"निघण्टुः" इत्यस्य संस्करणे भेदः

1
 
पङ्क्तिः १२:
 
वर्त्तमाने निघण्टुग्रन्थे ‘वृषाकपिः’ शब्दः सङ्गृहीतोऽस्ति । अतः महाभारतकालेऽस्य निघण्टुग्रन्थस्य निर्मातृपदेन प्रजापतिः कश्यप एव प्रख्यातः मन्यते।
 
== व्युत्पत्तिः ==
निघण्टु्शब्दस्य व्युत्पत्तिः एवं भवति । नि + गम्लृ गतौ + तुन् प्रत्ययः (उणा.१.६९.) अपि च वदति यास्कः - '''निघण्टवः कस्मात्? निगमा इमे भवन्ति । ते निगन्तव एव सन्तो निगमनात् निघण्टव इत्युच्यन्त इति औपमन्यवः।''' निश्चयेन गमयन्ति प्रापयन्ति वेदार्थान् इति निगमाः, निघण्टवो वा । अपि च हन धातुना अपि निघण्टुशब्दस्य व्युत्पत्तिं दर्शयन्ति - '''सम्यक्तया आहताः वेदेभ्यः''' इति ।
 
== विषयवस्तु ==
 
निघण्टुग्रन्थे १७७३ शब्दाः सङ्गृहीताः । अध्यायपञ्चकेषु विभक्तोऽयं ग्रन्थः । गवादि देवपत्न्यन्ताः वैदिकशब्दाः तत्रोक्ताः । प्रथमाध्यायत्रयं नैघण्टुककाण्डमिति प्रोक्तम् । चतुर्थाध्यायस्तु नैगम इत्युच्यते । पञ्चमस्तावत् दैवतमिति संविज्ञातम् । अस्य ग्रन्थस्य विषये यास्कः स्वयमेव वदति -
 
'''समाम्नायः समाम्नातः, स व्याख्यातव्यः । ... छन्दोभ्यः समाहृत्य समाहृत्य समाम्नाताः ।'''<ref>(निरु.१.१.)</ref>
 
अर्थात् अस्मिन् ग्रन्थे निघण्टौ आम्नायशब्दाः एव समाहृताः । तस्य विवरणमत्र निरुक्ते क्रियते ।
 
निघण्टौ पञ्चाध्यायाः सन्ति । आदिमस्त्रयोऽध्यायाः ‘नैघण्टुककाण्डम्' इत्यभिधीयन्ते । चतुर्थोऽध्यायो नैगमकाण्डं, पञ्चमोऽध्यायो दैवतकाण्डमिति पदेन व्यपदिश्यते । प्रथमतस्त्रिष्वध्यायेषु पृथिव्यादिबोधकानाम् अनेकशब्दानाम् एकत्र सङ्ग्रहोऽस्ति । द्वितीयकाण्डमेकपदीयमपि कथ्यते । 'नैगमः' इत्येतस्य पदस्य तात्पर्यमिदमस्ति यदेतस्य प्रकृतिप्रत्यययोः यथार्थावगमनं न भवति - '''<nowiki/>'अनवगतसंस्कारांश्च निगमान्॥'''' दैवतकाण्डे देवतायाः स्वरूपस्थानयोः निर्देशो लभते।
"https://sa.wikipedia.org/wiki/निघण्टुः" इत्यस्माद् प्रतिप्राप्तम्