिताः आसन् ।भूगुरुत्वाकर्षणविषये भास्कराचार्येण विशदतया प्रतिपादितम् ।

==गणितम्==
{{Main|गणितम्}}
आधुनिकगणकयन्त्रम् अपि अतिशेते भारतीया [[वेदगणितम्|वेदगणित]]पद्धतिः । शून्यं, दशांशपद्धतिः, सङख्याः, मूल्यम् इत्यादयः बहवः अंशाः भारतीयानां कारणतः एव गणितक्षेत्रं प्रविष्टवन्तः । पैथगोरियन् सिद्धान्तः इति यत् इदानीं पाठ्यते (कर्णवर्गः उ पादवर्गः अ लम्बवर्गः ) स च सिद्धान्तः पैथगोरसस्य जननात् त्रिशतवर्षपूर्वम् एव भारते शुल्बसूत्रे निरूपितः आसीत् ।
::तत्कृत्योर्योगपदं कर्णः दोष्कर्णवर्गयोर्विवरात् ।
::मूलं कोटिः कोटिश्रुतिकृत्योः अन्तरात् पदं बाहुः ।। इति उच्च्यते ।
पिङगलाचार्यः छन्दःशास्त्रे मेरुप्रस्तारम् अधिकृत्य यत् प्रतिपादयति तदेव पास्कल्नामकेन अन्विष्टम् इति वयं पाठ्यपुस्तकेषु पठामः । ।
अहो विचित्रा अस्माकं विद्याभ्यासरीतिः !

==भौतशास्त्रम्==
{{Main|भौतशास्त्रम्}}ऊर्जसंरक्षणनियमः, [[अणुसिद्धान्तः]], द्र्व्यनिर्माणम् इत्यादयः विषयाः वैदिककालादारभ्य भारते प्रसृताः दृश्यन्ते । शब्दस्य प्रकाशस्य च गतिः स्वभावादयश्च न्यायवैशेषिकमीमांसादिषु चर्चाविषयाः जाताः दृश्यन्ते । शब्दाः वायौ प्रचयम् अपचयं च निर्माय सञ्चरति । तरङ्गरूपस्य अस्य शब्दस्य प्रतिफलनम् अपि चर्चितः अस्ति । प्रकाशस्य प्रतिफलनम्, अपभ्रंशः इत्यादयः विषयाः तर्कशास्त्रे दृश्यन्ते । एते विषयाः वात्स्यायनभाष्ये रश्मिपरावर्तनशब्देन निर्दिष्टाः । प्रकाशवेगः, द्वैतस्वभावः इत्यादयः क्रिस्तीयनवमशतके जातेन आचार्यवाचस्पतिमिश्रेण विरचितायां तात्पर्यटीकायां प्रतिपादिताः । एते च विषयाः पाश्चात्यपण्डितैः सप्तदशे शतके ज्ञाताः । क्वाण्टम् सिद्धान्तम् अधिकृत्य अपि उपनिषत्सु चर्चा कृता दृश्यते ।

सायणाचार्यः प्रकाशस्य वेगम् एवं प्रतिपादयति –
::योजनानं सहस्रे द्वे द्वे शते द्वे च योजने ।
::एकेन निमिषार्धेन क्रममाण नमोऽस्तुते ।। इति
अस्य व्याख्याने प्रकाशवेगः ६४०००क्रोशमितः (१८५००मैल्परिमितः) इति उक्तम् अस्ति । आधुनिकाः च प्रकाशवेगं १८६२०२.३९६० मैल् मितं वदन्ति ।
ऊर्जं पिण्डस्य आनुपातिकं अस्ति (E=mc2) इति ऐन्स्टिन्महोदयस्य दर्शनम् इति वादः श्रूयते । “त्वाष्टृयन्त्रभ्रमिभ्रान्तमार्ताण्डज्योतिरुतज्ज्वलः” इति [[भवभूतिः|भवभूतेः]] प्रयोगं पश्यन्तु भवन्तः । [[विश्वकर्मा|विश्वकर्म]]णः पुत्री संज्ञा सूर्यवधूः जाता किन्तु सूर्यस्य अधिकतेजसा पीड्यमानया संज्ञया पिता बोधितः । सः पिता सूर्यं त्वाष्टृयन्त्र्म् आरोप्य ऊर्जन्यूनतां चकार इति पुराणकथा । ऊर्जपिण्डबन्धनं निरूपयति खलु एषा कथा ।

