"सामवेदः" इत्यस्य संस्करणे भेदः

{{वैदिकविज्ञानम्}}
सामवेदीयब्राह्मणानि
पङ्क्तिः १९४:
=== जैमिनीय शाखा ===
अस्याः शाखायाः समग्रांशाः, ब्राह्मण-श्रौत-गृह्यसूत्रसहिताः समुपलब्धाः सन्ति । जैमिनीयसंहिता नागराक्षरेऽपि [[लाहोर|लाहौर]]<nowiki/>नगरात् प्रकाशिताऽभवत् । अस्याः मन्त्राणां संख्या १६८७ वर्तते । तवलकारशाखा अस्या एव अवान्तरशाखा वर्तते । [[तवलकारः|तवलकारो]]<nowiki/>ऽयं [[जैमिनिः|जैमिनि]]<nowiki/>ऋषेः पट्टशिष्यः आसीत् । जैमिनीयसामगानस्य प्रथमप्रकाशन संस्कृतविश्वविद्यालयवाराणसीतोऽभवत् । सामगानमिदं पूर्वार्चिकेन सम्बद्धमस्ति । अस्य त्रयो भागाः सन्ति - आग्नेयः, ऐन्द्रः, पवमानश्चेति । एतेष्वादिमस्य चान्तिमस्य च पर्वस्य – विशेषविभागो नास्ति, किञ्चैन्द्रपर्वस्य चत्वारो भागाः सन्ति । सम्पूर्णग्रन्थे गानसंख्या १,२२४ वर्तते । कौथुमीयसामसंहितातः जैमिनीयसामसंहितायाः पाठे सर्वथा भेदी नास्ति, किञ्च गानप्रकारस्तु सर्वथा भिन्ना एवास्ति । अद्यपर्यन्तं केवलमस्य प्रथमभाग एव प्रकाशितोऽस्ति। द्वितीयखण्डस्तु हस्तलेखे एवास्ति ।
 
== सामवेदीयब्राह्मणानि ==
सामवेदस्य [[ब्राह्मणम्|ब्राह्मणा]]<nowiki/>नां सङ्ख्या इतरवेदेनां ब्राह्मणापेक्षया अत्यधिकाऽस्ति। सामवेदीयब्राह्मणानां संख्या [[सायणः|सायणा]]<nowiki/>चार्यमतानुसारेण निम्नलिखिताऽस्ति
 
'''‘अष्टौ हि ब्राह्मणग्रन्थाः प्रौढं ब्राह्मणमादिमम्।'''
 
'''षड्विंशाख्यं द्वितीयं स्यात् ततः सामविधिर्भवेत् ॥'''
 
'''अार्षेयं देवताध्यायो भवेदुपनिषत् ततः।'''
 
'''संहितोपनिषद् वंशो ग्रन्था अष्टावितीरिताः॥''''
 
(१) प्रौढब्राह्मणम् ([[ताण्ड्यपञ्चविंशब्राह्मणम्]]),
 
(२) [[षड्विंशब्राह्मणम्]],
 
(३) [[सामविधिः]] (सामविधानम्),
 
(४) [[अार्षेयब्राह्मणम्]],
 
(५) [[देवताध्यायः]],
 
(६) [[उपनिषद्ब्राह्मणम्]],
 
(७) [[संहितोपनिषद्ब्राह्मणम्]],
 
(८) [[वंशब्राह्मणम्]],
 
(९) [[जैमिनीयब्राह्मणम्]]।
 
सम्भवतः एतेष्वनेकब्राह्मणेषु एकस्यैव विस्तृतसामब्राह्मणस्य विविधा भागाः भवन्तु, ये कारणवशात् सम्प्रति स्वतन्त्ररूपेणाऽस्माकं सम्मुखे सन्ति। तथाप्येतेषां पारस्परिकसंवलनस्य प्रामाण्यं एतेषां ब्राह्मणानामनुशीलनेनैव भवति।
 
== सामवेदविमर्शः ==
"https://sa.wikipedia.org/wiki/सामवेदः" इत्यस्माद् प्रतिप्राप्तम्