"वेदाङ्गम्" इत्यस्य संस्करणे भेदः

1
1
पङ्क्तिः १३:
इत्यनेन चतुर्दशसु विद्यासु वेदाङ्गानां स्थानं प्रथमम् अस्ति ॥
 
== वेदाङ्गस्यार्थः ==
==शिक्षा==
अङ्गशब्दस्य व्युत्पत्तिलभ्यः अर्थोऽस्ति - 'उपकारकः’ - 'अङ्ग्यन्ते ज्ञायन्ते अमीभिरिति अङ्गानि॥' अर्थाद् येन कस्याऽपि वस्तुनः स्वरूपज्ञाने साहाय्यं प्राप्यते तदेव अङ्गमिति कथ्यते ।
यथा वैदिकविधीनां सम्पादनार्थं ब्राह्मणग्रन्थाः उपयुज्यन्ते तथैव उच्चारणप्रयोजनायैव शिक्षायाः उपयोगो भवति । वेदानां वैदिकसाहित्यानां वा अध्ययन - अध्यापन-विषयविधीनां निर्देशः शिक्षाशास्त्रे कृतः । शिक्षा स्वर-वर्णाद्युच्चारणानि केन प्रकारेण कर्तव्यानि इत्येतस्मिन् विषये उपदिशति । सायणस्य ऋग्वेदभाष्यभूमिकायाम् उक्तम्-"स्वरवर्णाद्युच्चारणप्रकारो यत्र शिक्ष्यते उपदिश्यते सा शिक्षा" इति । वेदभाषाप्रयोगावसरे शुद्धमुच्चारणं स्वरप्रक्रिया च युक्ता काम्यते । अशुद्धोच्चारणयुक्तो भ्रष्टस्वरवेदपाठो महत् दुष्फलं जनयति । यज्ञयागोपासनादिसदृशं यत् कार्यम् इष्टलाभाय क्रियते, तस्मात् इष्टलाभो न कदापि अशुद्धेन उच्चारणेन सञ्जायते । श्रूयते यत्पुरा "इन्द्रशत्रुर्वर्धस्व" इत्येतन्मन्त्रस्य अशुद्धोच्चारणं कृतम् अभूत् । तेन च यजमानं प्रति तदनिष्टकारकम् असिद्ध्यत । पाणिनीयशिक्षायाम् उक्तञ्च-
 
" मन्त्रो हीनः स्वरतो वर्णतो वा मिथ्याप्रयक्तो न तमर्थमाह । स वागवज्रो यजमानं हिनस्ति यथेन्द्र्शत्रुः स्वरतोपराधात्"॥ इति वेदोच्चारणस्य युक्ततायै स्वरज्ञानम् अपेक्ष्यते । स्वरः उदात्त-अनुदात्त-स्वरितभेदेन त्रिधा ॥
वेदः स्वयमेवैकः दुरूहो विषयोऽस्ति । तदर्थज्ञाने, तस्य कर्मकाण्डस्य प्रतिपादने यानि उपयोगीनि शास्त्राणि सन्ति, तान्येव वेदाङ्गानि भवन्ति ।
वेदेषु शुद्धोच्चारणं वाञ्छितं भवति । शिक्षा शुद्धोच्चारणं समुपदिशति । एतस्मादेव षट्सु वेदाङ्गेषु शिक्षाङ्गस्य मूर्धन्यत्वम् आम्नातम् । शिक्षायाः अभिमतो विषयः प्रातिशाख्येषु दृश्यते । शिक्षाशास्त्रस्य इतिहासः पुरातनतरः । शिक्षासङ्ग्रहनामके ग्रन्थे द्वात्रिंशत्-शिक्षापुस्तकानां सङ्ग्रह अवाप्यते । शिक्षा इमाश्चतुर्णामपि वेदानां भिन्नभिन्नशाखासु आत्मानं सम्बध्नन्ति । साम्प्रतं सम्प्राप्ता पाणिनीयशिक्षा सीत्राणां साहाय्येन प्रणीता अभूदिति बुधानां विचारः । शुक्लयजुर्वेदे याज्ञवल्क्यशिक्षा, सामवेदे नारदशिक्षा, अथर्ववेदे माण्डूकीयशिक्षा, ऋग्वेदे पाणिनीयशिक्षा च प्राप्यन्ते ॥
 
