"यास्कः" इत्यस्य संस्करणे भेदः

1
पङ्क्तिः १०:
 
यास्काचार्यः एकः प्राचीनतमः भाषाविज्ञानिः आसीत् । एतस्य एव [[निरुक्तम्|निरुक्तशास्त्रं]] प्रसिद्धं वर्तते ।
 
== कालः ==
यास्कस्य कालस्थानयोः विषये विदुषां मतभेदो वर्तते । आधुनिकपाश्चात्यविदुषां मते यास्कस्य कालः प्रायः ईसापूर्व सप्तमशताब्दिः (7th BC)। यास्कः [[पाणिनिः|पाणिनेः]] प्राचीनः इत्यैतिहासिकानां मतम् । यास्कस्य निरुक्तस्यान्ते पारस्कर इति नाम विद्यते । तेन ज्ञायते यत् सः पारस्करदेशीय इति । अपि तस्य गोत्रनाम यास्कः इति तस्य निजनाम किमिति एतावत्पर्यन्तं न ज्ञायते । यास्कस्य ग्रन्थद्वयं विद्यते । [[निघण्टु:|निघण्टुः]] निरुक्तञ्चेति । निघण्टौ वैदिकशब्दानां सङ्ग्रहः वर्तते । यास्कादपि पूर्वं निघण्टुग्रन्थः आसीत् । तस्य परिष्कारः कृतः यास्केन । स्वपरिष्कृतनिघण्टुग्रन्थस्य भाष्यमेव निरुक्तम् ।
 
[[पाणिनिः|पाणिनेः]] अपि प्राचीनतरः यास्कः मन्यते। [[संस्कृतभाषा]]<nowiki/>याः यो विकासो यास्कस्य निरुक्ते लभते, तत्पाणिनेः [[अष्टाध्यायी|अष्टाध्याय्यां]] व्याख्यातरूपतः प्राचीनतरः अस्ति । [[महाभारतस्य पर्वसूचिः|महाभारत]]<nowiki/>स्य [[शान्तिपर्व]]<nowiki/>णः मोक्षधर्मपर्वण-नामकस्य उपपर्वणः अनुसारेण निघण्टोः कर्त्ता यास्को नाऽऽसीत् । अस्य रचयिता कोऽपि प्रजापतिः काश्यप अासीत् —
 
'''<nowiki/>'वृषो हि भगवान् धर्मः ख्यातो लोकेषु भारत।'''
 
'''निघण्टुकपदाख्याने विद्धि मां वृषभुत्तमम्॥''''
 
'''<nowiki/>'कपिर्वराहः श्रेष्ठश्च धर्मश्च वृष उच्यते।'''
 
'''तस्माद् वृषाकपिं प्राह कश्यपो मां प्रजापतिः॥'<ref>महा. मो. प. अ. ३४२, श्लो. ८६-८७</ref>'''
 
तत्रैव निघण्टोः व्याख्याता यास्कः इति उल्लिखतं यत् -
 
'''लिपिविष्टेति चाख्यायां हीनरोमा च योऽभवत्।'''
 
'''तेनाविष्टं तु यत्किञ्चित् शिपिविष्टेति च स्मृतः ॥'''
 
'''यास्को मामृषिरव्यग्रोऽनेकयज्ञेषु गीतवान् ।'''
 
'''शिपिविष्ट इति ह्यस्माद् गुह्यनाम परोह्यहम् ॥'''
 
'''स्तुत्वा मां शिपिविष्टेति यास्कः ऋषिरुदारधीः।'''
 
'''मत्प्रसादादधोनष्टं निरुक्तमधिजग्मिवान् ॥'<ref>(म० भा० शा० प० श्लो० ६९-७१ )</ref>'''
 
प्राप्तप्रमाणानाम् आधारेण निम्नतर्कैः विदुषः यास्कस्य कालनिर्धारणाय प्रयतन्ते।
 
(क) महाभारतस्य उपरिलिखितपद्यद्वयस्य उद्धरणात् ततः अर्वाचीनं महाभारतम्,
 
(ख) [[पाणिनिः]] स्वकीये ‘वासुदेवार्जुनाभ्यां वुन्' ४॥३॥९८ इत्यस्मिन् सूत्रे ‘कृष्णाऽर्जुनौ' स्मृतवानिति ततोऽयं प्राचीनः । पाणिनिः पाण्डुपुत्रादर्जुनात्परवर्त्ती मन्यते। पाण्डुपुत्राणां समयस्तु राजतरङ्गिण्याम् —
 
'''<nowiki/>'शतेषु षट्सु साऽर्धेषु त्र्यधिकेषु च भूतले॥'''
 
'''कलेर्गतेषु वर्षाणामभवन् कुरुपाण्डवाः॥''''
 
एवं ख्रीष्टपूर्वनवमशतकस्य पूर्वार्धे यास्कः अजायतेति मन्यते। 
 
==बाह्यसम्पर्कतन्तुः==
*[http://www.hindunet.org/hindu_history/sarasvati/dictionary/9niruktam.htm Niruktam sememes]
"https://sa.wikipedia.org/wiki/यास्कः" इत्यस्माद् प्रतिप्राप्तम्