"सत्यम्" इत्यस्य संस्करणे भेदः

→‎बाह्यसम्पर्कतन्तुः: संचित्रसारमञ्जूषे योजनीये using AWB
1
पङ्क्तिः १:
 
'''सत्यं''' भारतीयसंस्कृतौ मानवजीवनस्य अतीव महत्त्वपूर्णम् अङ्गं मन्यते। प्राचीनः भारतीयः समाजः आचारवान् आसीत् तथा सर्वजनहिताय सत्यानुष्ठाने आग्रही आसीत्। मिथ्यावादिनः जनाः यज्ञाय समुपयुक्ता न भवन्ति ।<ref>( ‘अमेध्यो वै पुरुषो यदनृतं वदति' श° ३॥१॥३॥१८)</ref> असत्यवादः जलेनाग्नेः सेचनमिवासीत्, सत्यवादनश्च घृतेनाग्नेः सेचनमिवासीत् । असत्यवादिनो जनस्य तेजः शनैः शनैः क्षीणो भवति । सः नित्यपापी भवति । ब्राह्मणकालिकसमाजः पापात्मनः आवर्तनशीलस्वभावेन पूर्णतया परिचितः अासीत् । असौ अजानात् यद्, यो मानवः एकदा पापं करोति, सोऽभ्यासवशेन तदनन्तरं पापान्तरस्यापि आचरणं करोति ।
 
'यः संकृत् पापकं कुर्यात् कुर्यादेनस्ततोऽपरम्'।<ref>ऐत. ब्रा. ७/२७</ref>
 
अतः पापं विहाय पुण्यं कर्त्तव्यम् । सत्यस्य श्रद्धायाश्चाचरणेन मानवः स्वर्गलोकं गच्छति । वाग्देवतायाः स्तनद्वयमस्ति - सत्यम् अनृतञ्चेति । सत्यं वाग्देव्याः पुत्रानुपासकांश्च रक्षति, किञ्च तमनृतं हन्ति ।
 
'''‘वाचो वाव तौ स्तनौ सत्यानृते वावते। अवत्यैनं सत्यं न तमनृतं हिनस्ति य एवं वेद'।'''<ref>( ऐत० ब्रा० ४।१ )</ref> ताण्ड्यब्राह्मणे अनृतभाषणं वाण्याः छिद्रं कथितं - '''<nowiki/>'एतद्वाचश्छिद्रं यदनृतम्''''।<ref>( ता० ८॥६॥१२ )</ref> अस्य तात्पर्यमिदमस्ति - यथा छिद्राभ्यन्तरात् सर्ववस्तूनि पतन्ति, तथैव मिथ्यावादिनो वाण्याः सारतत्त्वं निःसरति । सारतत्त्वविहीना वाणी स्वप्रभावेन कमपि जनं प्रभावयितुं समर्था न भवति। शतपथब्राह्मणे सत्यानृतयोः रूपनिर्देशाय एका सुष्ठूपमायाः प्रयोगः कृतः । ऐतरेयब्राह्मणे श्रद्धासत्ययोः मिथुनकल्पना मनोहराऽस्ति । श्रद्धा पत्नी अस्ति, सत्यं यजमानोऽस्ति । यजमानः स्वपत्न्या सह मिलित्वा यज्ञेन स्वर्ग्यमवाप्तुं समर्थो भवति । तेनैव प्रकारेण सत्यमपि श्रद्धया सह संयुक्तो भूत्वा स्वर्गलोकं जयति। उक्तं च -
 
'''‘श्रद्धापत्नी सत्यं यजमानः॥ श्रद्धासत्यं तदित्युत्तमं मिथुनम्॥'''
 
'''श्रद्धया सत्येन मिथुनेन स्वर्गाल्लोकान् जयतीति॥''''<ref>ऐ. ब्रा. ७/१०</ref>
 
== उल्लेखः ==
चराचरसृष्टेः नियामकम् अन्तिमं '''सत्यं''' नाम परमात्मा इति मन्यन्ते [[भारतम्|भारती]]याः [[शास्त्रम्|शास्त्र]]काराः । तत्रोक्तुं [[महाभारतम्|महाभारते]]-
: ''सत्यमेव परं ब्रह्म सत्यरुपो जनार्दनः ।''
"https://sa.wikipedia.org/wiki/सत्यम्" इत्यस्माद् प्रतिप्राप्तम्