एकदा सैन्स् टुडे नामिकायां पत्रिकायां प्राकाशितम् [[ऐन्स्टिन्]]महाशयस्य वाक्यम् स्मरणीयम् । तत् एवं अस्ति ।
`You hail from India in the name of Hindu Philosophy . Yet you not cared to learn Sanskrit . Come along, see my liabrary which treasures classics from Sanskrit, the Gita and other treatises on Hindu Philosophy . They are the main source of my inspirations and guidelines for the purpose of scientific investigations and formulation of theories’ .

==विमानशास्त्रम्==
{{Main|विमानशास्त्रम्}}
वायुप्रवाहतः उत्पन्नम् ऊर्जं, सौरोर्जम्, एतरेन्धनोर्जं च उपयुज्य सञ्चार्यमाणानि विमानानि अत्र आसन् । [[भरद्वाजः|भरद्वाज]]महर्षेः यन्त्रसर्वस्वम्, [[अगस्त्यः|अगस्त्यस्य]] शक्तिसूत्रम्, ईश्वरस्य सौदामिनिकला, भरद्वाजस्यैव अंशुमात्तन्त्रं, [[शाकटायनः|शाकटायन]]स्य वायुतत्त्त्वप्रकरणं वैश्व मारुततन्त्रं च, [[नारदः|नारद]]स्य धूमप्रकराणम् इत्यादीनां विमानशास्त्रसम्बद्धानां ग्रन्थानाम् उल्लेखाः दृश्यन्ते । भोजस्य समराङगणसूत्रधारं, शौनकमहर्षेः व्योमयानतन्त्रं, गर्गस्य यन्त्त्त्रकल्पः, नारायणस्य विमानचन्द्रिका, वाचस्पतेः यानबिन्दुः [[दुण्डिनाथः|दुण्डिनाथ]]स्य व्योमयानार्कप्रकाशिका, चक्रायणिमुनेः केतुयानप्रदीपिका इत्यादयः अनेके ग्रन्थाः अपि विमानशास्त्रसम्बद्धाः एव ।

विमानस्य अवरोहणकाले, भूस्पर्षसमये चैव अपघातस्य सम्भावना अधिक इति भरद्वाजमहर्षिः कथयति । अद्यापि समस्ति खलु सा एव स्थितिः ? विस्तारभयात् विषयोऽयं न विस्तार्यते । ।

==रसतन्त्रम्==
{{Main|रसतन्त्रम्}}रसतन्त्रविषये संस्कृतग्रन्थाः बहवः सन्ति । [[वाग्भटः|वाग्भट]]स्य रससमुच्चयः एतेषु प्राधान्यम् आवहति शिल्परत्नं, विष्णुधर्मोत्तरं, मानससारः, मानसोल्लासः, रससंहिता इत्यादयाः रसतन्त्रस्य विविधविषयान् प्रतिपादयन्ति । स्फटिकं, काचः(लेन्स्), वर्णः, सुधा(सिमेण्ट्),निर्यासः, सुगन्धवस्तूनि, कागदं, [[लोहाः]] विशिष्टमृत्पात्राणि इत्यदीनां पदार्थानां निर्माणं, रसप्रक्रिया च एतेषु ग्रन्थेषु निरूपिताः सन्ति । अत्र अनेकविधानि आम्लानि (acids) क्षाराणि(bases ) च उल्लिखितानि । एतेषाम् उपयोगेन कृत्रिमपदार्थानां निर्माणाय अपेक्षिता साङकेतिकविद्या अपि तेषु प्रतिपादिता ।