== आवश्यकता ==
वेदस्य यथार्थज्ञानलाभाय षण्णां विषयाणां ज्ञानमपेक्षितं भवति । वेदमन्त्राणाम् अवितथोच्चारणमेव प्रथममावशयकं भवति। शब्दमयमन्त्राणां यथार्थोच्चारणाय प्रवर्तमानं वेदाङ्गं 'शिक्षा' इत्यभिधीयते । वेदस्य मुख्यप्रयोजनं वैदिककर्मकाण्डस्य यज्ञयागस्य च यथार्थानुष्ठानमस्ति । अस्मिन्नर्थे प्रवृत्तमङ्गं 'कल्प' इति कथ्यते । वेदानां रक्षकत्वाद् वेदार्थावबोधने सहायकत्वात् प्रकृतिप्रत्ययोपदेश-पुरःसर-पदस्वरूप-प्रतिपादकत्वादर्थनिर्णयनकृत्साधनेष्वन्यतमसाधनत्वेन प्रयुक्तत्वाद् व्याकरणं नाम वेदाङ्गं नितान्तमेव महनीयं श्रेष्ठञ्च अङ्गमङ्गेषु स्मृतम् । निरुक्तस्यास्ति विषयः — वैदिकपदानां व्युत्पादनम् । निरुच्यते निश्शेषेणोपदिश्यते तत् तदर्थावबोधनाय पदजातं यत्र तन्निरुक्तमिति कथ्यते । वेदाः – सन्ति छन्दोबद्धाः । अतः तेषाम् उच्चारणनिर्मित्ताय छन्दोज्ञानं नितरामपेक्षितम् । वरुणस्य विषये शुनःशेपऋषेः प्रख्यातोऽयं मन्त्रोऽस्ति—
 
'''<nowiki/>'निषाद घृतव्रतो वरुणः पस्त्यास्वा॥ साम्राज्याय सुक्रतुः॥''''
 
यज्ञभागाः बहुविधाः सन्ति। केचन यज्ञाः एवंविधा विधाने नीताः, ये संवत्सरसम्बन्धिनः सन्ति । केचन क्रतुसम्बन्धिनो वर्तन्ते । केचन च तिथि-मास-पक्षनक्षत्रपरकाः सन्ति । तस्माज्ज्यौतिषं नाम वेदाङ्गमपि नैजं वैशिष्ट्यं निदधाति ।
 
संक्षेपेण वैदिकमन्त्राणामुचितोच्चारणाय शिक्षायाः, कर्मकाण्डस्य यज्ञीयानुष्ठानस्य च निमित्ताय कल्पस्य, शब्दानां रूपज्ञानाय व्याकरणस्य, अर्थज्ञानाय निर्वचनाय च निरुक्तस्य, वैदिकच्छन्दसां ज्ञानलाभाय छन्दसः, अनुष्ठानस्योचितकालनिर्णयार्थं च ज्योतिषशास्त्रस्य प्रयोजनमस्ति ।
 
आधुनिकानामितिहासकाराणां कथनमिदं यत् षण्णामपि वेदाङ्गानां निर्माणं वैदिकयुगस्य उत्तरार्द्धभागेऽभवत् । शिक्षा, व्याकरणं, कल्पः, निरुक्तं, छन्दः, ज्यौतिषं इत्येतानि वेदाङ्गानि सन्ति। पाणिनीयशिक्षा प्राह -
 
'''छन्दः पादौ तु वेदस्य हस्तौ कल्पोऽथ पठ्यते।'''
 
'''ज्योतिषामयनं चक्षुर्निरुक्तं श्रौतमुच्यते।।'''
 
'''शिक्षा घ्रणां तु वेदस्य मुखं व्याकरणं स्मृतम्।'''
 
