"वन्दे मातरम्" इत्यस्य संस्करणे भेदः

पङ्क्तिः ३:
गीतमिदं बङ्किमचन्द्र चटर्जी महोदयेन रचितम् । १८७० तमे वर्षे ब्रीटिशजनाः "गाड सेव द क्वीन" गीतम् सर्वैः गातव्यम् इति नियमं कृतवन्तः । आङ्ग्लजनैः कृतस्य एतस्य आदेशस्य कारणातः बङ्किमचन्द्रस्य मनसि महान् रोषः उत्पन्नः । सः तस्मिन् काले ब्रिटिशसर्वकारे कार्यरतः आसीत् । प्रायः रोषस्य कारणतः सः वन्दे मातरम् गीतस्य रचनां "गाड सेव द क्वीन" गीतस्य विकल्परूपेण १८७६ तमे वर्षे कृतवान् ।
 
[[File:India1907FlagFlag of India 1907 (Nationalists Flag).pngsvg|thumb|right|150px]]
प्रारम्भे एतस्मिन् गीते पङ्क्तिद्वयम् आसीत्, तत् अपि संस्कृते एव । १८८२ तमे वर्षे यदा सः [[आनन्दमठः]] नाम्ना वङ्गभाषया कादम्बरीं लिखितवान्, तदा वन्दे मातरम्-गीतस्य अपि विस्तारं कृत्वा योजितवान् । विस्तारावसरे अस्मिन् वङ्गशब्दाः अपि योजिताः अभवन् । [[आनन्दमठः|आनन्दमठे]] क्रूरैः मुस्लिमराजैः संन्यासिनां विरोधः यः प्रदर्शितः तस्य कथा अस्ति । एतस्यां कादम्बर्यां संन्यासिनः वन्दे मातरं गीत्वा उत्साहं प्राप्य युद्धं कृतवन्तः ।
 
"https://sa.wikipedia.org/wiki/वन्दे_मातरम्" इत्यस्माद् प्रतिप्राप्तम्