"सरस्वतीनदी" इत्यस्य संस्करणे भेदः

1
0
 
पङ्क्तिः १:
'''सरस्वती नदी''' नाम्ना एका नदी पुरा काले आसीत्। ताण्ड्यब्राह्मणस्य सारस्वतप्रदेशेन सह घनिष्ठतमसम्बन्धः अस्ति। सरस्वतीनदी यत्र लुप्ताऽभवत्, तस्य स्थानस्य नाम ‘विनशनम्' अस्ति। तस्याः पुनरुद्गमस्थानस्य अभिधानम् ‘प्लक्षप्रासवणम्' अस्ति।<ref>( ताण्ड्य० २५॥१०॥२१ )</ref> विनशनात् चतुश्चत्वारिंशत् दिनपर्यन्तं निरन्तरम्, अश्वगत्या चलित्वैव प्लक्षप्रासवणस्य उपसर्पणम्भवति।<ref>( ता० ब्रा० २५।।१०।१६ )</ref> न तावदेतावद् एव सरस्वतीदृषद्वत्योः मध्यवर्तीप्रदेशस्य तथा तयोः सङ्गमस्थानस्य अपि निर्देशो लभते। सर्वाधिकमहत्त्वपूर्णः सङ्केतः एवम् अस्ति - प्रजापतेः वेदिस्वरूपेण कुरुक्षेत्रस्य मान्यता - 'एतावतो वात्र प्रजापतेर्वेदिर्यावत् कुरुक्षेत्रमिति'<ref>( ताण्ड्य० २५॥१३॥३१ )</ref>। प्रजापतेः यज्ञस्य प्रतीकत्वेन ‘कुरुक्षेत्रम्' यज्ञवेदि सिद्धो भवति। अर्थादस्मिन्नेव प्रदेशे ब्राह्मणानां सङ्कलनं कृतमासीत्। यज्ञयागस्यापि पूर्णप्रतिष्ठाऽस्मिन्नेव प्रान्तेऽभवत्। [[सदस्यः:NehalDaveND/प्रयोगपृष्ठम्/मनुस्मृतिः|मनुस्मृतौ]] दृषद्वती-सरस्वत्योः उभयोः देवनद्योः मध्यवर्त्तीप्रदेशः ‘ब्रह्मावर्त्त'-नाम्ना ख्यातोऽभवत्।<ref>( मनु० २॥२२ )</ref> याज्ञिकसंस्कृत्याः केन्द्रं पीठस्थलञ्च इदमेव स्थानमस्ति, यत्र ब्राह्मणानां यज्ञप्रक्रियायाः पूर्णविकासः सम्पन्नोऽभवत्। अस्यैव प्रान्तस्य भाषा ‘राष्ट्रभाषा' अभवत्। अत्रत्यः आचारः समस्तभारतवर्षस्य मान्याचारोऽभवत्। अत्रत्य संस्कृतिरेव समस्तभारतवर्षस्य संस्कृतिरस्ति। 
 
{{सप्त नद्यः}}
"https://sa.wikipedia.org/wiki/सरस्वतीनदी" इत्यस्माद् प्रतिप्राप्तम्