'''तस्मात् साङ्गमधीत्यैव ब्रह्मलोके महीयते।।'''<ref>'''(पा. शि. ४१/४२)'''</ref>
 
पतञ्जलिना अपि उक्तम् - 'ब्राह्मणेन निष्कारणो धर्मः षडङ्गो वेदोऽध्येयो ज्ञेयश्च' (पस्पशाह्निके)।
 
षण्णामप्येतेषां वेदाङ्गानाम् उल्लेखो [[गोपथब्राह्मण]]<nowiki/>-[[बौधायनधर्मसूत्रम्|बौधायनधर्मसूत्र]]<nowiki/>-[[गौतमधर्मसूत्रम्|गौतमधर्मसूत्र]]<nowiki/>-[[रामायणकथामञ्जरी|रामायण]]<nowiki/>समेषु प्राचीनग्रन्थेषूपलभ्यते । बुद्धावतारात्प्राग्वर्त्तीकालात् उत्तरवैदिककालत्वेन अनुमीयते। वेदानां भाषा भावश्च उभावपि दुरूहौ स्तः तस्माद् वेदार्थावगमनाय वेदाङ्गानामपेक्षा भवति । 
 
== शिक्षा==
 
{{Main|शिक्षा}}
 
शिक्षानाम तच्छास्त्रं येन वेदमन्त्राणामुच्चारणं शुद्धं सम्पाद्येत । वेदे स्वरस्य प्राधान्यं वर्तते, स्वरज्ञानं च शिक्षाऽऽयत्तम्, अत एवेदं शिक्षाशास्त्रं वेदाङ्गम् । शिक्षाशास्त्रप्रयोजनं तैत्तिरीयोपनिषदारम्भे उक्तं, यथा —
 
'''<nowiki/>'अथ शिक्षा व्याख्यास्यामः - वर्णः, स्वरः, मात्रा, बलम्, साम, सन्तान इत्युक्तः शिक्षाध्यायः॥''''
 
तत्र वर्णोऽकारादिः, स्वरोदात्तादिः, मात्रा ह्रस्वादिः, बलं स्थानप्रयत्नौ, साम निषादादिः, सन्तानो विकर्षणादिः । एतदवबोधनमेव शिक्षायाः प्रयोजनम् ।
 
यथा वैदिकविधीनां सम्पादनार्थं [[ब्राह्मणम्|ब्राह्मणग्रन्थाः]] उपयुज्यन्ते, तथैवोच्चारणप्रयोजनेन शिक्षायाः उपयोगो वाञ्छच्यते । वेदानां वैदिकसाहित्यस्य वा अध्ययनाध्यापनविषयकविधीनां निर्देशः शिक्षाशास्त्रे कृतः । शिक्षा स्वरवर्णाद्युच्चारणानि केन प्रकारेण कर्त्तव्यानीत्येतस्मिन् विषये उपदिशति । [[सायण]]<nowiki/>स्य ऋग्वेदभाष्यभूमिकायामुक्तम् -
 
'''<nowiki/>'स्वरवर्णायुच्चारणप्रकारो यत्र शिक्ष्यते उपदिश्यते सा शिक्षेति''''
 
वेदपाठावसरे शुद्धमुच्चारणं स्वरक्रिया च युक्ता काम्येते। अशुद्धोच्चारणयुक्तो भ्रष्टस्वरश्च वेदपाठो महद् दुष्फलं जनयति । यज्ञयागोपासनादिकं यत्कार्यमिष्टलाभाय क्रियते, तस्माद्विशिष्टलाभो न कदापि अशुद्धेनोच्चारणेन समवाप्तः सञ्जायते । तद्विधमशुद्धोच्चारणयुतं कार्यं तु विपदां महतीम् उत्पादयति। श्रूयते यत् पुरा 'इन्द्रशत्रुर्वधस्व' इत्यस्य मन्त्रस्य अशुद्धोच्चारणं कृतमभूत्, तेन यजमानम्प्रति तदनिष्टकारकमसिद्धयत् । [[पाणिनीया शिक्षा|पाणिनीयशिक्षा]]<nowiki/>यामुक्तम् --
 