चिकित्सायाम् अपि अस्य रसतन्त्रस्य उपयोगः आसीत् । पातञ्जलमहर्षेः लोहशास्त्रं लोहसंस्करणेन लवणनिर्माणरीतिं वर्णयति । क्रि.पू. द्वितीये शतके जातस्य नागर्जुनस्य रसरत्नाकरग्रन्थः लोह्यायनिर्माणार्थं साङकेतिकव्यवस्थां निरूपयति । परीक्षणशालायाः रचनाम्, तत्रत्यानि उपकरणानि, एकैकस्यापि प्रक्रियायाः कृते आवश्यकाः तापविशेषाः, रसतः औषधनिर्माणरीतिः इत्यादयः अपि अस्मिन् ग्रन्थे सन्ति । रसस्तम्भनादयः नवदशप्रक्रियाः अपि अत्रैव वर्ण्यन्ते । एकादशशतकीयः (क्रि.श.११) रसार्णवग्रन्थः लोहस्य विविच्य ज्ञानाय ज्वालापरीक्षणव्यवस्थां (flame test) वर्णयति । देहलीस्थः विष्णुस्थम्भः अजन्ताचित्राणि च भारतीयरसतन्त्रस्य प्रत्यक्षोदाहरणानि सन्ति ।

==जीवशास्त्रम्==
{{Main|जीवशास्त्रम्}}
[[चरकसंहिता]], [[सुश्रुतसंहिता]], [[अष्टाङगहृदयम्|अष्टाङगहृदयं]], [[भावप्रकाशः]] इत्यादयः प्रसिद्धाः [[आयुर्वेदग्रन्थाः]] केचन । शस्त्रक्रिया, प्रतिरोधचिकित्सा च प्राचीनकालात् एव अत्र आसीत् । ९२७ तमे क्रिस्ताब्दे भोजराजस्य मस्तिष्कशस्त्रक्रियां [[जीवकः]] नाम वैद्यः कृतवान् इति श्रूयते । सुश्रुतसंहितायां शस्त्रक्रियोपकारकाणि शस्त्रयन्त्रादीनि बहूनि उल्लिखितनि । भावमिश्रस्य भावप्रकाशे रक्तसञ्चारविषये अपि उच्यते । चिकित्सार्थं मोहनिद्रायाः (हिप्नाटिसम्) उपयोगः भारते एव ऐदम्प्राथम्येन कृतः ।

[[वृक्षायुर्वेदः]], [[गजायुर्वेदः]], [[अश्वायुर्वदः]] इत्यादयः निरवधिशाखाः तिर्यग्जीवशास्त्रम् अधिकृत्य प्रवृत्ताः । तेषां रोगाः, तच्चिकित्सा, तेषाम् [[आहारः]] इत्यादयाः अपि तत्र वर्णिताः । मृगवैद्यकस्य पिता इति विख्यातेन शालिहोत्रेण अश्वलक्षणम्, अश्वप्रश्नः इत्यादयः ग्रन्थाः रचिताः । [[गौतमः|गौतम]]स्य [[गावायुर्वेदः]], पालकाप्यस्य [[हस्तायुर्वेदः]] च लोके प्रसिद्धौ । [[वराहमिहिर]]स्य [[बृहत्संहिता]] वृक्षशुश्रूषाम् अधिकृत्य वदति ।

