"उपनिषद्" इत्यस्य संस्करणे भेदः

1
पङ्क्तिः १:
{{हिन्दूधर्मः}}
[[Image:Rigveda MS2097.jpg|thumb|300px| उपनिषदः तालपत्रम्]]
वेदान्ता '''उपनिषद्''' इत्याख्यायन्तेइत्यस्य । उपनिषच्छब्दस्यशब्दस्य रहस्यमर्थः, अध्यात्मविद्यारहस्यप्रतिपादका वेदभागा '''उपनिषदः''' कथ्यन्ते । मुक्तिकोपनिषदि उपनिषदां संख्या १०८ इति कथिता । तत्र १० उपनिषदः ऋग्वेदसम्बद्धाः, १९ उपनिषदः शुक्लयजुर्वेदसम्बद्धाः, ३२ कृष्णयजुर्वेदसम्बद्धाः, १६ सामवेदसम्बद्धाः, ३१ अथर्ववेदसम्बद्धाः । वेदान्ताचार्या एतासूपनिषत्सु कतिचनोपनिषदः स्वमतानुसारिव्याख्यया भूषितवन्तः । तासु दशोपनिषदः प्रसिध्दाः –ईश –केन- कठ-प्रश्न-मुण्डक–माण्डूक्य – तैत्तिरीय –ऐतरेय –छान्दोग्य- बृहदारण्यकोपनिषदः । श्वेताश्वतरोपनिषदेकादश्यपि प्रसिद्धा ।
कतिचनोपनिषदो गद्यात्मिकाः, कतिचन पद्यात्मिकाः कतिचन गद्यपद्योभयात्मिकाश्च । आसामुपनिषदां रचनाकालो भिन्नभिन्नः , परं प्रसिद्धाः कतिचनोपनिषदो बुद्धकालात्प्राचीना एवेति सर्वसम्मतम् । उपनिषदो भारतीयाध्यात्मविद्याया ज्वलन्ति रत्नानि । महर्षयो यानि आध्यात्मिकतत्त्वानि ज्ञानदृशा साक्षादकुर्वन् तानि सर्वाणि तत्त्वान्यत्र वर्णितानि । सप्तदशशतके दाराशिकोहनामा शाहजहांनाम्नः यवनसम्राजः पुत्रः ५० सङ्ख्याकाः उपनिषदः पारसीभाषायां ब्राह्मणपण्डितानां साहाय्येनानुवादितवान् ।
"https://sa.wikipedia.org/wiki/उपनिषद्" इत्यस्माद् प्रतिप्राप्तम्