'''<nowiki/>'मन्त्रो हीनः स्वरतो वर्णतो वा, मिथ्याप्रयुक्तो न तमर्थमाह।'''
 
'''स वाग्वज्रो यजमानं हिनस्ति, यथेन्द्रशत्रुः स्वरतोऽपराधात्॥''''
 
==कल्पः==
 
{{Main|कल्पः}}
 
कल्पः वेदानां द्वितीयमङ्गमस्ति । ब्राह्मणकाले यागस्य तावान् प्रचारः जातः यत्, तेषां यथावज्ज्ञानाय पूर्णपरिचयप्रदायकग्रन्थानाम् आवश्यकता अनुभूयते स्म, तामेव आवश्यकतां स्वल्पैः शब्दैः पूरयितुं कल्पसूत्राणि विरचितानि । वेदविहितानां कर्मणां व्यवस्थापनं क्रमपूर्वकं कल्पशास्त्रे कल्पितम्। उत्तञ्च - 'कल्पो वेदविहितानां कर्मणामानुपूष्येण कल्पनाशास्त्रम्।'
 
== व्याकरणम्==
 
{{Main|व्याकरणम्}}
 
व्याकरणं नाम [[वेद|वेदा]]<nowiki/>नां रक्षकत्वाद् वेदार्थावबोधने सहायकत्वात्, प्रकृति-प्रत्यय-उपदेश-पुरस्सरपदस्वरूप-प्रतिष्ठापकत्वाद् अर्थनिर्णयनकृत्साधनेषु अन्यतमसाधनत्वेन प्रयुक्तत्वाद् वेदाङ्गस्य किञ्चन अङ्गम्। 
 
==निरुक्तम्==
 
"निरुच्यते, निश्शेषेण उपदिश्यते, तत्तदर्थावबोधनाय पदजातं यत्र तन्निरुक्तम्" इति कथ्यते । निरुक्तस्य अस्य विषयः वैदिकपदानां व्युत्पादनम् । तत् दुरुहपदानाम् अर्थावबोधनाय वैदिकव्याख्यानाय च विरचितमभूत् । भाषाशास्त्रदृष्ट्या निरुक्तम् अनुपमं रत्नम् । यास्कस्य निरुक्ते द्वादशनिरुक्तकाराणां मतानि निर्दिष्टानि प्राप्यन्ते। साम्प्रतं तु इदं यास्कविरचितं निरुक्तमेव निरुक्ताख्यस्य वेदाङ्गस्य प्रतिनिधित्वं करोति । यास्कः पाणिनेः प्राचीनतरः । निरुक्तप्रतिपादिताः विषयाः अधस्थितेन श्लोकेन उपस्थाप्यन्ते
{{Main|निरुक्तम्}}
"वर्णागमौ वर्णविपर्ययश्च द्वौ चापरौ वर्णविकारनाशौ
 