==ज्योतिश्शास्त्रम्==
{{Main|ज्योतिश्शास्त्रम्}}
असंख्याः ग्रहाः सन्ति, अन्यसौरमण्डलानि अपि भवितुम् अर्हन्ति इत्यादयः विचाराः भारतीये ज्योतिश्शास्त्रे रूढमूलाः सन्ति । ग्रहाणां स्थितिः, परस्पराकर्षणं, ग्रहणस्वरूपम् इत्यादयः अत्र विस्तरेण उक्ताः । कुजग्रहस्य स्वरूपं चपलः सरक्तगौरः मज्जासारश्च माहेयः इत्येवम् उक्तवान् अस्ति । उग्रतुषारावरणम् अस्ति इत्यतः रक्तवर्णयुक्तधवलवर्णः तत्र दृश्यते इति । कुजः (भूमिपुत्रः) इति शब्दः एव तद्ग्रहे जीवसम्भाव्यतां प्रकाशयति । आधुनिकाः अपि एतत् एव वदन्ति खलु ? सूर्यादीनां सञ्चारः भ्रममूलः, ग्रहाणां स्वप्रकाशता नास्ति इत्यादयः बहवः वैज्ञानिकाः अंशाः आर्यभटेन प्रतिपादिताः । एते विषयाः इतःपूर्वं परिचायिताः इत्यतः विरम्यते विस्तरात् ।

==वास्तुविद्या==
{{Main|वास्तुविद्या}}
सिन्धुसभ्यताचित्राणि प्रायः सर्वानपि आश्चर्यचकितान् कुर्वन्ति एव । तत्रत्या वास्तुविद्या अतिप्राचीना अत्युत्कृष्टा च । कर्णाटके बेलूरे विद्यमानः भूमिस्पर्शरहितः स्तम्भः, [[कोणार्क]]क्षेत्रे सूर्यदेवालयः, [[शृङगेरी|शृङगेरि]]स्तम्भाः, अनन्तपुरीस्थाः सप्तस्वरप्रभावाः मण्डपाधारः स्तम्भाः, [[अजन्ता]]–[[एल्लोर]]गुहाः [[देहली]]स्थः विष्णुस्तम्भः इत्यादयः अनेके अंशाः भारतीयवास्तुविद्यायाः गरिमाणं प्रामाणीकुर्वन्ति । मयमतं, [[मयसारः]], मनुष्यालयचन्द्रिका, सुप्रभेदागमः, वास्तुरत्नावली, कामिकागमः, बृहद्वास्तुमाला इत्यादिषु अनेकेषु ग्रन्थेषु वास्तुशास्त्रं निरूपितम् अस्ति ।

==सङ्गीतम्==
{{Main|सङ्गीतम्}}
संङ्गीतम् अधिकृत्य न बहु वक्तव्यम् अस्ति । यतः एतस्मिन् विषये सर्वे जानन्ति एव । चिकित्सार्थम् अपि सङ्गीतम् उपयुज्यते स्म अस्मदाचार्यैः । [[संङ्गीतचिकित्सारत्नाकरः|संङ्गीतचिकित्सारत्नाकर]]नामकः ग्रन्थः ३४८०० रोगाणां विषये विस्तरेण वदति । तेषां चिकित्सोपयोगिताम् अपि प्रतिपादयति सः ग्रन्थः ।
एकैकः अपि संस्कृतज्ञाः एकैकशास्त्रस्य पारङगतः सन् तत्तच्छास्त्रस्य परिरक्षणं प्रसारं च करोतु इति अपेक्षा ।

==बाह्यसम्पर्कतन्तुः==

*[http://nscdelhi.org/exhibition-gallery.php?gallery=184 Glimpse of Our Science and Technology Heritage gallery]
* [http://www.iish.org/index.php?option=com_content&view=article&id=71:a-brief-introduction-to-technological-brilliance-of-ancient-india&catid=37:heritage-india-news&Itemid=56 A brief introduction to technological brilliance of Ancient India] (Indian Institute of Scientific Heritage)
Line ४० ⟶ १७६:
124-132, [http://ncsm.gov.in/science_pdf/Propagation%20Vol%202%20-%2008%20Science%20Centres.pdf]

[[वर्गः:संस्कृतस्य महत्त्वम्]]

[[वर्गः:विषयः वर्धनीयःसंस्कृतसाहित्यम्‌]]
[[वर्गः:अलङ्कारशास्त्रम्]]
[[वर्गः:सारमञ्जूषा योजनीया‎]]
"https://sa.wikipedia.org/wiki/संस्कृतसाहित्यशास्त्रम्" इत्यस्माद् प्रतिप्राप्तम्