"वेदः" इत्यस्य संस्करणे भेदः

पङ्क्तिः २०७:
विदन्त्येव सर्वे विद्वांसो यद्, वेदा एव भारतवर्षस्य [[भारतीयसंस्कृतिः|भारतीयसंस्कृते]]<nowiki/>श्व मुख्यमवलम्बनमिति। ते च भगवता कृष्णद्वैपायनेन शिष्याणां ग्रहणसौकर्य्याय ऋग्यजुःसामाथर्वभेदेन चतुर्धा विभज्य यथाक्रमं पैल-वैशम्पायन-जैमिनि-सुमन्तुभ्यः प्रदत्ताः । कालक्रमेण शिष्योपशिष्यैः गृहीतास्ते बहुशाखात्वम् आपन्नाः। तदुक्तं [[महाभाष्यम्|व्याकरणमहाभाष्ये]] पस्पशाह्निके भगवता [[पतञ्जलिः|पतञ्जलिना]]<nowiki/>-
 
'''<nowiki/>'एकशतमध्वर्युशाखाः, सहस्रधत्मासहस्रवर्त्मा सामवेदः ॥'''
 
'''एकविशतिधाबह्वृचंएकविशतिधा बाह्वृच्यं , नवधा आथर्वणो वेदः ॥' इति ॥'''
 
तत्रायं [[वेदः]] भारतीयसंस्कृत्याः मूलस्रोतमस्ति। विश्वस्यागमेषु वेदाः प्राचीनतमाः,<ref>p. 126, ''History of British Folklore'', Richard Mercer Dorson, 1999, ISBN 9780415204774</ref> अत एव नृशास्त्रज्ञानां, मानवप्रकृतेः अध्येतॄणां जगतो विभिन्नेषु धर्मेषु सश्रद्धं प्रवर्त्तमानानाच्च जनानां सानुरागविषया इमे वेदाः। ये जना वेदानाम् अभ्यन्तरे सांसारिकसमस्तैश्वर्याणाम् अन्वेषणम् अक्लान्तपरिश्रमेण कुर्वन्ति, ते न जानन्ति वेद-ज्ञानयोर्मध्येऽन्तरमस्ति इति। विद्-धातौ तथा ज्ञा-धातौ सामान्यतः एकत्वे सत्यपि मूलतः पार्थक्यम् अस्ति। भौतिकविद्यायाम् अभिज्ञतायाः नाम अस्ति ज्ञानं, तथा च अध्यात्मशास्त्रस्य तथ्यानाम् अवगत्याः नाम अस्ति वेद इति । एकस्य लक्ष्यं बाह्यविषयाणाम्, अपरस्य च अभ्यन्तर-विषयाणां विश्लेषणमस्ति । वेदज्ञानशब्दयोः पार्थक्यं संस्कृतेन सम्बद्धानाम् अनेकयूरोपीयभाषागतशब्दानाम् अनुशीलनेनापि ज्ञायते। [[जर्मनभाषा]]<nowiki/>यां द्वौ सम्बद्धौ धातू स्तः - केन्नेन (Kennon) तथा वाइसेन ( Weisen) इति। [[आङ्ग्लभाषा]]<nowiki/>यामपि द्वौ सम्बद्धौ शब्दौ स्तः - नालेज ( Knowledge ) तथा विजडम (Wisdom) इति। अनयोः 'केन्नेन' तथा 'नालेज' इत्यनयोः शब्दयोः साक्षात्सम्बन्धमस्ति संस्कृतस्य ‘ज्ञा'-धातुना सह तथा ‘वाइसेज' एवं 'विजडम' इत्यनयोः शब्दयोः सम्बन्धमस्ति ‘विद्'धातुना सह। अतः ‘वेद' इत्यस्य शब्दस्य मौलिकतात्पर्यमस्ति अध्यात्मविषयाणामन्वेषणम् इति।
"https://sa.wikipedia.org/wiki/वेदः" इत्यस्माद् प्रतिप्राप्तम्