धातोस्तदर्थातिशयेन योगस्तदुच्यते पञ्चविधं निरुक्तम्"॥
निरुक्तं [[निघण्टुः|निघण्टो]]<nowiki/>र्महत्त्वपूर्णा टीकाऽस्ति । निरुच्यते निश्शेषेण उपदिश्यते तत् तदर्थावबोधनाय पदजातं यत्र तत् निरुक्तमिति कथ्यते । निरुक्तं यस्मिन्नाधारे प्रवृत्तं भवति — अर्थात् प्रत्येकं संज्ञापदं धातुना व्युत्पन्नोऽभवत् इत्याधारस्तु नितान्तं वैज्ञानिकमस्ति । अस्यैव सम्प्रति नामास्ति ‘[[भाषाविज्ञानम्]]' । अस्योन्नतिः पाश्चात्यजगति शतवर्षाभ्यन्तरे अभवत् । त्रिसहस्रवर्षं प्राग् वैदिकाः ऋषयः अस्य शास्त्रस्य सिद्धान्तानां वैज्ञानिकरीत्या निरूपणं कृतवन्तः । भाषाशास्त्रस्य इतिहासे भारतवर्षे एव अस्य मूलोद्गमस्थानमस्ति । निरुक्तस्य आरम्भेऽस्य विषयस्य येषां नियमानां प्रतिपादनं समुपलब्धं भवति, तत्तु विशेषरूपेण महनीयमस्ति।
==व्याकरणम्==
वेदानां रक्षकत्वात् वेदार्थावबोधने सहायकत्वात् प्रकृति-प्रत्यय-उपदेशपुरःसरपदस्वरुपप्रतिष्ठापकत्वात् अर्थनिर्णय-साधनेषु अन्यतमत्वात् च व्याकरणं नाम अङ्गं नितान्तमेव महनीयं श्रेष्ठं च । व्याकरणस्य व्युत्पत्तिः तु "व्याक्रियन्ते=व्युत्पाद्यन्ते शब्दाः अनेन इति व्याकरणम्" इति । व्याकरणं वेदस्य मुखत्वेन स्मृतम् । व्याकरणशास्त्रं नितरां प्राचीनमस्ति । गोपथब्राह्मणे व्याकरणविषयाः निर्दिष्टाः सन्ति ।
पुरा अनेकव्याकरणकर्तारः आचार्याः बभूवुः । तत्र आपिशलि-शाकटायनादीनां व्याकरणकर्तॄणाम् उल्लेखः कृतो वर्तते । परं साम्प्रतं तु पाणिनीयं व्याकरणं प्राप्यते । तत्कृतो ग्रन्थः अष्टाध्यायी सर्वासु लसितो भूत्वा विभाति । यादृशं हि सुललितं देववाण्याः शास्त्रीयं विभाजनं तत्र दृश्यते नान्यत्र तादृशं विलोक्यते । तत्र लौकिकं वैदिकम् उभयविधमपि व्याकरणमाम्नातम् ॥
 
==छन्दः==
वेदाः सन्ति छन्दोबद्धाः । अतस्तषापुच्चाफ़णनिमित्ताय छन्दोज्ञानं नितरामपेक्षितम् । विना छन्दोज्ञानं यो वेदाध्ययनयजनयाजनादिकर्माणि करोति तस्य तानि सर्वाणि कार्याणि न भवन्ति फलितानि । छन्दः इत्येतस्य पदस्य व्युत्पत्तिः -"छन्दयति प्रीणाति इति वा, छन्दयति अह्लादयति इति वा छन्दः" इति। "छन्दांसि छादनात्" इति यास्ककथनतः वेदार्थवाचकं छन्दःपदं "छ्द् छादने" इति धातोः निष्पन्नम् । प्रधानेषु वैदिकेषु छन्दस्सु इमानि गण्यन्ते-गायत्री उष्णिक्-अनुष्टुप्-बृहती-पङिक्त-त्रिष्टुप्-जगति-अतिजगति-शक्वरी-प्रभृतयः ॥
==कल्पः==
वेदविहितानां कर्मणां क्रमपूर्वकं विधानं कल्पशास्त्रे कल्पितम् । उक्तञ्च- ‘कल्पे वेदविहितानां कर्मणाम् आनुपूर्व्येण कल्पनाशास्त्रम्’ इति।
 
{{Main|छन्दः}}
कल्पसूत्राणि सन्ति चतुर्विधानि । श्रौतसूत्रं, गृह्यसूत्रं, धर्मसूत्रं, शुल्बसूत्रञ्चेति । श्रौतसूत्रे ब्राह्मणग्रन्थवर्णितानां श्रौताग्नियज्ञानां क्रमबद्धं वर्णनं वर्तते । गृह्यसूत्रे गृह्याग्निसम्बद्धयागानाम् उपनयनविवाहश्राद्धादिसंस्काराणां विस्तृतं विवरणं प्रस्तुतं विद्यते । धर्मसूत्रे चतुर्णां वर्णानाम् आश्रमाणां च कर्तव्यानि निर्दिष्टानि सन्ति । चतुर्थं शुल्बसूत्रं तु वेदिनिर्माणप्रकारं विशेषतः प्रतिपादयति ।
 
