"भीखाइजी कामा" इत्यस्य संस्करणे भेदः

उद्धरणम् using AWB
पङ्क्तिः ३९:
 
[[पेरिस]]-महानगरे स्थित्वा भीखाईजी 'बोर्डिंग हाउस'-इत्यस्य प्रारम्भम् अकरोत्, येन आजीविका उद्भवेत्, क्रान्तिकारिणां कृते आवासव्यवस्था अपि स्यात् । तस्याः गृहं क्रान्तिकारिणाम् आश्रयस्थानम् आसीत् । तत्र [[श्यामजी कृष्णवर्मा]], [[सरदारसिंह राणा]], [[लाला हरदयाळ]], [[सावरकर]], [[वीरेन्द्रनाथ चट्टोपाध्याय]], [[सेनापति बापट]] इत्यादयः क्रान्तिकारिणः निवसन्ति स्म । तस्याः गृहे एव आङ्ग्लविरोधियोजनानां चर्चाः भवन्ति स्म ।
[[चित्रम्:India1907FlagFlag of India 1907 (Nationalists Flag).pngsvg|thumb|right|250px|<center>'''[[वन्देमातरम्]]-ध्वजः'''</center>]]
भीखाईजी-द्वारा चालितेन आङ्ग्लविरोधिकार्येण आङ्ग्लाधिकारिणां निद्रा एव नष्टा । अतः तैः [[भारतम्|भारतं]] प्रत्यागमनाय भीखाईजी इत्येषा आदिष्टा । परन्तु आङ्ग्लानाम् आदेशस्य उपहासं कुर्वती भीखाईजी तेषाम् आदेशस्य उल्लङ्घनम् अकरोत् । भीखाईजी इत्यस्याः उपरि स्वेषां नियन्त्रणं नास्ति इति पश्यन्तः आङ्ग्लाः [[भारतम्|भारते]] स्थिताम् एकलक्षरूप्यकाणां भीखाईजी इत्यस्याः सम्पत्तिं स्वाधीनाम् अकुर्वन् । परन्तु अनेन भीखाईजी इत्यस्याः प्रसिद्धिः इतोऽपि अवर्धत । ततः भीखाईजी [[वन्दे मातरम्]]-नामकस्य क्रान्तिकारिसामयिकस्य आरम्भम् अकरोत् । तस्य समायिकस्य सम्पादन-दायित्वं [[लाला हरदयाळ]] इत्यस्य आसीत् ।
 
"https://sa.wikipedia.org/wiki/भीखाइजी_कामा" इत्यस्माद् प्रतिप्राप्तम्