छन्दो वेदस्य पञ्चमाङ्गमस्ति । वेदाः सन्ति छन्दोबद्धाः, अतः तेषामुच्चारणनिमित्ताय छन्दोज्ञानं नितरामपेक्षितम्। छन्दोभिधेनैतेनाङ्गेन छन्दसा सर्वेषामुच्चारणस्य विधिः, तदगतिप्रकारः, तद्गानरीतिश्च विदिता भवति। तस्माद्वैदिकमन्त्रोच्चारणप्रयोजनेन तदध्ययनं पूर्वमुचितम् । विना छन्दोज्ञानं यो वेदाऽध्ययनयजनयाजनादिकार्याणि करोति, तस्य तानि सर्वाणि कार्याणि न भवन्ति फलदायकानि । स्पष्टतया [[कात्यायन|कात्यायनेन]] उक्तम् -
धार्मिकदृष्ट्या श्रौतसूत्रस्य विषयः महत्त्वशाली । ऋग्वेदस्य आश्वलायनं शाङ्खायनञ्च इत्येते द्वे श्रौतसूत्रे स्तः । गृह्यसूत्रे च तदीये आश्वलायनं शाङ्खायनं च स्तः । शुक्लयजुर्वेदे श्रौतसूत्रम् एकमेव, तदस्ति कात्यायनश्रौतसूत्रम् । कृष्णयजुर्वेदसम्बद्धानि श्रौतसूत्राणि बोधायन-आपस्तम्ब-हिरण्यकेशि-वैखानस-भारद्वाज-मानवनामधेयानि सन्ति । एतस्मिन् वेदे बोधायनगृह्यसूत्रमपि सुलभमस्ति । सामवेदीयकल्पसूत्रेषु अर्णयं कल्पसूत्रं प्राचीनतमम् । वेदस्यास्य मुख्यं गृह्यसूत्रं कौथुमशाखीयं गोभिलगृह्यसूत्रं सुविदितम् । अथर्ववेदस्य श्रौतसूत्रं वैताननामकं, किञ्च तदीयं गृह्यसूत्रं कौशीसंज्ञकं वेद्यम् ।
 
'''<nowiki/>'यो ह वा अविदितार्षेयच्छन्दो दैवतब्राह्मणेन मन्त्रेण याजयति वा अध्यापयति वा स्थाणुं वर्च्छति गर्त्ये वा पात्यते प्रमीयते वा पापीयान् भवति।''''<ref>( सर्वानुक्रमणी १।१ )</ref>
धर्मसूत्राणि कल्पस्य गौरवमयानि अङ्गानि सन्ति । परं न साम्प्रतं प्रतिशाखायाः धर्मसूत्राणि लभ्यन्ते । धर्मसूत्रेषु चतुर्वर्णकर्तव्यानि कर्माणि, व्यवहाराः, राजधर्मः, आश्रमधर्मः, विवाहः, दायभागः, प्रायश्चित्तं, नित्यनैमित्तिकं कर्म इत्येते अन्ये च अनेके विषयाः वर्णिताः सन्ति । धर्मसूत्रेषु प्राचीनतमं गौतमधर्मसूत्रं विद्यते । गौतमधर्मसूत्रं निर्दिशन्तो याज्ञवल्क्य-कुमारिल-शङ्कराचार्य-मेधादयः प्राप्यन्ते । बोधायनोपि धर्मसूत्रस्य प्राचीनतमाचार्यो इति मतः । वसिष्ठश्च प्रतिष्ठितेषु धर्मसूत्रकारेषु गण्यते । तदीयं धर्मशास्त्रं यद्यपि लघुकायं परं गुणविपुलत्वेन महनीयमस्ति ॥
 
==ज्योतिषम्==
"https://sa.wikipedia.org/wiki/वेदाङ्गम्" इत्यस्माद् प्रतिप्राप्तम्